#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00365 Uniform title: āryamañjuśrīmūlakalpam Part 3 Editor : T. Gaṇapatiśāstrī Description: Trivandrum Sanskrit Series No. 84 Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: Oct. 2, 2016 Publisher : Government Press Travancore Publication year : 1922 Publication city : Travancore Publication country : India #################################################### प्द्f १५, प्. ५४४) || श्रीः || आर्यमञ्जुश्रीमूलकल्पम् | (तृतीयो भागः |) अथ पञ्चाशः पटलविसरः | अथ खलु भगवां वज्रपाणिर्यक्षसेनापतिः तस्यां पर्षदि सन्निपतितोऽभूत् | सन्निषण्णः उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य स येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - यो हि भगवं मञ्जुश्रिया कुमारभूतेन क्रोधराजा यमान्तको नाम भाषितः तस्य कल्पं विस्तरशो भगवता न प्रकाशितम् | नापि मञ्जुश्रिया कुमारभूतेन | अहं भगवं पश्चिमता जनतामवेक्ष्य भगवता परिनिर्वृते शासनान्तर्धानकालसमये वर्तमाने महाभैरवकाले युगाधमे सर्वश्रावकप्रत्यकेबुद्धविनिर्मुक्ते बुद्धक्षेत्रे तथागतशासनसंरक्षणार्थं धर्मधातुचिरस्थित्यर्थं सर्वदुष्टराज्ञां निवारणार्थं रत्नत्रयापकारिणां निग्रहार्थं वैनेयसत्त्वकौशलाचिन्त्यबोधिसत्त्वचर्यापरिपूरणार्थं अचिन्त्यसत्त्वपाकमभिनिर्हरणार्थं च पश्चिमे भगवं काले पश्चिमे सुगतसमये शासनविप्रलोपे वर्तमाने य इमं यमान्तकं नाम क्रोधराजानं यथाविधि कल्पविनिर्दिष्टं प्रयोक्ष्यति तस्य सिद्धिः भविष्यति | नियतं च दुष्टराज्ञां शासनापकारिणां च सत्त्वानां महायक्षाणां महोत्साहिनां निग्रहानुग्रहप्रवृत्तानां महाकरुणाविरहितानां तेषामयं क्रोधराजा प्रयोक्तव्यः नान्येषाम् || अथ भगवां तूष्णी***(?) **(?)विकुर्वणाधिष्ठानं नाम समाधिं कल्प्यते स्म | मञ्जुश्रीः ***** (?) तूष्णीम्भावेन स्थितोऽभूत् | ****(?)श्च पर्षन्मण्डल षड्********(?)जायत | प्द्f १६, प्. ५४५) णोत् च्लेअर् प्द्f १७, प्. ५४६) *************(?) लौकिकाः | * * * * * * * * * * * * * * * * (?) || तेऽस्मिं सिद्धिमायान्ति मन्त्रतश्चाविभाषितम् | विचरन्ति महीं कृत्स्नां विचित्रा वेषधारिणो || गतियोनिविदेहस्थाः श्वानवायसरूपिणः | मार्जार तथोलूकाः मूषमण्डूकवृश्चिकाः || सर्वयोनिसमाकीर्णाः विदेहा देहविस्थिताः | पर्यटन्ति महीं कृत्स्नां सर्वभूतरुताविनः || सर्वसत्त्वे वशा वेषा सर्वभूते प्रियोदया | कुर्वन्ति च सदा मर्त्या तदा तेषां नियोजयेत् || नान्येषां कथ्यते लोके पूजिताश्चैव देवतैः | सर्वं च सर्वतो ज्ञेयं सर्वमन्त्रप्रसाधकम् || कथितं कथयिष्यन्ति ये चान्ये भुवि मानवाः | तत् सर्वं कल्पविसरं इह चोक्तं लोकमातरैः || एवमुक्तास्तु देवा वै सूत्रान्तसहपञ्चमाः | तूष्णीम्भूता ततस्तस्थु प्रणम्य जिनपुङ्गवम् || निषण्णो धर्मश्रवणाय तस्मिं पर्षद्वरेद्वरे | अधिष्ठानां च बुद्धानां अशेषाणां च जिनात्मजाम् || अध्येष्य च महावीरं तूष्णीम्भूतास्तदनन्तरे | अथ वज्रधृक् श्रीमां पूजयामास देवताः || * * * * * * * * * * * * * * * * (?) | साधु साधु ततः कन्द * * * * * *(?)मिति || आर्यमञ्जुश्रिय * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) परिसमाप्तः | प्द्f १९, प्. ५४८) भीताश्च देवसङ्घा उत्रस्ताः सर्ववालेशाः | सर्वदेवाश्च नागाश्च दानवेन्द्राः समातराः || सर्वे च ग्रहमुख्याद्या देवसङ्घाः प्रकम्पिरे | मानुषा प्रकम्पे भिन्नमनसो दुष्टचित्ताश्च पूतनाः || आर्ता भीताः ततस्ते वै रौद्रचित्ता नराधिपाः | शरणं ते तदा जग्मुः धर्मराजस्य शासनम् || गुह्यकेन्द्रस्य यक्षस्य वज्रपाणिमहाद्युतेः | मञ्जुघोषस्य ते भीताः कुमारस्यैव मन्त्रराट् || समयं च तदा चक्रे मञ्जुघोषस्य अन्तिके | परित्रायस्व भो वाल ! सर्वसत्त्वानुकम्पक ! || निर्दहिष्यामि नो अद्य क्रूरमन्त्रैः सुदारुणैः | क्रोधेन मूर्च्छिता ह्यद्य प्रतिष्ठाम महीतले || ततस्तां बोधिसत्त्वा वै बालरूपी महाद्युतिः | मा भैष्ठथ सुराः ! सर्वे ! यक्षराक्षसदानवा ! || समयं वओ मया ह्युक्तः अलङ्घ्यः सर्वदेवतैः | मानुषामानुषाश्चापि सर्वभूतैस्तु केवलैः || मैत्रचित्त सदा भूत्वा तन्मन्त्रं स्मरते सदा | सम्बुद्धं द्विपदामग्र्यं शाक्यसिंहं नरोत्तमम् || तेनैव भाषितं मन्त्रं उष्णीषाद्याः सलोचनाः | त्रैलोक्यगुरवश्चक्री तेजोराशिं जयोद्भवम् || विजयोष्णीषमन्त्राद्यां पद्मपाणिं सलोकितम् | अवलोकितनाथं च भृकुटी तारां यशस्विनीम् || देवीं च सितवासिन्यां महाश्वेता यशोवतीम् | विद्यां भोगवतीं चापि हयग्रीवश्च मन्त्रराट् || एते मन्त्रकूले मन्त्रा प्रधाना *(?)ननिःसृता | एका*****(?)र्ती वा मन्त्रा****(?)तिं प्रभुम् || प्द्f ४, प्. ५४९) स्मृत्वा देवदेवं च मन्त्रनाथं महाद्युतिम् | क्रोधमप्रभवो तस्य यमान्तो नाम नामतः || अवलोकितनाथस्य चेतांसि करुणोदयाः | महाकरुणाकृष्टमनसो पूर्वबुद्धैः प्रकाशिता || सा तारा तारयते जन्तूं अवलोकितभाषिता | विद्या समाधिजा आर्या स्त्र्याख्या संज्ञारूपिणी || बोधिसत्त्वोऽथ चरते बोधिचारिकमुत्तमाम् | लोकधातुसहस्राणि असङ्ख्या बहुधा पुनः || पर्यटन्त तदा देवी सत्त्वानां हितकारणा | स्त्रीरूपधारिणी भूत्वा मन्त्ररूपेण देहिनाम् || विधिनेयतदां सत्वां बोधियानेति योजयेत् | चर्या बोधिसत्त्वानां अचिन्तेयं प्रकाशिता || वज्रपाणिं तथावीरं मन्त्राणामधिपतिं स्मरेत् | मामकीं कुलन्दरीं देवीं त्रैलोक्यप्रतिपूजिताम् || शङ्कुला मेखलां चैव वज्रमुष्टिं यशस्विनीम् | क्रोधेन्द्रतिलकं शत्रुं नीलदण्डं सभैरवम् || एते दूतिगणाः क्रोधाः विद्याध्यक्षाः प्रकीर्तिताः | प्रधाना वज्रकुले सर्वे अस्मद्रक्षिता हि ते || गजगन्धं तथा लोके बोधिसत्त्वं महर्द्धिकम् | महास्थानगतं धीमं बोधिसत्त्वं महर्द्धिकम् || ज्येष्ठं तनयमुख्यं तु समन्तभद्रं सुशोभनम् | यः स्मरेत् तदा काले भयं तेषां न विद्यते || माणिभद्रं तथा नित्यं जम्भलं यक्षमुत्तमम् | सर्वश्रावकप्रत्येकं बुद्धानां च कुतो भयम् || स्मरणात् पूजनात् तेषां महारक्षा प्रकीर्त्तिता | बृहत् फलं तदा देवां पुण्या**(?) असंज्ञका || प्द्f ५, प्. ५५०) स्त्रीरूपधारिणां देवीं वीतरागां महर्द्धिकाम् | रत्नत्रये च पूजां वै प्रसन्ना जिनशासने || तेषां न विद्यते किञ्चित् मित्रामित्रभयं यदा | समयं तत्र इत्युक्तः अलङ्घ्यं सर्वमन्त्रिभिः || एतत् क्रोधवरे ख्यातं यमान्तस्यैव वर्णिते | समये च स्थितां सत्त्वां अभक्षाः सर्वमानुषाः || ततस्ते हृष्टमनसः सर्वे देवा ह्यमानुषाः | समये तस्थिरे सर्वे जिनपुत्रानुबुद्धिना || यक्षसेनापतिः क्रुद्धः वचनं चेत् पराभवम् | सम्प्रकम्प्य तदा सर्वां लोकधातुमसङ्ख्यकाम् || निरर्थं क्रोधराजं तु किमर्थमिदं प्रकाशितम् | जिनपुत्रैस्तदा पूर्वं सत्त्वानां विनयकारणात् || प्रभावं क्रोधराजस्य उद्यष्टं च पुरातनम् | एवमुक्तोस्ततो वज्री वज्रं निक्षिप्य तस्थुरे || ततः प्रहस्य मतिमां बालरूपी महर्द्धिकः | कुमारो मञ्जुघोषो वै इमां वाचमुदीरयेत् || मा प्रदुष्य महायक्ष ! वज्रपाणि ! महर्द्धिक ! | मया प्रकाशितो ह्येष क्रोधराजो महर्द्धिकः || तवैव मन्त्रं दास्यामि यथेच्छं सम्प्रकाशय | त्वया न शक्यं क्रोधस्य प्रभाअं परिकीर्तितम् || तयैव संस्थितो ह्येष देहस्थ इह दृश्यते | आकृष्टः तेन वै तुभ्यं हृदयं ते यदि पृच्छसि || न शक्यं निवर्त्तितुं ह्यत्र क्रोधाविष्टो हि वै प्रभो | यथे*(?) सम्प्रकाशयस्त ******(?)वानुमन्यतः || *** (?) पसुप्ते च ग्राम्यधम**** (?) | ****** (?) रक्षे च दुष्टचित्तेषु *** (?) || प्द्f ६, प्. ५५१) त्यक्तो मन्त्रवरैः सर्वैः अपसन्नेषु शासने | वैचिकित्सो ** (?) मर्त्यो अश्राद्धेषु दुःस्थिते || सद्धर्मरत्नसङ्घे च प्रतिक्षेप्तव्याः समाहिते | नग्नके च सदोच्छिष्टे अशुच्याचारगोचरे || अगुप्ते ह्यमन्त्रयुक्ते च नित्योच्छिष्टे हि निर्घृणे | देवावसथचैत्येषु विहाराङ्गणमण्डले || मैथुनाभिरता तत्र तेषां क्रोधो विनाशयेत् | समयभ्रष्टा प्रसन्नाश्च मन्त्रयुक्तिमजानका || इषिस्खलितगताचारा तेषां क्रोधो निपातयेत् | सर्वेषां मानुषां लोके अप्रमादो न विद्यते || प्रमादमभिरागिन्यः समयभ्रंशानुच्छिद्रिणे | हन्यन्ते क्रोधराजेन अप्रयुक्तैस्तु मन्त्रिभिः || सर्वथा बालिशाः सर्वे प्रमादा वशगामिनः | वीतरागां साअ मुक्त्वा प्रत्येकार्हश्रावकाम् || सर्वे वै क्रोधराजस्य वध्या दण्ड्याश्च सर्वतः | एवमुक्तास्तु मञ्जुश्री करुणाविष्टेन चेतसाम् || अचिन्त्यं चर्यबुद्धानां बोधिसत्त्वां महर्द्धिकाम् | एवमुक्त्वा ततः सर्वां तूष्णीम्भूतो हि तस्थुरे || अथ वज्रधरः श्रीमां भूयो वज्रं परामृशेत् | गृह्य वज्रं तदा तुष्टो लब्ध्वानुप्तां प्रभाषत इति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायान्वैपुल्यसूत्रात् अष्टचत्वारिंशत्तमः यमान्तकक्रोधराजपरिवर्णनमन्त्रमाहात्म्यनियमपटलविसरः परिसमाप्त इति || प्द्f ७, प्. ५५२) अथ एकपञ्चाशः पटलविसरः | अथ खलु वज्रपाणिर्गुह्यकाधिपतिः सर्वावन्तं महापर्षन्मण्डलमवलोक्य सर्वांस्तां शुद्धावासोपरिनिषण्णां भूतसङ्घानामन्त्रयते स्म | शृण्वन्तु भवन्तो मार्षा यमान्तकस्य क्रोधराजस्यापरिमितवलपराक्रमस्य दुर्दान्तदमकस्य वैवस्वतजीवितान्तकरस्य दुष्टसत्त्वनिग्रहतत्परस्य महाबोधिसत्त्वस्य मञ्जुश्रियभाषितस्य महाबोधिसत्त्वस्यादौ तावत् पटविधानं भवति || न तिथिर्न च नक्षत्रं नोपवासो विधीयते | अरीणां भयमुत्पन्ने पटमेतं लिखापयेत् || गृह्य कृष्णे निशापक्षे चतुर्दश्याष्टमौ तिथौ | श्मशाने मृतकं प्राप्य ब्राह्मणस्य अम्बरं तम् || गृह्य ततो रात्रौ असृणां रङ्गयेत् ततः | भूयो जलशौचं तु सुशुष्कं कारयेत्ततः || क्रूरं चित्रकरं क्रुद्धं भीषणे चापि लेखयेत् | श्मशाने कृष्णपक्षे च त्रिरात्रेणैव समापयेत् || अष्टमीं चतुर्दशीरात्रौ महावसादीपदीपितः | तत्र स्थितः चित्रकरः दक्षिणाभिमुखः सदा || कपाले मानुपासीने कृतरक्षः समाहिते | स्वयं वा आलिखेन्मन्त्री अरिदुःखभयार्दितः || प्रथमे रात्रिमारब्धे अरीणोऽपि महद् भयम् | द्वितीये महाज्वरेणापि अविष्टः शत्रुमूर्च्छितः || तृतीये मुञ्चते प्राणां परलोकगतो भवेत् | कुतस्तस्य भवेच्छान्ति अप्रसन्नेन मन्त्रिणा || देहं शुष्यति शत्रोर्वै ग्रहभङ्गोपजायते | लिखनात् पटमेवं तु घमान्तस्य महाभये || *** (?) षट्चरणं *** (?) कृष्णवर्णं वृकोदरात् | क्रुद्धं व्याघ्रचर्मनिवर्त्तनम् || प्द्f ८, प्. ५५३) नानाप्रहरणं घोरं दण्डहस्तं भयानकम् | रक्तनेत्रं सरोपं च त्रिनेत्रगतिचिह्नितम् || ऊर्ध्वकेशं सजालं वै धूम्रवर्णं क्वचित् तथा | कृष्णाञ्जननिभं घोरं प्रावृण्मेघसमप्रभम् || कृतान्तरूपसङ्काशं महिषारूढं तु आलिखेत् | क्रूरकर्मं महाभीमं रौद्रं रुद्रघातकम् || यमजीवितनाशं वै उद्यन्तं सत्त्वघातकम् | क्रूरं भृशं सर्वकर्माणं भीषणापतिदारुणम् || भयस्यापि भयत्रासं मारकं सर्वदेहिनाम् | एतत् क्रुद्धवरं लिख्य आत्मशोणितवर्णकैः || व्यतिमिश्रमुज्ज्वलैर्लेख्य महावसागव्यमिश्रितैः | कपालभाजनैश्चापि मानुषास्थिसुसम्भवैः || कूर्चकैर्वर्किकैर्मुक्तो मृतकेशसुसम्भवैः | अभुञ्जानस्तथालिख्य स्वयं वा चित्रकरेण वा || प्रभूतबलिपुष्पाद्यैः रक्तमाल्यैर्वरचन्दनैः | महामांसवसाधूपैर्वसादीपैश्च भूषितम् || कारयेत् पटवरमादौ अन्ते मध्ये च पूजना | परिस्फुटं तु पटं कृत्वा वित्तं दत्त्वा तु शिल्पिने || प्रभूतं चापि मूल्यं वै येन वा तुष्यते सदा | अवध्यं तस्य कर्तव्यं धर्मं चापि सहाभयम् || यथेप्सितं तस्य कुर्वीत वीरमूल्यं समासतः | सफलं शिल्पिने कर्म निरामिषं चापि वर्जयेत् || तथा तथा प्रयुञ्जीत यथासौ सम्प्रतुष्यते | महारक्षा च कर्तव्या अन्यथा मृयते ह्यसौ || सकुटुम्बो नश्यते ** (?) आत्मनश्चापि रक्षयेत् | जप्तविद्येन कर्त्तव्यं प्रत्येषां विधिरुच्यते || प्द्f ९, प्. ५५४) परिस्फुटं तु पटं कृत्वा दृष्ट्वा वा मनसेप्सितम् | सर्वां च कारयेत् कर्मां रौद्रां शत्रूपघातकाम् || गृह्य पटवरं गच्छेद् यथेष्टं यत्र वाञ्छितम् | महायक्षां महाराज्ञां महावित्तसगर्विताम् || महामानातिमानानां क्रूरां क्रूरकर्मिणाम् | रत्नत्रयापकारीणां नास्तिक्यां मन्त्रवर्जिताम् || अपूजकानां तु मन्त्राणां तद्भक्तासृतनिन्दकाम् | जापिनां निन्दका ये च तेषां चैव पराभवा || तेषां प्रयोगः कर्त्तव्यः विधिदृष्टेन कर्मणा | अधर्मिष्ठां तथा नित्यां सर्वसत्त्वानुतापिनाम् || तेषां तु कर्म प्रयुञ्जीत सद्यः प्राणोपरोधिनम् | गृह्यारिष्टफलं पत्रं त्वचं चापि समूलतः || काञ्जिकं आम्लसंयुक्तं मानुषास्थिसचूर्णितम् | कटुतैलविषं चैव अम्लवेतसमार्द्रकम् || राजिकं रुधिरं चैव मानुषोद्भवसम्भवम् | गृह्य सर्वं समायुक्तं पटं स्थाप्य विवेकतः || दक्षिणाभिमुखो भूत्वा पटश्चापि उदङ्मुखः | कृत्वाग्निकुण्डं यथेष्टं वै शुक्लकाष्ठैः कटुमुद्भवैः || ज्वालयं कटकैश्चापि तस्मिं कुण्डे समाहितः | पुह्यात् सर्वसमायुक्तं विधिनिर्दिष्टहौमिकम् || अग्निराहूय मन्त्रैस्तु क्रोधराजस्य वै पुनः | बद्ध्वा शूलमुद्रं तु सर्वकर्मेषु वा इह || सहस्राष्टमाहुतिं दद्यादग्निकुण्डे सरोषतः | प्रथमे पुत्रमरणं सत्त्वे प्राप्ते तु तं भवेत् || द्वितीये चापि ** (?) वै पार्षद्याः सनायकाः | तृतीये मरणं तस्य यस्योद्दिश्यं हि तत् कृतम् || प्द्f १०, प्. ५५५) अर्धरात्रे यदा जापः क्रियते पटसन्निधौ | शत्रूणां च वधार्थाय तत् तथैवानुवर्तते || राष्ट्रभङ्गं भवेत् तस्य सेनायां मारिसम्भवम् | अग्निदाहं महावातं महावृष्टिश्च जायते || समस्तं सर्वतश्चक्रं परचक्रेण हन्यते | विविधोपद्रवा तस्य महाव्याधिसमाकुलम् || देहं शुष्यति सर्वं वै तस्य राज्ञो न संशयः | अमानुषाकीर्ण सर्वन्तं गृहं तस्य समाकुलम् || धृतिं न लभते शययां आवर्तं च महीतले | राक्षसैः प्रेतक्रव्यादैः गृहं तस्य समावृतम् || आर्त्तो बिभेति सर्वत्र तीव्रदुःखैः सुदुःखितः | अशक्ता रक्षितुं तस्य महेश्वराद्या भुवि देवता || ब्रह्माद्या लोकपालाश्च शक्राद्या त्रिदशेश्वराः | सर्वमन्त्राः सर्वदेवाश्च सर्वलौकिकसम्भवा || दुष्टारे मानिने क्रुद्धे तदन्तं तस्य जीवितम् | अर्धरात्रे तु मध्याह्ने भाषितो यत्र जापिनः || क्रुद्धो वैवस्वतः साक्षाद् यमराजावकल्पते | यथेष्टं कृष्णपक्षे च पटं संस्थाप्य महीतले || महतिं पूजां बलिं कृत्वा श्मशानारण्यसम्भवे | एकवृक्षे तथा लिङ्गे शैले प्रान्ते गुहासु वा || एकाकी अद्वितीयश्च सदा कर्म समारभेत् | महारण्ये विविक्ते च शून्ये देवकुलेषु च || शून्ये मन्दिरे नद्यां अम्बुधेः तटमाश्रिते | तत्र देशे समीपे वा तत्रस्थे वा यथेप्सितम् || योजना**(?)भ्यन्तर सदा कर्माणि कारयेत् | एतत् प्रमाणकर्माणि कारयेच्छुचिना सदा || प्द्f ११, प्. ५५६) अप्रमेयस्थितो वापि गतदेशामितः शुचिः | अचिन्त्यमन्त्रविषये अचिन्त्यं मन्त्रगोचरम् || अचिन्त्यो ऋद्धिमन्त्राणां अचिन्त्यं सिद्धिजापिनाम् | अचिन्त्यं दृश्यते कर्म फलं चापि अचिन्त्यकम् || क्रोधराजस्य यमान्तकस्य महात्मने | कर्मं ऋद्धिविषयं विकुर्वणं च महोदयम् || अचिन्त्यं रूपिणां सिद्धि दृश्यते ह महीतले | अशक्ता रक्षयितुं सर्वे बोधिसत्त्वा महर्द्धिकाः || किं पुनर्लोकिका मन्त्राः सग्रहा मातराश्च ताः | ईशानश्च सविष्णुर्वा स च स्कन्दो पुरन्दरः || समये धारिता तेऽपि सजिना जिनपुत्रकाः | बोधिसत्त्वा महात्मानो दशभूमिसमासृताः || प्रत्येकबुद्धा ह्यर्हन्त वीतरागा महर्द्धिकाः | अशक्ता रक्षयितुं तेऽपि समयं तैः पुरा कृतम् || संक्षेपेण तु वक्ष्यामि शृणुध्वं भूतकांक्षिणा | नान्यो निवर्त्तने शक्तः अप्रसन्नेन जापिने || कुतस्तस्य भवेच्छान्तिरतुष्टे मन्त्रवरे इह | यदा प्रसन्नमनसः करुणार्द्रा वा भवेत् कदा || जापिनः क्रोधराजस्य यमान्तस्य महात्मने | तदादौ लभते शान्तिं धृतिं वा जीवधारणम् || पिचुमन्दं कटुतैलं च काञ्जिकं विषपञ्चमम् | रुधिरं मानुषं मांसं लवणं त्रिकटुकं पुनः || राजिकं शङ्खचूर्णं च अम्लवेतसमार्द्रकम् | धुर्धूरकस्य तु मूलानि कोम***** (?) च || एरण्डमू***(?)क्षारं कुसुम्भं ***** (?) | मदनोद्भवमू**(?) लशुनं गृञ्जनकं त**(?) | प्द्f १२, प्. ५५७) पलाशशाखोटकं चैव पलण्डुं ससुरासवा | सर्वान्येतानि समं कृत्वा जुहुयात् अग्नौ पटसन्निधौ || हुते सहस्रमष्टे तु शत्रुनाशः समूलतः | सर्वां वा राजिकां हन्या पारिपद्यां शुभाशुभाम् || समूलोद्धरणं तस्य द्वितीये सन्ध्ये तु जुह्वता | तृतीये समनुप्राप्ते सन्ध्ये जुह्वत जापिना || दुर्भिक्षं भवते तस्य जने चापि सनैगमे | अनावृष्टिमहामार्यः राक्षसाकीर्णसर्वतः || अग्निदाहं शिलापातं वज्रनिर्घातसाशनिः | जनपदं देशविषयं वा यवाः तस्य नराधिपे || वह्नोपद्रवसम्पातं परचक्रागमं तथा | अनेकधा बहुधाश्चापि तस्य देशे उपद्रवाः || जायन्ते विविधाकाराः महालक्ष्मीप्रणाशनैः | धुर्धूरकमूलं जुहुयादेकं उन्मत्तिस्तस्य जायते || कटुकं जुह्वतो नित्यं महादाहेन गृह्यते | अत्यम्लं जुह्वतो मग्नौ महाज्वरं शीतसम्भवम् || सम्भवेत् तस्य देहस्थः दुष्टराज्ञां बलगर्विताम् | महायक्षां धनिनां क्रूरां महासैन्यसमासृताम् || द्विरात्रे सप्तरात्रे वा मरणं तस्य जीवितम् | यो यस्य देवताभक्तः नक्षत्रो वा नामतो लिखेत् || श्मशानाङ्गारैः कृतिं कृत्वा पटस्याग्रतभूसृतम् | आकस्थ पादतो मूर्ध्ना सङ्क्रुद्धो जपमाचरेत् || अकस्माद् विविधैः शूलैः गृह्यतेऽसौ नराधिपः | महाव्याधि समाक्रान्तः मृयते ** (?) तत्क्षणात् || पशु****(?) चापि व्यङ्गो ****(?) पुनः | भक्ष्य*****(?) क्रूरैः कश्मला****(?)वैः || प्द्f १३, प्. ५५८) क्रव्यादैः पूतनैश्चापि पिशाचैः प्रेतमातरैः | तत्क्षमाद्धन्यते चापि आत्मनश्चापि सेवकैः || अथ वज्रधरः श्रीमां इत्युक्त्वा परिषेत्तदा | सर्वबुद्धां नमस्कृत्य तूष्णीम्भूतो ततः स्थिरे || लोकानां हितकाम्यार्थं पुनरेवमुमूचत | सर्वां यक्षगणां मन्त्रः यक्षीणां च स सर्वतः || उवाच बोधिसत्त्वो वै यक्षसेनापतिस्तदा | यक्षीणां पटलं वव्रे सर्वकर्मोपसंहितम् || सर्वाकर्षं वशं चैव सर्वशल्याननुद्धरम् | मैथुनार्थी यदा मन्त्री रागान्धो वाथ मूढधीः || न शक्य प्रतिपक्षेण सुगताज्ञैर्निवारितुम् | अनादिमति संसारे पुराभ्यस्तं सुदुःखितैः || दुःखा दुःखतरं तेषां गतिरुक्ता तथागतैः | शोभनां गतिमाप्नोति ब्रह्मचारी जितेन्द्रियः || भद्रं शिवं च निर्दिष्टमन्ते शान्तिमवाप्नुयात् | त्रियानसमतारूढः माप्नुयान्ते सुनिर्वृतिम् || विपरीताः कुगतिग्रस्ता ये रागान्धा तपस्विनाम् | संसारगहने घोरे भ्रमन्ति गतिपञ्चके || तेषां दुःखितामर्थे कामभोगं तु वर्ण्यते | ते निर्वृता सर्वपापा तु त्रिधा दोषनिवर्तिता || शास्तुराज्ञासमाविष्टा मुच्यन्ते सर्वबन्धना इति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् एकूनपञ्चाशतिमः यमान्तकक्रोधराजाभिचारुकनियमः द्वितीयः पटलविसरः परिसमाप्तः | प्द्f १४, प्. ५५९) अथ द्विपञ्चाशः पटलविसरः | अथ खलु शान्तमतिर्बोधिसत्त्वो महासत्त्वः तस्मिन्नेव पर्षत्सन्निपाते सन्निपतितः सन्निषण्णोऽभूत् | उत्थायासनात् सर्वबुद्धं प्रणम्य पर्षन्मण्डलमध्ये स्थित्वा भगवन्तं शाक्यमुनिं त्रिः प्रदक्षिणीकृत्य चरणयोर्निपत्य स येन वज्रपाणिः महायक्षसेनापतिः तेन व्यवलोक्य वाचमुदीरयति स्म | अतिक्रूरस्त्वं वज्रपाणेः यस्त्वं सर्वसत्त्वानां सत्त्वोपघातिकं कामोपसंहितं च मन्त्रतन्त्रां भाषयते | न खलु भो जिनपुत्र ! बोधिसत्त्वानां महसत्त्वानामेष धर्मः | महाकरुणाप्रभाविता हि महाबोधिसत्त्वा बोधिसत्त्वचारिकां चरन्ते सर्वसत्त्वानामर्थाय हिताध्याशयेन प्रतिपन्ना भवबन्धनान्न मुच्यन्ते | न च पुनर्भो जिनपुत्र | सत्त्वोपघातिकां धर्मदेशनां तथागतार्हन्तः सम्यक् सम्बुद्धाः सर्वसत्त्वानुद्दिश्य भाषन्ते महाकरुणासमन्वागतत्वात् | सर्वसत्त्वानां हिताध्याशयेन प्रतिपन्ना भवन्ति || अथ खलु वज्रपाणिर्बोधिसत्त्वो महासत्त्वः शान्तमतिं बोधिसत्त्वमामन्त्रयते स्म | एवं हि शान्तमते ! बोधिसत्त्वेन शिक्षितव्यम् | एवं प्रतिपत्तव्यम् | यथा त्वं वदसि यथा त्वं प्रकाशयसि | तथा सर्वबुद्धाः बोधिसत्त्वाश्च महर्द्धिकाः | तथाहं निर्देक्ष्यामि परमार्थतो || भूतकोटिं समाशृत्य धर्मकोटिं तु मुच्यते | अचिन्त्यं सत्त्वकोटिं वै परिपाकमचिन्तितम् || अचिन्त्या बुद्धधर्मास्तु चर्या बोधिमचिन्तिका | वैनेयसत्त्वमागम्य अचिन्त्यं चरितं हि तैः || चर्या बोधिसत्त्वानां अचिन्त्या परिकीर्त्तिता | सर्वमन्त्रेषु तन्त्रोऽयं अचिन्त्यतत्प्रभावतः || क्रोधराजस्य मन्त्रस्य यमान्तस्य महात्मनः | अचिन्त्यं ऋद्धिविषयं गतिमादात्म्यमचिन्त्यकम् || अचिन्त्या हि शान्तयते ! बोधिसत्त्वानां महासत्त्वानां चर्यानिष्पत्तितरात्त्वधातुनिर्हारम् | एवं हि जायन्ते ! बोधिसत्त्वेन मन्त्रजापिना चित्तमुत्पादयितव्यम् | प्द्f १५, प्. ५६०) काममस्य सत्त्वस्यार्थाय वह्वपुण्यं प्रसुनुयात् | महानरकोपपत्तिश्च | न त्वेवायं सत्त्वः बहुतरमपुण्यस्कन्धं प्रसुनुयात् | मा नामायं सत्त्वो त्रयाणां बोधीनामभव्यो भवेत् | एवं हि शान्तमते ! बोधिसत्त्वेन मन्त्रजापिना चित्तमुपस्थाप्य उपायकौशल्यं चाभिचारुकं च कर्म प्रयोक्तव्यम् | सर्वकर्मिषु च निमित्तग्राहिणा भवितव्यम् | नाकुशलग्राहिणा सत्त्ववैनेयमुपादायता च शिक्षितव्यम् | करुणाविष्टेन चेतसा || अपि च भो जिनपुत्र ! धर्माधर्मशुभाशुभं कुशलाकुशलगतिमाहात्म्यसत्त्वोपायविनयनिरहारतां धर्मधातुनिरहारतां च प्रतिपद्यन्ते बुद्धा भगवन्तः सर्व एव धर्मदेशनासत्त्वोपायपायकां च प्रतिपद्यन्ते | तथैव भो जिनपुत्रास्माभिः शिक्षितव्यम् | यदुत त्वविनयनाय सत्त्वपाकानुशासनाय च तत्रभवन्तो जिनपुत्राः योऽयं पर्षन्मण्डलमहासमयोपविष्टाः तत्र सर्वैः समग्रैः श्रोतव्यं श्रद्धातव्यं य एव कुशलाकुशलगवेषणैर्भवितव्यम् | यदुत तथागतधर्मदेशनाभिरतैर्भवितव्यम् || अथ शान्तमतिर्बोधिसत्त्वो महासत्त्वः वज्रपाणिं यक्षसेनापतिं व्यवलोक्य तूष्णाम्भूतः स्वके आसने निषण्णोऽभूत् | अचिन्त्या बुद्धधर्मा इति मनसिकृत्य बुद्धं भगवन्तं व्यवलोकयमानः || अथ वज्रपाणिर्गुह्यकाधिपतिः सर्वं तत् पर्षन्मण्डलमवलोक्य भूयः क्रोधराजस्य कल्पं भाषते स्म | शृण्वन्तु भवन्तो देवसङ्घाः ये सत्त्वधातुनिसृताश्च सर्वे भूतगणाः आदौ तावत् कृतरक्षः तं पटं क्रोधराजस्य परिगृह्य विवेके स्थाने गत्वा एकलिङ्गे महेश्वरस्यायतने तं लिङ्गं विषरुधिरराजिकाकाञ्जिकेनाभ्यज्य पिचमर्दपत्रैरर्चयित्वा मानुषान्त्रनालिभि आत्मना यज्ञोपवीतं कृत्वा मानुषशिरकपालेन दक्षिणहस्तेन सप्रहारो भूत्वा वामहस्तेन तर्जन्या लिङ्गं तर्जयमानः परमक्रोधाभिभूतः अवमानितदुष्टराजानैः महा****(?)वगतमानसः *** (?) धूर्तपुरुषैः ****** (?) धनैर्महाप्रचण्डैः महानायकैः शुद्धारं पि***(?) *(?)ग्नको मुक्तशिखरः महेश्वरलिङ्गं वामपादेनाक्रम्य क्रोधमन्त्रं तावज्जपेत् प्द्f १६, प्. ५६१) यावन्महेश्वरलिङ्गो मध्ये स्फुटित इति द्विविदलीभूतं महांश्च हुङ्कारः श्रूयते | ततो न भेतव्यम् | तदेहो एव दुष्टराज्ञः अन्यो वा यःकश्चिन्महायक्षः अरिस्तत्क्षणादेव ज्वरेण गृह्यते | अमानुषेण वा गृह्यते राक्षसादिभिः | तत्रैव मुहूर्तं जपेद् यावत् क्षणादेव शत्रोर्जीवितं मरणपर्यवसानं भवति | यदि रात्र्यन्तं जपे तत्सर्वकुटुम्बो नश्यति || अपरमपि कर्म भवति | मध्याह्ने तथैव महेश्वरायतनं गत्वा निम्बपत्रैरभ्यर्च्य महामांसधूपं दत्त्वा मन्त्रं जपेत् | यावच्छत्रोर्भवनमग्निना दह्यते शत्रोश्च महाज्वरकम्पो भवति | यदि जापं न त्यजते क्रुद्धो वा दक्षिणमूर्तैस्तिष्ठते स शत्रुर्मृयते गोत्रोत्सादो भवति | अथ प्रत्यायनं करोति | भूयो लिङ्गमुदकेन प्रक्षाल्य सुशीतलेन क्षीरेण स्नापयेत् | गव्येन भूयः | स्वस्थो भवति || अपरमपि कर्म भवति | महेश्वरलिङ्गस्य दक्षिणामूर्त्तौ मदनकण्टककाष्ठैरग्निं प्रज्वाल्य वैकङ्कतसमिधानां विषरुधिरराजिकाभ्यक्तानां अष्टसहस्रं जुहुयात् | सर्वेशत्रवो महाव्याधिना गृह्यन्ते | अशक्ता भवन्ति सर्वकर्मेषु | द्वितीये दिवसे महाज्वरेण महाशूलेन वा गृह्यन्ते विविधैर्वा रोगैः अमानुषैर्वा मारणान्तिकैः | तृतीये दिवसे तृभिः सन्ध्यैः सर्वेण सर्वं जीवितं त्यजन्ते | प्रत्यायने क्षीरं जुहुयात् | शान्तिर्भवति | सर्वजनपदेषु सर्वशत्रवश्च स्वस्था भवन्ति | एवं सर्वदेवानां सर्वभूतानां यो यस्य देवताभक्तः तमाक्रम्य कुर्यात् | तस्य नक्षत्रमन्त्रसंज्ञतां पादेनाक्रम्य वामेन कर्म कुर्यात् | वर्जयित्वा तु ताथागतिं विद्याम् | सर्वेषां च पादाङ्गुष्ठं वामेन गृहीत्वा कर्म कुर्यान्न चाक्रमेणापि चलंयेयेत्कदा सर्वलौकिकमन्त्राश्चाक्रम्य कुर्यात् | असिद्ध एव क्रोधराजा जापमात्रेणैव कर्माणि करोति सर्वमन्त्रां विनाशयति सर्वशत्रूं घातयति सर्वयन्त्रां पातयति | संक्षेपतो यथा यथा प्रयुज्यते सर्वलौकिकलोकोत्तरमन्त्रविधानेनापि तत् सर्वं करोति | सर्वं *** (?) | जापमात्रेण सर्वाशां पारिपूरयति | पठितसिद्धा एष क्रोधराजा **(?)मां सिद्धिमनु**(?)च्छति | मनसेच्छता शत्रुं घातयति महाशूलमुद्रया संयुक्तः सर्वकर्माणि करोति || प्द्f १७, प्. ५६२) अपरमपि कर्म भवति | मध्याह्ने श्मशानं चितावेकरात्रोषितः कृष्णचतुर्दश्यां श्मशानकाष्ठैरग्निं प्रज्वाल्य विषरुधिराक्तां राजिकां जुहुयात् | ततो हाहाकारं कुर्वन्तः सर्वप्रेता आगच्छन्ति | न मेवव्यम् | ततो वक्तव्यं शत्रुं मे घातयेति | एवमस्त्विति कृत्वान्तर्धीयन्ते | ततो मुहूर्तमात्रेण योजनसहस्रमपि गत्वा शत्रुं घातयन्ति कुलानुत्सादयन्ति | एवमादीनि कर्माणि कुर्वन्ति || अपरमपि कर्म भवति | विवेके शुचौ देशे शुचिवस्त्रप्रावृतेन शून्यगृहं प्रविश्य कर्पासास्थ्याहुतीनां अष्टसहस्रं जुहुजात् ततो तं भस्म उभाभ्यां हस्ताभ्यां गृह्य शुचौ वस्त्रखण्डे बध्नीया पृथक् पृथक् | द्वौ पोङ्गलिकां कृत्वा शरावसम्पुटे स्थाप्य महाकृतरक्षाश्चात्मनो द्रव्यं च गृहमप्रविश्य महाश्मशानं गत्वा रात्रौ कृष्णचतुर्दश्यां कृष्णाष्टम्यां वा चितौ स्थित्वा दक्षिणाभिमुखः शरावसम्पुटं गृहीत्वा स्थितको नग्नको मुक्तशिखः स क्रुद्धो निर्भयो भूत्वा विद्या दशसहस्राणि जपेत् | सिद्धो भवति | तद् भस्म यदि कश्चिदमानुषो द्रव्यं प्रार्थयते न दातव्यम् | हठं करोति क्रोधराजं स्मृत्वा हुङ्कारः प्रयोक्तव्यः | तत्क्षणादेव नश्यते | सर्वविघ्नानामेष एव विधिः | वामदक्षिणकरगृहीतं भस्म चिह्नं कारयेत् | अप्रमत्तेन रक्षां कारयित्वा आगन्तव्यम् | प्रभाते सूर्योदये स्नात्वा शुचिना शुचिवस्त्रप्रावृतेन स्वगृहं प्रवेष्टव्यम् | अस्थाने वा यथाभिमते गन्तव्यम् | ततो यो दक्षिणहस्तेन गृहीतं भस्म तेन मनुष्याद्विपदचतुष्पदां सर्वप्राणिभूतां सदेवनागयक्षां मूर्ध्ना ताडयेद् वशा भवन्ति | यद् वामेन हस्तेन गृहीतं भस्म तेन सर्वेषां मनुष्यामनुष्याणां सर्वासां स्त्रीणां मूर्ध्ना ताडयेद् वश्या भवन्ति | दक्षिणेन यद् गृहीतं भस्म तेन मनुष्याणां नाभिदेशे ताडयेत् | नपुंसका भवन्ति | अङ्गजातदेशेन च चूर्णयेद् असमर्थो भवति | ग्राम्यधर्मनिषेविणो यस्या स्त्रियायां अभिशक्तो भवति तस्याङ्गजाते गुहापदेशे भस्मनावचूर्णयेत् | असमर्था सा भवति अन्यपुरुषातिसेवने ***** (?) भवति भावन्तं तदेव पुरुषं प्राप्नुयात् | पुनरेव तस्याः तद्****(?) प्रादुर्भवति | कामपिध्याचारमशक्तो निसेवितुम् | प्द्f १८, प्. ५६३) एवं पुरुषस्यापि | पुरुषेन्द्रियं दक्षिणहस्तं भस्मनावचूर्णयेत् | सोऽपि असमर्थो भवति | परदाराभिगमने परिम्लानमिव तिष्ठते | तस्य तदङ्गजातं यावद् दात्रवशात् तस्यैव तत् पुनः प्रादुर्भवति | स्त्रियस्य वा पुरुषस्य वा येन वा तद् भस्म पुनर्दत्तं भवति तस्य वशेन वर्त्तति वा न वर्तति वा यथेष्टं वा तं करोति | यदि बलात् कुर्वन्ति येषां तु तद् दत्तं तेषां गुह्यप्रदेशानि क्रिमयः प्रादुर्भवन्ते | वैर्भक्षमाना जीविताद् व्यपरोप्यन्ते | मासाभ्यन्तरेण पूतिका वा भवन्ति दुर्गन्धकुणपसदृशाः महाप्रतररोग दिभिः पुरुषव्याधिभिः पुरुषा गृह्यन्ते | महाश्वेथुश्चोपजायते | येन तेषां तेनैवाबाधेन कालक्रिया भवति | अशक्ता वा भवन्ति प्रतिसेवितुं दासस्येच्छया | यथाभिरुचितं तत् स्र्वं कारयति | स्पृष्टमात्रो यदि न प्राप्नोति स्पर्शनं दर्शनपथे स्थिता अदर्शने वा अनुवाते च भस्ममुत्सृजेत् | यथा तस्य भस्मना ईषिदवधूलितः मनसा च चिन्तयित्वा दाता भस्ममुत्सृजेत् | यत् तेन चिन्तितं भवति तत् सर्वाणि कर्माणि करोति | परहस्तेन वात्मना वा यथाभिलषितं तत् सर्वाणि कर्माणि करोति | नान्यथा चावन्ध्यं भवति || अथ शयनासनादीनां अस्तरणप्रावरणादीनां विविधानि वार्लङ्करणविशेषाणि नानावस्त्राणि वा वाहनयानोपानहच्छत्रादीनां सवाण्युपकरणविशेषाणि भोजनपानभक्षणादीनां सर्वाणि शरीरोपयोज्यानि भाण्डोपकरणानि पुष्पन्ताम्बूलफलगन्धधूपादीनां सर्वेषु तैस्तं भस्मनावचूर्णयेत् | अरीणां यूकमत्कुणक्रिमिभिः समन्तावच्छरीरमाकीर्णं भवति | भक्षते च | विविधदुःखविहतो भवति | सप्तरात्रेण मृयते | अशक्ताः सर्ववैद्याः सर्वदेवाश्च निवारयितुम् | अशक्ताः सर्वमन्त्राः रक्षयितुम् | वर्जयित्वा तु तेन दत्तं भवति || अथ प्रत्यायनं भवति | यष्टीमधुं नीलोत्पलं श्वेतचन्दनं चेकीकृत्य शीतलेनाम्भय पीषयित्वा तच्छरीरं म्रक्षयेत् मूर्ध्ना प्रभृति यावत् पादतल****************** (?) जपता | स्वस्थो भवति || अप***(?) कर्म भवति | स्त्री*******(?)तं गत्वा यत्रेप्सता सर्वदुष्टडाकिनिस्त्रीणां मर्धितानां च प्रयोक्तव्यं मान्येषाम् | तमेनमनुपाते स्थित्वा भस्ममुत्सृजेत् | प्द्f १९, प्. ५६४) मनसा चिन्त्ययित्वा सर्वभगस्तनान्यपहृतानि भवन्ति | पुरुषस्यापि पुरुषेन्द्रियं श्मश्रुरामाणि च स्तनानि च प्रादुर्भवन्ते || एवं विविधविचित्राण्यनेकानि कर्माणि करोति | परेण वा कारापयति | यत्र वा प्रीतिरुत्पद्यते तेन वा कारापयति | स्त्रिया वा पुरुषेण वा | यत्र वा चित्तस्य निर्वृत्तिरुत्पद्यते तस्य तद् भस्मां दत्वा यथेष्टं कारापयति | प्रयोगतश्च शिक्षापयेत् | एवं महाव्याधिभिः गृहापयति | मनसा चिन्तयित्वा मूर्ध्नि स्पर्शनान्मस्तकशूलः मुखस्पर्शनान्मुखपाकः एवमनुपूर्व्या यावद्धृदयं हृच्छूलकुक्षिशूलं वा उपजायते | एवं पद्भ्यां जङ्घाभिश्चासृगुद्भवै रोगैर्दुष्टशोणितादिषु रोगैर्गृहापयति | संक्षेपतो मारयति शोषयति पाचयति आकर्षयति वशयति यथा यथा प्रयुज्यते तथा तथा तत् सर्वं करोति | चोपघातिकं आकर्षणवशीकरणं च सुदूरेऽपि स्थितः कर्माणि करोति | सुदुर्गं कुट्यसमीपं गत्वा अनुवाते स्थित्वा तदेव भस्मोत्सृजेत् | उभौ पाणिगृहीतं प्राकारं प्रतोली अट्टालांश्च प्रपतन्ते | तदाध्यक्षं भवनं च महाग्रिदाहमुपजायते | सेनाभङ्गं च भवति | महोपद्रवैश्चोपद्रुतो भवति | सर्वमवमुच्य प्रपलायति वा ग्रहणं वाधिगच्छति | एवं परबलेऽपि अनुवाते भस्ममुत्सृजेत् | महाबलसेनाया भङ्गो भवति | दाघज्वरेण वा गृह्यते | हस्त्यश्वरथपताकादयः सेनापतिश्च भङ्गमुपजायते | ग्रहणं वा अभिगच्छति | एवमनेकप्रकाराणि यथेष्टानि शत्रुनाशाय कर्माणि करोति | आत्मनो महारक्षा ये च स्वसेनायां वा सखायानां | अथ प्रत्ययनं करोति | सर्वतः सर्वेषां पटस्याग्रतः क्षीराहुतिसहस्रं जुहुयात् | स्वस्था भवन्ति अधृष्याश्च || अथ यक्षिणीं साधयितुकामः नटी नट तथा भट्ट रेवती चापि विश्रुता | तमसुरी थ लोका मेखला चापि मुषेखला || इत्येता अष्ट यक्षिण्यः सर्वकामप्रसाधि**(?) | प्द्f २०, प्. ५६५) नटिकाया मन्त्रः - ओं नटि महानटि आगच्छागच्छ दिव्यरूपिणि स्वाहा | अस्योपचारः - फलके पट्टके वा अभिलिख्य मांसाहारेण वा क्षीराहारेण वा विद्या अष्टसहस्रं जप्तव्या | आलेख्या च सर्वालङ्कारभूषणी श्यामावदाता वृक्षाशृता एकवस्त्रा मुक्तकेशा संरक्तनयना ईषिस्मितमुखा साधकं तर्जायमाना दक्षिणहस्तेन वामेन पाणिना वृक्षशाखामवलग्ना सर्वाङ्गशोभना विचित्रपट्टनिवस्ता | तस्येव क्रोधराजस्य पटस्याग्रतः उन्मना उत्तरामुखं स्थित्वा पलाशकाष्ठैरग्निं प्रज्वाल्य गुग्गुलुगुटिकानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं यावत् सप्त दिवसानि | ततः सप्तमे दिवसे उदारां बलिं कृत्वा घृतप्रदीपांश्च प्रज्वाल्य मन्त्रं जपता तावत् तिष्ठेत् यावदर्धरात्रम् | ततः सा यक्षिणी स्वयमेव महावभासं कृत्वा स्वरूपेणागच्छति | आगता च ब्रवीति | किं मया कर्तव्यम् इति | ततः साधकेन वक्तव्यम् - भार्या मे भवस्व इति | एवमस्त्विति कृत्वान्तर्धीयते | ततःप्रभृति भार्या भवति | सर्वकामदा स्वभवनं नयति | रसायनं प्रयच्छते | यत् पीत्वा दिव्यरूपी भवति महायक्षप्रतिस्पर्धी | यदि नागच्छति द्वितीये वारे क्रोधराजसहितं जपेन्नियतमागच्छति | न चेदुच्छुष्यं मृयते || नट्टाया मन्त्रः - ओं नट्टे शुक्लाम्बरमाल्यधारिणि मैथुनप्रिये स्वाहा | एतस्यैव एव विधिः | भट्टाया मन्त्रः - ओं भट्टे भट्टे आलोकिनि किं चिरायसि पद्मेहि आगच्छागच्छ मम कार्यं कुरु स्वाहा | एषा विनापि पटेन सिद्ध्यते | शिरःस्थाने मण्डलकं कृत्वा गुग्गुलुधूपं दहता विद्यामष्टसदृषं जपेत् | मौनिनां एकादिना शुचिना द्वारं पिधाय मासेन रात्रौ नियतामागच्छति | आगता च कामयितव्या भार्या भवति सर्वकामदा | यद्यसौ भवनं प्रविशते पञ्चवर्षसहस्राणि जीवति | न चेदत्रैव ***** (?) विचरति | पञ्चवर्षशतानि जीवति | तया सार्धं क्रीडति | *** (?) सम्पादयति | तेन सह यत्रेष्टं तत्र गच्छति | रसायनमनुप्रय******* (?) ****(?)र्येवावहिताध्याशय करोति || प्द्f २१, प्. ५६६) रेवत्या मन्त्रः - नमः सर्वयक्षीणाम् | ओं रक्ते रक्तावभासं रक्तानुलेपने स्वाहा | रेवत्या यक्षिणी श्रेष्ठा ललन्त्या मैथुनप्रिया | ईषिद् रक्तेन वस्त्रेण नीलकुञ्चितमूर्धजा || सर्वाङ्गशोभना यक्षी कामभोगरता सदा | कामदा भोगदा नित्यं वरदां तां मभिनिर्दिशेत् || पूर्ववत् पटमभिलिख्य एतस्या अयं विशेषः - रक्तपट्ट निवस्ता रक्तपट्टांशुकोत्तरीया रक्तावभासा च वर्णतः | मेखलायाः मन्त्रः - ओं मेखले महायक्षिणि मम कार्यं सम्पादय स्वाहा || सुमेखलाया मन्त्रः - ओं मेखले सुमेखले महायक्षिणि सर्वार्थसाधनि ओं समयमनुस्मर स्वाहा || आलोकिन्या मन्त्रः - ओं लोकिनि लोकवति स्वाहा | एतेषामेत एव विधिः || तमसुन्दर्याया मन्त्रः - ओं घृणु गुह्यके घुणु घुणु गुडे एह्येहि गुह्यके स्वाहा | अस्योपचारः न | एताया पटविधानोऽस्ति आदौ तावत् शुचिना शुचिवस्त्रप्रावृतेन पूर्णमास्यां विविक्ते स्थाने द्वारं पिधायित्वा अन्धकारे आलोकवर्जिते विद्यां दशसहस्राणि जपेत् | पूर्वसेवा कृता भवति | ततः साधनमारभेत् | पूर्णमास्यादारभ्य यावदपरा पूर्णमासी अत्रान्तरे कर्म भवति | रात्रौ शयनकाले शययामारूढः प्रच्छन्ने गुप्तदेशे एकाकिना द्वारं पिधयित्वा सङ्कुचितकर्णिकां वानपुष्पं च कटुतैलेन मिश्रयित्वा हस्तौ पादौ प्रक्षालयित्वा दक्षिणं बाहुमष्टशताभिमन्तृतं कृत्वा स्वपेत् मोनी | एवं प्रत्याहं यावत् पौर्णमास्यात् | ततोऽर्धरात्रे नियतमागच्छति | आगता च न मन्त्रापयितव्या | तूष्णीभावेन कामयितव्या ** (?) मासैः | यदा मन्त्रापयति मन्त्रयितव्या | ततः प्रभृति सिद्धा भवति | *(?)र्या भवति स**(?) सदा | दिव्यं यास्य सुखसंस्पशम् अदर्शनेनैव स्वकार्याणि सम्पादयति | प्द्f २२, प्. ५६७) रसरसायनानि सम्प्रयच्छति | पृष्ठमारोप्य सुमेरुमपि नयति | रात्रौ जम्भूद्वीपं भ्रामयति | योजनशतस्थितमपि शत्रुं घातयते | यथाज्ञप्ता तत् सर्वं सम्पादयति | वर्जयित्वा परस्त्रियाभिगमनम् | सर्वेषामयं विधान परस्त्रीं नाभिगच्छेत् | तेनैव सह संवसेत् | यदि गच्छेन्मरणोन्मत्तिं वा प्रयच्छन्ते | एषा अन्धारसुन्दरी नाम यक्षिणी | अनेकयक्षीशतसहस्रपरिवृता | दिने दिने एकैकां यक्षिणीं क्षविटिं प्रेषयति | सिद्धा सती सर्वसाधकानां अनेकमन्त्रपरिवारां च सर्वयक्षीणां च महर्द्धिका तमावृता | सर्वेषामेव एव विधिः | किं तर्हि तेषां दर्शनं भवति | एतस्या दर्शनं न भवति || अन्धारवासिनी नाम यक्षीणां महर्द्धिका | गुहावासिनी नरवीरा कुमारी लोकविश्रुता || मधुयक्षी मनोज्ञा च सप्तमा सुरसुन्दरी | इत्येताः सप्त यक्षिण्यः सत्त्वानुग्रहकारिकाः || पर्यटन्ति इमं लोकं कृत्स्नां चैव मेदिनीम् | ईषित् क्षणमात्रेण उत्पतन्ति सुरालयम् || सङ्ग्रामं देवदैत्यानां युद्ध्यन्ते च महर्द्धिकाः | धर्मिष्ठा करुणाविष्टाः सत्त्वकामाः सुवत्सलाः || सत्त्वानां हितकाम्यर्थं पर्यटन्ति महीतले | न तासां किञ्चि दुःसाध्यं सर्वकर्मकराः शुभाः || सत्त्वानामुपभोगार्थं बोधिसत्त्वेन भाषिता | गुह्यवासिन्या मन्त्रः - ओं गुहिले गुहमति गुहवासि आनय भगवति मयान्तिकं समयमनुस्मर स्वाहा | खदिरकाष्ठिरग्निं प्रज्वाल्य पृयङ्गुपुष्पाणां घृताक्तानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं मासमेकम् | पूर्वसेवा कृता भवति | ततः पश्चात् साधनमारभेत् | फलके वा पट्टके व **(?)यायां वा अश्लेषकैर्वर्णकैः नवभाजनकूर्चकैः | आदौ तावत् पर्व**(?) सुमेरुलिखापयितव्यः चतुरस्रः चतुःशृङ्गोच्छृतः सप्तपर्वत*******(?) पर्वतानामन्ते गु*(?) **********(?)लिखितव्यम् | प्द्f २३, प्. ५६८) तत्रस्था दिव्यरूपिणी सर्वालङ्कारभूषिता एकाकिनी यक्षिणी गुहवासिनी नाम लिखापयितव्या पट्टवस्त्रनिवस्ता पट्टांशुकोत्तरीया कनकवर्णा विचित्रचारुरूपी तं तादृशं पटमभिलेख्य शुचौ प्रदेशे शुचिना क्षीराहारेण विद्यां दशसहस्राणि जपेत् | महापूजां कृत्वा यथाशक्तितो वा ततो जपान्ते महावभासं कृत्वा दिव्यरूपी यक्षिणी स्वयमेवागच्छति | आगताया जातीकुसुमैः श्वेतचन्दनोदकव्यतिमिश्रैः अर्घो देयः | ततः सा ब्रवीति - वत्स किं कर्तव्यम् | वक्तव्यम् - माता मे भवस्वेति | कृत्वान्तर्धीयते | न च तत्र चित्तं दूषयितव्यम् | नापि कामोपसंहितं प्रार्थयितव्यम् | आर्या सा महर्द्धिका च काम प्रार्थयति न सिद्ध्यते | ततः प्रभृति मातृवत् सर्वकार्याणि करोति | अष्टशतपरिवारस्य भक्ताच्छादं प्रयच्छते | विषमस्थस्य त्रायते | महावन्यपर्वतस्योपरिस्थितस्यापि सर्वकार्याणि सम्पादयति | कामितं च भोजनमनुप्रयच्छते | रसरसायनादीन् सर्वमनुप्रयच्छति | यथेष्टं चानुवर्त्तते | कुटीकुटादीमभिनिर्मिणोति | सुवर्णसहस्रमनुप्रयच्छति दिने दिने | सर्वं व्ययीकर्तव्यं तदह एव | यदि न करोति च्छिन्नो भवति | सर्वेण सर्वं भवति || अपरमपि कर्म अस्या | अस्यैव पटस्याग्रतः खदिरकाष्ठैरग्निं प्रज्वाल्य विगतार्चिधूमविगतैः अङ्गारैः दक्षिणहस्ततले मनच्छिलया प्रतिकृतिमभिलिख्य नाम च पुरुषस्य स्त्रिया वामहस्ततले तत्रैवाङ्गारराशौ तापयेत् मन्त्रं जपता | योजनशतादपि स्त्रियमानयति | यदुच्यते तत् सर्वं कारयति | रात्रौ एतत् कर्म | न दिवा || नरवीराया मन्त्रः - ओं नरवीरे स्वाहा | तथैव एतस्या पटमभिलिख्य वर्जयित्वा गुहालयं अशोकवृक्षाशृता लिखापयितव्या | एतस्याः अयं विशेषः - सर्व तथैव कर्म यथा गुहवासिन्या | अयं च वक्तव्या - भगिन्यास्वेति || एतस्यापरोऽस्ति कर्म | चन्द्रग्रहे सुवर्णगैरिकां भूर्जपत्रेण वेष्टयित्वा मुखं प्रक्षिप्य तावज्जपेद् यावच्चन्दहे मुक्त इति | **(?) पुवर्णगैरिकया यस्या नाम लिखति स्त्रियस वा आयोजनशतास्थिता अप्यानयति | प्द्f २४, प्. ५६९) प्रभाते तत्रैव नयति | भगिनीव कार्याणि करोति | आपत्सु महारक्षां करोति | सर्वाण्येव स्त्रियां जापमात्रेण वशीकरोति | नरवीराया एष विधिः || यक्षकुमारिकाया मन्त्रः - ओं यक्षकुमारिके स्वाहा | अस्या-अयमुपचारः - गोरोचनेन भूर्जपत्रे लिखापयितव्या | कुमारी अर्धवर्वराशिरा सर्वालङ्कारभूषिता एकवस्त्रा दक्षिणहस्तेन बीजपूर्णावसक्तफला वामहस्तेनाशोकवृक्षशाखावलग्ना | तादृशं भूर्जपत्रं शिरःस्थाने उपरि स्थापयितव्यम् | गुह्ये क्प्रदेशे एकाकिना च स्वप्तव्यम् | श्वेतचन्दनेन च मण्डलकं कृत्वा त्रिसन्ध्यं जातीकुसुमैरभ्यवकीर्य गुग्गुलुधूपं दहता विद्यामष्टसहस्रकम् जपेत् यावन्मासमेकम् | ततो पूर्णमास्यां जातीकुसुमैः महती पूजां कारयित्वा घृतप्रदीपांश्च निवेद्यांश्च दत्व कुशविण्डकोपविष्टेन रात्रौ तावज्जपेद् यावत् स्वरूपेणैव कुमारी पञ्चशतपरिवारा वैश्रवणस्य दुहितृ आगच्छति | सर्वं तं दिशाभागमवलोः कयित्वा स्वरूपेणान्तरिक्षे तिष्ठति | सा एवमाह - किं मया कर्त्तव्यम् | ततः साधकेन वक्तव्यम् - त्रयाणां वाराणामन्यतममेकं वरं प्रार्थयितव्या | मातृत्वे भगिनीत्वे भार्यात्वे च | यदि माता भवति न चित्तं दूषयितव्यम् | दूषयतो विनाशं उपजायते | मातृवद् वर्त्तयितव्या | सा च माता पञ्चशतपरिवारस्य भक्ताच्छादनमलङ्करणविशेषाणि च सर्वत्र चिन्तितमात्रेणैव सम्पादयति | दिने दिने दीनारसहस्रं ददाति | अत्रैव जम्बूद्वीपे विचरतः सर्व सम्पादयति | भगिनी भवति तदा योजनशतादपि स्त्रीयमानयति | तत्रैव नयते | भगिनीवत् सर्वकार्याणि सम्पादयति | अथ भार्या भवति स्वभवनं नयते | दिव्यं वर्षसहस्रं जीवति | यदा मृयते तदा आढ्यकुलोपपत्तिः | सर्वाज्ञां भार्येव सम्पादयति || वधूयक्षिण्या मन्त्रः - ओं निः | एषा वधुयक्षिणी | अस्या***(?)रः - श्वेतचन्दनेन दक्षिणां ****(?)लिप्य ******** (?) स*******(?)न्त्रितं कृत्वा रात्रौ एकाकिना **************** (?) पञ्चाष्टौ ******** (?) फलानि तिलतैले प्रक्षिप्य पचेत् | तं तैलं प्द्f २५, प्. ५७०) गृहीत्वा विभीतकफलां परित्यज्य नवे भाण्डे सौवर्णे राजते ताम्र मृन्मये वा स्थाप्य पादान्ते शययायां सहस्राभिमन्त्रितं कृत्वा अनेनैव मन्त्रेण एकाक्षरयक्षिण्या अन्धकारे विविक्ते शयने पुष्पाभिकीर्णे स्वप्तव्यम् | आगत्य चामानुषीं पादौ म्रक्षयति | दिव्यसुखं स्पर्शकोमलहस्ततला | यस्य स्पर्शनादेव दिव्यं सुखसंस्पर्शनिद्रामुपजायते | येन सूर्योदयेऽपि रात्र्यन्ते दुःखेन प्रतिबुध्यते | प्रतिबुद्धापि सन् तदेव चिन्तयेत् | न च कामयितव्या नापि मन्त्रापयितव्या | षड्भिर्मासैः सिद्धा भवति | ततः सा दिव्यरूपी अभिनववध्या वधात्समाना परिचारिकैः परिवारिता प्रदीपहस्ता स्वप्रभोद्योतितालोका शयनासनपरिगृहीता विचित्राभरणोज्ज्वला आगत्य च मन्त्रापयते | कामभोगोपकरणपरिगृहीता आगत्य च साधकं कण्ठे परिप्वजते | ततःप्रभृति इष्टभार्येव मनुवर्त्तते | आगता च कामयितव्या रात्रौ परिचर्य प्रभातेऽन्तर्धीयते | शययायां मुक्ताहारं त्यज्य सुवर्णसहस्रमूल्यं दिने दिने परित्यज्य गच्छति च | सर्वं निरवशेषं व्ययीकर्त्तव्यम् | यदि किञ्चित् स्थापयति भूयो न भवति | न कस्यचित् कथितव्यम् | यदि कथयति भूयो नागच्छति | अनर्थं वा कुरुते | मारणान्तं परमगुह्यका ह्येते परमगोप्या न द्वितीयसत्त्वमारोचनं क्षमन्ते | मातापितृसुहृत्स्वामिबान्धवानामपि नारोचयितव्यम् | अन्तशः पशुस्यापि तिर्यग्गतानां प्राणिनां नारोपयितव्यम् | परमगुह्यमेतत् | सर्वगुह्यकानां सर्वयक्षिणीनां च एष एव विधाना | सिद्धा अपि असिद्धा भवन्ति | यद्यारोचयते | अन्यस्त्रीमैथुनाभिगमनं च भार्याया च वर्जयेत् सदा || मनोज्ञाया मन्त्रः - ओं मनोहरे मदोन्मादकरि विचित्ररूपिणि मैथुनप्रिये स्वाहा | अस्यामुपचारः - उद्यानवाटिकायां अशोकवृक्षस्यावस्यात् सविभक्तां कुटिं कारयित्वा अयुप्रतरां कृतकवाटार्गलप्राकारो**(?) शुचिना लक्षमेकं जपेत् | ततः कर्ममारभेत् | महावसां सङ्*******(?)शानवोटकेन वर्तिं कृत्वा द्वारं पिधयित्वा प्रदीपं प्रज्वालयेत् | **(?) च वस्त्रं केनापगतं वहिर्द्वारं स्थापयेत् | प्रत्यत्रं प्द्f २६, प्. ५७१) रात्रौ सा नग्निकागत्य तं वस्त्रं निवास्य प्रविशते मानुपस्त्रीरूपिणी भूत्वा | ततः साधकः तेन सार्धं रमते यावत् प्रदीपं ज्वलते | निर्वृते प्रदीपेऽन्तर्धीयते | तस्मिं वस्त्रे सुवर्णमेकं बद्ध्वा वस्त्रं परित्यज्यशययायामपक्रमति | अथ साधकस्तां हस्ते गृह्णाति | अङ्गुलेयिकैकावमुञ्च्यावक्रमते | अथ कण्ठा दिव्यमुक्ताहारां अथ वाहात् कटकं कट्यां मेखलां पद्भ्यां नूपुरं शीर्षे मणिं एवमन्यतरान्यतरंदिव्यमाभरणमेकं यत्र यत्र गृह्यते तत्र तत्रानुप्रयच्छति | अवध्यां गच्छति चागच्छति च | एवं प्रत्यहं निरवशेषं व्ययीकर्त्तव्यम् | एवं यावद्भिर्मासैः मन्त्रापयति तदा मन्त्रयितव्यम् | भार्या भवति | नित्यस्था रसायनं प्रयच्छति यं पीत्वा दीर्घकालं जीवति | मनसा ध्यात्वा खदिरकीलकं भूमौ निखानयेत् | दिव्यं विमानमुपपद्यते | उद्धृतेऽन्तर्धीयते | अस्याया मन्त्रः द्वितीयमस्ति | ओं महानग्नि नग्निजे स्वाहा तेनैव दीपं प्रज्वाल्य अनेन मन्त्रेणाष्टशताभिमन्त्रितं कृत्वा कारयेत् | नियतमागच्छति | कीलकं चाभिमन्त्र्य निखानयेत् | उद्धृते दीपे निवृते चान्तर्धानं कीलकं मानुषं वसाकीलं च सो शृङ्गे गवलमहिषशृङ्गे वा श्मशाने चैलवर्तिना वोढव्यम् | देशान्तरे | यत्रेष्टं तत्र ददाति | स्वयं वा करोति | न च मन्त्रा दातव्या | अथ ददाति छिन्नविद्यो भवति | यस्य ददाति तस्यैव तत् सम्पद्यते | यत्र वाभिरुचितं यत्र वा स्थाने गुप्ते करोति | एषा सिद्धिः आवर्त्त्य नापगच्छति | अन्यां वा रमापयते | किन्तु तैः सार्धं न मन्त्रयति | अन्यस्त्रीदर्शनाभिरुचितं मनसेप्सितं तदानुरूपी तस्योपसङ्क्रमतो ह्यपूर्वस्य साधकवशादिति || सुरसुन्दर्याया मन्त्रः - ओं सुरसुन्दरि ! स्वाहा | अस्यामुपघारः - खदिरकाष्ठैरग्निं प्रज्वाय घृताहुतीनां अष्टसहस्रं जुहुयात् | त्रिसन्ध्यं मासमेकं शुक्लपूर्णमास्यां कुशविण्डकोपविष्टः शुचिना शुचौ देशे मन्त्रं तावज्जपेद्रहपि यावदर्धरात्रे नियतमागच्छति | ततो माता भगिनी भार्या यथैव पूर्वं तत् सर्वं करोति सर्वं च ****(?) वक्तव्यम् || प्द्f २७, प्. ५७२) इत्येताः सप्त यक्षिण्यः वज्रपाणिसमाज्ञया | पर्यटन्ति महीं कृत्स्नां त्रैलोक्यं च सुरासुरम् || विचेरुः कृपालुभ्यो मर्त्त्यानां मैथुनप्रियाः | केऽपि दार्यास्तथा बाला मूढाश्चापरयक्षिका || पर्यटन्ति तथा रात्रौ सिंहकाम्यपरा हिता | बालानां जीवनाशाय लोलुपा मांसभोजिका || तथा रुधिरगन्धेन जम्बूद्वीपं हि मागताः | प्राणापरोधिका यक्षी नित्यं सा शोणितप्रिया || पर्यटन्ति गृहां सर्वां आरक्षामृतकसूतकाम् | तेषां निग्रहमित्युक्तः समयोऽयं सम्प्रकाशितः || यथा सङ्ग्रहरागं च निवन्ध्यं चेह बालिशाम् | तथा सर्वमिदं प्रोक्तं सत्त्वानां हितकारणात् || मैथुनार्थी यथा मन्त्री रागान्धो मूढचेतसः | मन्त्रैराकृष्य भुञ्जीत यक्षीं वा अथ राक्षसी || नागी च मथ गन्धर्वी दैत्ययोषिमथ किन्नरीम् | पातालभवनं रम्य असुराणां पुरोत्तमम् || प्रविशेत् तत्र मन्त्रज्ञः यत्र स्त्रीणामसङ्ख्यकम् | तत्र गत्वा वसेत् कल्पं मन्त्रज्ञो मन्त्रजापिनः || मैत्रेयो नाम सम्बुद्धः यदा बुद्धो भविष्यति | तदासौ श्रोष्यति सद्धर्मं श्रुत्वा मुक्तो भविष्यति || सुरकन्यासुरीं चैव विद्याधरवराङ्गनाम् | मन्त्रैराकृष्य भुञ्जीत दिव्यसौख्यरतिं तदा || जम्बूउद्वीपगतो मन्त्री तत्रैवानयते सदा | शुचिस्थाने तदा गुप्ते शौचाचाररतः सदा || मूढानामुत्तमा सिद्धिः कदाचित् तेन जायते | विन्मूत्रमशुचिनागतं सदा दुर्गन्धिपूतिकम् || प्द्f २८, प्. ५७३) व्याधिदुःख तथा शोकं मरणान्तं दुःखभाजनम् | वियोगं रतिसम्पृक्तं न स्पृशेन्मानुषीं स्त्रियाम् || अनित्यदुःख तथा शून्यरिक्तस्तुच्छमशाश्वतम् | वालमुल्लापनं चापि सङ्कल्पजनितोद्भवेत् || न गच्छेत् कामतो मन्त्री सर्वकामामनादिजाम् | तेषां विरतिमित्युक्तो विमुक्तिः तेषु सिद्धिताम् || सिध्यन्ते तस्य मन्त्रा वै ये विरक्ता तु कामतः | विन्सूत्ररुधिरासिक्तां *** (?) चैव पूजिताम् || जरामृत्युसुशोकां च न स्पृशेन्मानुषीं तनुम् | न भेजेन्मैथुनं तत्र मोहान्धा रागचेतसाम् || न सिद्धिर्लभ्यते मन्त्रां तेषु सेवी सदाशुची | मन्त्रज्ञो मन्त्रजापी च सप्रज्ञोऽथ जितेन्द्रियः || शौचाचाररतो धीरः सर्वमन्त्रोऽपि हि सदा | पद्मोच्चा समोदा च अजिता चापि जया सदा || श्यामावर्त तथा यक्षी इत्येता यक्षिमर्द्धिका | पद्मोच्चाया मन्त्रः - ओं पद्मोच्चे स्वाहा || अस्याः कल्पः - गङ्गाकूले समुद्रतटे वा उद्यानपुष्पवाटिकायां मध्ये उडयं कृत्वा शुचितरं आत्मना च शुचिर्भूत्वा शिलापट्टकाकारं मृण्मये कृत्वा तत्रैव रात्रौ द्वारं पिधयित्वा सर्वकामभोग्याद्युपकरणान्युपहृत्य तत्रैवात्मसमीपे यक्षिण्यां शययां कल्पयेत् | ततो विद्यां दश सहस्राणि जपेत् | एवं यावन्मासाभ्यन्तरेण नियतमागच्छतीति | आगता च कामोपभोग्या भवति भार्या | दिव्यं च मुक्ताहारं शययां परित्यज्य प्रभाते गच्छति | एवं यावद् दिनेदिने षड्भिर्मासैः नित्यस्था भवति | तन्मुक्ताहारं न ग्रहेतव्यम् | यदि गृह्णाति तन्मात्र एवमुपपद्यते **(?)नीरलक्षमूल्यं तत हारं मणिरत्नोपशोभितं षट्भिर्मासैरतिक्रान्तै ****(?)स्था भवति भार्या सर्वकामदा | यथा रूपमाभिलषितं तथा रूपं कृत्वा उपतिष्ठते | प्द्f २९, प्. ५७४) यथाभिरुचितमात्मानमभिनिर्मिनोति | साधकस्येच्छया सर्वेषां यक्षीणामयं विधानः यथा निर्दिष्टानां अत्र अन्यत्र || जयाय मन्त्रः - ओं जये ! सुजये ! जापयति सर्वकार्याणि कुरु मे स्वाहा | कनकाभा चित्राङ्गी नीलकुञ्चितमूर्धजा | सर्वाङ्गशोभना देवी भोम्य स सुभगा शुभा || प्रियंवदा प्रमदाश्रेष्ठा सुरूपा चारुदर्शना | प्रशस्ताकाररुः शुक्रः सर्वलोकसुपूजिता || ईषिद्रक्तेन वस्त्रेण जयां तामभिनिर्दिशेत् | अस्याः कल्पः - आदौ लक्षमेकं जपेत् | पूर्वसेवा कृता भवति | ततो महारण्यं प्रविश्य फलाहारः तावज्जपेद्यावत् स्वरूपेणोपतिष्ठते | आगता च ब्रवीति - किं करोमीति | यदि माता भवति | मातृवत् सर्वाशां परिपूरयते | राज्यं ददाति | महाधनपतिं करोति | दीर्घायुष्कतामधितिष्ठते | अथ भगिनी यथेप्सितं स्त्रीमानयति याजनसहस्रस्थितामपि | दीनारलक्षं दिने दिने ददाति | स च व्ययीकर्तव्यः | अथ भार्या भवति स्वभवनं नयते दिव्यविमानाभिरूढो तया सार्धं रमते | दीर्घकालं त्रिंशद् वर्षसहस्राणि यथेष्टं विचरते | महायक्षप्रतिरूपो भवति || प्रमोदाया मन्त्रः - ओं ष्ठ्रीः | ह्रींः महानग्नि हूं फट् स्वाहा | अस्याः कल्पः - अर्धरात्रे अपरिमाणो जापः कर्तव्यः | भूयो निद्रां गच्छेत् | मासाभ्यन्तरेण नियतमागच्छति | भार्या भवति सर्वकामदा | दिनेदिने पञ्चविंशति दीनारामनुप्रयच्छति | आत्मना च सङ्कोशं दीर्घकालं च जीवापयति || एवमपरिमाणानि यक्षिणी शतसहस्राणि भवन्ति | एवं पिशाचाः पिशाचमहर्द्धिकाः नागकन्याः अ***(?)न्याः अप्सरा सुर***(?) दैत्यकन्या | एवं विद्याधरीणां सर्वेषां सर्वतः मानुषीणाममातुषीणां च मन्त्राणि भवन्ति | प्द्f ३०, प्. ५७५) असङ्ख्येयानि तथैव यक्षाणां देवानां नागानां ऋषीणां गन्धर्वाणां असुराणां प्रेतानां राक्षसानां च महाब्रह्मणः महेश्वरस्य महाविष्णोः मातराणां ऐन्द्राणि चामुण्डिवाराहिप्रमुखानां मन्त्राणि भवन्ति पृथक्पृथक् सर्वे च समये आकृष्टाः इह क्रोधराजेन यमान्तकेन आनीता ग्रस्ता समये स्थापिता मञ्जुघोषस्योपनामिता अनुपरिवारा अनुपूर्वस्थिता परिचारिका सर्वेषां संक्षेपतः यत्र प्रतिमा स्वयं वा प्रकृतिं कृत्वा क्रोधराजानं यमान्तकं तावज्जपेद्यावत् प्रतिबिम्बं प्रकम्प्य प्रचलते प्रस्विद्यति वा | अयं स्वरूपेणागच्छन्ते | यदुच्यते तत् सर्वं सम्पादयन्ते || एवं यापि ताः चतुःकुमार्यः महायक्षिण्यः भ्रातुः तुम्बुरुसमेता दिव्यरूपिण्यः अम्बुराशिसमाश्रिताः नौयानसमारूढाः सर्वलोकसुपूजिता सत्त्वानुग्रहकारिकाः तेषामप्येष एव विधिः | यदुत पटभित्तिफलके समाकीर्णो लिखितापि वा | नौयानसमारूढा भ्रातुर्ज्येष्ठानुनेयिका || अम्बुधे अन्तर्गता कन्या चतुरेवसमानुगा | तेषां प्रच्छन्नतः स्थाप्य क्रोधं जाप्य समारभेत् || चलः कम्पः तथा स्वेदः जायतेषु च सर्वतः | ततः सिद्धा इति ज्ञात्वा मन्त्रजापी जपं त्यजेत् || स्वरूपेणैव रात्र्यन्ते कथयन्ति शुभाशुभम् | सर्वथा साधका ते वै भवन्ते ह सजापिने || सर्वं कुर्वन्ति आज्ञप्ताः क्रोधमाकृष्टमूर्च्छिताः | सोमाद्यैर्ग्रहवरैर्नित्यं ऋषिभिः राक्षसैस्तथा || पिशाचैर्गरुडैश्चापि सुपूजिता ते महर्द्धिकाः | महेश्वराद्यैस्तथाभूतैः पूजिता ते महर्द्धिकाः || एतैश्च भाषिता कल्पा मन्त्रतन्त्राः सविस्तराः | ते तु सर्वे प्रयोक्तव्या सकल्पा कल्पविस्तराः || ** (?) ते क्रोधराजस्य ***** (?) मतः | यावन्ति केचिन्मन्त्रा वै **** (?) कम्पलोद्भवाः || प्द्f ३१, प्. ५७६) सर्वे ते क्रोधराजस्य नियुक्ता ते प्रकाशिता | आर्या ये च मन्त्रा वै विशिष्टा सर्वतोगताः || उत्कृष्टाः प्रवरा ह्यग्राः भाषिता जिनवरैस्तथा | तथा मन्त्रधरे मन्त्रा मया चैव प्रभाषिता || ये चान्ये मन्त्रमुख्यास्तु कुलेष्वेव हि पञ्चसु | भाषिता जिनपुत्रैस्तु लौकिकाश्चापि महर्द्धिका || सर्वांस्तां समाकृष्य क्रोधराजो महर्द्धिकः | सर्वेषां मन्त्रतन्त्रास्त्रनिबद्धास्ते इह शासने || यो येषां विधिराख्यातः तेनैवायं नियोजितः | क्रोधराजा यमान्तस्तु उत्कृष्टः सर्वकर्मिकः || तारां च भृकुटीं चैव तथा पण्डरवासिनीम् | महाश्वेतां तथा विद्यां मामक्यां कुलिशोद्भवाम् || उष्णीषप्रभां सर्वलोचनां चैव देवताम् | सर्वां तथागतिं विद्यां मञ्जुघोषं च धीमतम् || महास्थामं समन्तं च तथा पद्मवरं प्रभुम् | ययापि लोके यक्षेशं बोधिसत्त्वं महर्द्धिकम् || यदुक्तं जिनपुत्रं तु सर्वाङ्गं लोकविश्रुतम् | वज्रसेनं सुषेणं च मत्सुतां चापि धीमताम् || मया ये भाषिता मन्त्रा नावज्ञां कारयेज्जपी | ते सर्वां पूजयेन्नित्यं अलङ्घ्यास्तेषु भाषिता || न जपी योजयेत् तत्र क्रोधराजं सुपूजितम् | विद्याच्छेदं न कुर्वीत तेषु मन्त्रेषु सर्वदा || सर्वांश्चैव यथा कर्मां लौकिकां मन्त्रदेवताम् | उमाशङ्करब्रह्माद्यां हरिं चापि सुपूजितम् || यथा तन्त्रेषु मन्त्राणां सर्वेष्वेव तथा कृता | सर्वं च सर्वतो मन्त्रां सर्वं चैव समारभेत् || प्द्f ३२, प्. ५७७) सर्वमन्त्रप्रवृत्तिस्तु दृश्यते क्रोधसम्भवा | एष मन्त्रो महाक्रोधः यमान्तो नाम नामतः || आकृष्य घातयेत् क्षिप्रं यमस्यापि महात्मने | वैवस्वतं कृतान्तं वै शक्रश्चापि महात्मनः || आकृष्टा वसिता घोरा दुर्दान्तदमको प्रभुः | एष मन्त्रो महामन्त्रः कथितो मञ्जुभाणिना || सर्वकर्मकरः क्रूरः सर्वमन्त्रप्रसाधकः | इत्येवमुक्त्वा ततः श्रीमां वज्रपाणिर्महर्द्धिकः || प्रणम्य बुद्धं महावीरं शाक्यसिंहं नरोत्तमम् | मन्त्रं च काश्रितो वज्री मन्त्रं भाषे महर्द्धिकम् || शृण्वन्तु सर्वे सत्त्वा वै सर्वभूतगणाः शुभाः | सर्वमैत्रगणाध्यक्षा भाषेऽहं मन्त्रमुत्तमम् || भाषितं बोधिसत्त्वेन मञ्जुघोषेण धीमता | दुर्दान्तदमकं घोरं सर्वदुष्टनिवारणम् || विनेयार्थं तु सत्त्वानां बोधिसत्त्वेन भाषितम् | अहं च भाषहे ह्यत्र पर्षन्मध्ये सदारुणम् || नमः समन्तबुद्धानां अभावस्वभावसमुद्गतानाम् | नमः प्रत्येकबुद्धार्यश्रावकाणां नमो बोधिसत्त्वानां दशभूमिप्रतिष्ठितेश्वराणां बोधिसत्त्वानां महासत्त्वानाम् | तद्यथा - ओं ख ख खाहि खाहि दुष्टमत्त्वदमक असिमुसलपाशपरशुहस्त चतुर्भुज चतुर्मुख षट्चरण गच्छ गच्छ महाविघ्नघातक विकृतानन सर्वभूतभयङ्कर अट्टहासनादिने व्याघ्रचर्मनिवसन कुरु कुरु सर्वकर्मां च्छिन्द च्छिन्द सर्वमन्त्रां आकर्षाकर्षय सर्वभूतां निर्मथ निर्मथ सर्वदुष्टां प्रवेशय प्रवेशय मण्डलमध्ये वैवस्वतजीवितान्तकर कुरु कुरु मम कार्यं दह दह पच पच मा विलम्ब मा विलम्ब समयमनुस्मर हूं हूं फट् फट् स्फोटय स्फोटय सर्वाशापारिपूरक हे ***(?) किं चि**(??)सि मम सर्वार्थं साधय स्वाहा | प्द्f ३३, प्. ५७८) एष सः मार्षाः सर्वदेवगणाः यमान्तको नाम क्रोधराजा यमराजानमप्यानयति घातयति शोषयति पाचयति दमयति | एवं सर्वमन्त्रां सर्वदेवां किं पुनर्मानुषं प्रति दुःखितम् | दशभूमिप्रतिष्ठितामपि बोधिसत्त्वानानयति | किं पुनर्लौकिकां मन्त्राम् | एवमपरिमितबलपराक्रमोऽयं क्रोधराजा | एवं सर्वमन्त्रतन्त्रभाषितेष्वपि सर्वकर्माणि कुरुते | सर्वमन्त्राणां यथा यथा प्रयुज्यते तथा तथा करोति | पठितसिद्ध एष क्रोधराजा यमान्तको नाम परिसमाप्त इति || आर्यमञ्जुश्रीमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् पञ्चाशतिमः यमान्तकक्रोधराजासर्वविधिनियमः तृतीयः पटलविसरः परिसमाप्त इति || नमो बुद्धाय | समाप्तं च यमान्तकस्य क्रोधराजस्य कल्पमिति || प्द्f ३४, प्. ५७९) अथ त्रिपञ्चाशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः तस्मात् समाधेर्व्युत्थाय महासागरोपमायां पर्षन्मण्डलं धर्मं देशयमानः सर्वसत्त्वानां सर्वभूतगणानामग्रतः सन्निषण्णाः तत्र वज्रपाणिप्रमुखानामनेकबोधिसत्त्वसङ्ख्येयसहस्रां शारिपुत्रप्रमुखां अनेकासङ्खेयार्हत्सहस्रां वैश्रवणप्रमुखां असङ्ख्येयार्चचातुर्महाराजिकदेवपुत्रां शक्रप्रमुखां त्रायस्त्रिंशां असङ्ख्येयदेवपुत्रां सुयामसन्तुषितनिर्माणरतिपरनिर्मितवशवर्तिब्रह्मकायिकब्रह्मपुरोहित- महाब्रह्मपरीत्ताभाप्रमाणाभास्वरैर्यावत् पुण्यप्रसवा बृहत्फलां बृहातपाकनिष्ठा देवानामन्त्रयते स्म | शृण्वन्तु भवन्तो देवसङ्घाः ! सर्वबोधिसत्त्वार्यश्रावकाः ! अनित्याः सर्वसंस्कारा उत्पादव्ययधर्मिणः | उत्पद्य हि निरुद्ध्यन्ते तेषां व्युपशमः सुखम् || अविद्याप्रभावाः सर्वे उत्पद्यन्ते सहेतुकाः | सहेतुं दुःखमूलं तु स्कन्धा ह्युक्ताः समोदयाः || तेषां निरोधिनी विद्या सुखहेतुसुखक्रियाम् | दुःखप्रहाणमित्युक्तं संक्षेपेण निवारणा || तदेव त्रिविधं यानं निर्दिष्टं च मया इह | अनित्यदुःखमानात्मानो क्षणिकं सर्वसंस्कृतम् || शून्यं सदा सर्वदा सर्वं निर्दिष्टं भवबन्धनम् | तद्विरागा त्रिधा यान्ति ये सत्त्वा गोत्रनिसृता || बोधिसत्त्वास्तदा बुद्धा प्रत्येका बोधिनिश्रिताम् | तथा परेह्यहरहन्नो वीतरागा महर्द्धिका || श्रावकीं बोधिनिसृत्य त्रिधा शान्तिगता हि ते | एष धर्मो समासेन निर्दिष्टो मे शुभाशुभम् || अशुभं वर्जयेन्नित्यं सर्वदा शुभमाचरेत् | अहिंसां सर्वभूतानां यथा धर्मो प्रकाशितः || एक एव भवेन्मार्गं धर्माणां गतिपञ्चके | अनाश्रवश्च यो धर्मो भूत****(?)शृतः || प्द्f ३५, प्. ५८०) स एष कथितो मार्गः आदिबुद्धैः पुरातनैः | मयापि कथितं सर्वं शान्तनिर्वाणगामिनम् || धर्मकोटिं समासृत्य भूतकोटिं तु लभ्यते | अकोटी सर्वधर्माणां भूतकोटिमुदाहृता || एष धर्मः समासेन द्विविधैव प्रकाशितम् | शृण्वन्तु सर्वे देवा वै बोधिसत्त्वा महर्द्धिकाः || अर्हन्तः श्रावका मह्यं निर्वाण मे यदा भुवि | अभूत् सालवने मध्ये हिमवत्कुक्षिसम्भवे || नद्यां हिरण्यवत्यायां मल्लानामुपवर्तते | यमकशालकवने मध्ये निर्वाणं मे भविष्यति || यावत् संज्ञी तथा नगरे चैत्ये मकुटवर्धने | नदीतीरे सदा रम्ये निर्वाणं मे तदा भुवि || सर्वे वै बोधिसत्त्वास्तु श्रावकाश्च महर्द्धिकाः | देवा नागा तथा यक्षा लोकपाला महर्द्धिका || शक्रब्रह्मसुयामाश्च अकनिष्ठाद्यास्तथा परे | सर्वेषां सन्निपाता वै तस्मिं स्थाने भविष्यति || यमकशालकवने तत्र मल्लानामुपदर्तते | गङ्गायामुत्तरे तीरे महानद्यास्तथा परे || हिमाद्रेर्दक्षिणे भागे अभूत् सालवने वने | अपश्चिमे मे तथा शयया तस्मिं स्थाने भविष्यति || नद्या तीरे तथा रम्ये हिरण्याख्ये शुभे तटे | सर्वदेवसङ्घाद्यां सन्निपातो भविष्यति || मनुजैः नृपवरैः सर्वै मनुष्यामनुष्यसम्भवैः | सर्वभूतैस्तथा मर्त्यै वालिशावालिशैस्तदा || महोत्सवमहोत्साहं तस्मिं स्थाने समागमम् | कृतमन्त्रमहं दिव्यं मच्छरीरे तु सामिपे || प्द्f ३६, प्. ५८१) निरामिषं तु सदा स्थाप्य शान्तिमाप्नोति निर्वृतिम् | धर्मकोटि परित्यज्य भूतकोटिं तु संविशेत् || अपश्चिमा मे तथा जातिः नगरे कपिलवास्तुके | शाक्यानां च कुले मुख्ये जातोऽहं भवचारके || ततोऽहं त्यज्य दुःखात्म्यं निर्यातोऽहं गृहात्तथा | बहुतीर्थां तथा सेव्य न च प्राप्तो मृतः पुनः || दुःकरं च मया चीर्णं कायं सन्ताप्य तश्चैनम् | षडाब्दमुषितः भ्रष्टदेहं वापि विशुष्कतः || न च किञ्चिन्मया लब्धं येन ज्ञानमवावृतम् | ततोत्थाय मया तत्र आहारं कृथ शुभोदनम् || देवतासूचितं मार्गं गतोऽहं तत्र भूतलम् | नद्या नैरञ्जनातीरे वृक्षराजे सुशोभने || नानापुष्पसमाकीर्णे तथेरण्येऽथ भूतले | महावनफलोपेते नानावृक्षसमुद्भवे || महानदी परिवेष्ट्यान्ते तरुमूले ततो ह्यहम् | यो स्वकं दृष्टमात्रं तु भूभागं धृतिसंलभे || तथैवाहं तं तरुं दृष्ट्वा पर्णशाखोपशोभितम् | महावृक्षं महाच्छायं मूलगूढोपशोभितम् || अश्वत्थेऽश्वत्थतां गच्छेत् तरुमूले निपद्य वै | धृतिं तत्राभिविन्दामि ध्यानं चापि समाधिकम् || प्राप्तं तत्र अनाशां वै रात्र्यन्ते जातिरन्तकम् | मारेण बहुधा विघ्ना अनेकाकारसुयोजिताः || भग्नसैन्यपरावृत्य गतोऽसौ स्वभवनं पुनः | तदर्थे **** (?) वै भाषिता बहुधा पुनः || अनेका***(?)योगाश्च ध्याना ज्ञानाश्च भाषिताः | त्रिधा या****(?)तत्र चरितं सर्वसेवितम् || प्द्f ३७, प्. ५८२) प्रतिपक्षा हि दोषाणां त्रिधा चैव प्रकाशितः | ततोत्थाय पुनर्गत्वा बुरुबिल्वां शोभोदकाम् || स्नात्वाम्भसे तत्र ऋषिं प्रव्रज्य सशिष्यकाम् | सत्त्वार्थं बहुधा कृत्वा प्रक्रान्तोऽहं ततः पुनः || पुनः काशिपुरीरम्यां अनुपूर्व्या समाविशेत् | तत्र स्थाने तु गत्वा वै परा बुद्धा महर्द्धिकाः || तत्राहं स्थितो देशे जने काशिजने स्वयम् | प्रवर्त्य चक्रं साधर्म्यशान्तिं निर्वाणकारकम् || ससुरासुरलोकानां गतिं पञ्चासुनिसृताम् | सर्वभूतसुखार्थाय तत्र धर्म प्रकाशितः || आदिबुद्धैः पुरा तत्र धर्मचक्रं प्रवर्तितम् | मयापि दिशि तत्र धर्मचक्रो ह्यनुत्तरः || भवमुक्तिसुखार्थाय सत्त्वदोषनिवारणा | प्रवर्त्त्य चक्रं ब्राह्मां वै क्षेमं शान्तपरायणम् || भवमार्गविनाशार्थं चतुःसत्यसमाधिजम् | आर्याष्टाङ्गिकं मार्गं चतुर्ब्राह्मविभूषितम् || सप्रतीत्य समुत्पादं द्वादशाकारकारितम् | अविद्यानिरोधसंयुक्तं विद्यामुत्पादनेमिजम् || भ्रामिता कोटितत्थ्यं वै भूतकोटिसुकोटिजम् | अनुलोमविलोमाभ्यां गतिमाहात्मनेमिजम् || सम्प्रदेशशिवं चक्रं बहुसत्त्वा विमोक्ष च | विमुञ्च्य काशिपुरीं रम्यां श्रावस्त्याहं तदा गमे || तीर्थिकानां तथा वर्ज्या प्रातिहार्यैर्विकुर्वतैः | शङ्कश्यते तथा कृत्वा ऋद्धिर्जनपदे तदा || बहुतीर्थायतनां स्थानां सम्***(?) ** (?) पुनः | अग्निभाण्डे जने कृत्वा देवावतरणं शुभम् || प्द्f ३८, प्. ५८३) त्रायस्त्रिंशेषु देवेषु शक्रसंयोज्य धर्मताम् | अकनिष्ठाद्यां तथा देवां ब्रह्मादीशपुरन्दराम् || सवैश्रवणयक्षेन्द्रां चतुर्महाराजकायिकां सदा | मत्ताकरिपमाणाश्च त्रिवीणां मालधारिणाम् || देवां यणगणां सर्वां भौमां दिव्यान्तरीक्षकाम् | आर्यां यथगणाध्यक्षां सर्वांश्चैव सुरासुराम् || कृत्वा धर्मफले युक्तां निर्वाणानुगसत्रिवाम् | श्रेयसैव तदा योज्या बहुप्राणामचित्तकाम् || असङ्ख्या गणना तेषां संसारान्तादनन्तकाम् | महासाहस्रलोकानां धात्वाध्यामचित्तकाम् || बहु सर्वं सदा सत्ये भूतार्थे सन्नियोज्य वै | इहाहमागतस्तत्र शुद्धावासोपरि स्थितः || प्रवर्त्य मन्त्रसद्धर्मत्रिधायानसमानुगम् | सत्त्वानां विनयमागम्य कल्पराजमिदं पुनः || प्रकाश्ये बहुधा लोके मञ्जुघोषस्य दत्तवां | निर्वृते तु मया लोके शून्यीभूते महीतले || मञ्जुश्रियोऽथ सत्त्वानां बुद्धकृत्यं करिष्यति | आरक्षणार्थं सद्धर्मां जिनेन्द्राणां परिनिर्वृता || सतता रक्षणा नित्यं मञ्जुघोषो भविष्यति | मन्त्रप्रभावनार्थं तु कथितम् कल्पविस्तरम् || तस्मिं काले युगान्ते वै महाघोरे सुदारुणे | नराधिपा महाक्रूरा परस्परवधे रताः || पापकर्मा दुराचारा अल्पभोगा तदा युगे | भविष्यन्ति न सन्देहो तस्मिं काले युगाधके || ममागम्य च पूजार्थं अभूत् सालवने वने | नदीहिरण्यावतीतीरे चैत्ये मकुटबन्धने || प्द्f ३९, प्. ५८४) परिनिर्वृते शयानं मे शान्तधातुसमासृते | चितामरोपिते देहे सम्भोगे भोगवर्जिते || दृष्ट्वेव तत् पुरा कर्मं मामेवाद्भुतचेष्टितम् | मयैव विनयतागम्ये बुद्धवैनेयचेष्टिते || चरितं तं शुभं चित्रं स्मृत्वा सर्वे नराधिपाः | सर्वे पूजां करिष्यन्ति सदेवासुरमानुषाः || समागत्यथ भूपालाः सर्वे पूजाहोत्सवाम् | करिष्यन्ति न सन्देहः तस्मिं काले ममान्तिके || चितामारोपिते देहे सामिषे गुणमुद्भवे | अशुभान्ते शुभे चैव सर्वे पुण्यविवर्जिते || भूतकोट्योऽथ शून्यास्ते पञ्चस्कन्धसमोदये | बहुसत्त्वा तु तं दृष्ट्वा महापुण्यार्थे तु योजिता || महाश्रावका महात्मानः वीतरागा महर्द्धिका | बोधिसत्त्वास्तु सर्वे वै दशभूमिसमाशृता || परिवार्य स्थिता सर्वे सर्वे चैवानुकम्पका | सर्वे वै देवसङ्घास्तु आर्या सपृथग्जना || सर्वे चैतं महापुण्यं स्थानं चैकत्र माश्रितम् | चित्तप्रसादं प्रतिलेभेऽनित्यदुःखार्थमाश्रयम् || सर्वे भूतगणा तस्थुः चैत्यान्तेऽपि समीपतः | पूजां च महतीं चक्रे चुचुक्रोश रुरोदनम् || मुमुचुः साश्रुविन्दूनि सवाष्पाणि करुणेरिताम् | एवं च क्रोशिरे सर्वे अनित्यं दुःखशून्यताम् || धर्मं दिदेशितवां बुद्धा नाम्प्रतेश्च महीतले | सैवाद्य मुनिवराः श्रेष्ठः सप्तमो ऋषिपुङ्गवः || शाक्यजः सर्वसत्त्वाग्र्यो दर्शनं तस्य त्रिपश्चिमम् | स एष भगवां शेते अनित्यदुःखाभिनाषिणः || प्द्f ४०, प्. ५८५) शून्यपरमार्थमाख्यायी आदिशान्तार्थभाषिणः | किमर्थं देवसङ्घा भो न प्रबोधयत तं प्रभुम् || आगता इह सर्वे वै बुद्धपुत्रा महर्द्धिका | धर्मार्थिका महावीरा श्रावकाश्च महर्द्धिका || सर्वे वै दुःखिता सत्त्वा मानुषाश्च सुरासुराः | समयो वर्तते ह्यत्र धर्मचक्रानुवर्तने || उत्थातु भगवां क्षिप्रं बुद्धवेलानुवर्तनेः | महासाग्रे चले वोल्लङ्घ्या मुनितद्गतैः || न चावमन्यां बहूं सत्त्वां चिरकालं समोभिजे | ध्यानं विमोक्ष संसेस्तु शान्तनिर्वाणमार्गे || निषेप्तुं वा भूततो मुनिः * * * * * * * * * * (?) | एवम्प्रकारं ह्यनेकां बहुप्रलापां प्रलपवंचूरे || तूष्णीम्भूताथ सर्वे वै देवसङ्घा महर्द्धिका | आक्रन्दमतुलं कृत्वा सप्रणामा ततस्थिरे || चुकूचु विरः मुत्कोश्य साश्रुकण्ठा सगद्गदा | सशोकाचित्तमनसो ब्रह्माद्याः ससुरासुराः || मनुजा नराधिपाः सर्वे निषण्णास्तत्र महीतले | अपरः शाक्यजो मुक्तः वीतरागो महर्द्धिकः || ज्ञानिनो देवदेवस्य बुद्धस्यैव महात्मने | अनिरुद्धो नामतो भिक्षुः अनुजोऽसौ मनुजः शुभः || सुसूक्ष्म निपुणो व्यक्तः गीतनीतिविशारदः | परिवारितो रहमुख्यैस्तु अनेकैश्चापि नराधिपैः || स भाषे मधुरां वाचां निश्वसन्तः सुचेरिताम् | करुणार्द्रचेतसां क्षिप्तां मल्लानां सनराधिपाम् || मां तावन्मार्षा ह्यत्र चितावग्निं प्रदायथ | यावद् भगवत. पुतर्ः अग्रतो धर्मतोद्भवः || प्द्f ४१, प्. ५८६) महाकाश्यपनामेन श्रावकोऽसौ महर्द्धिकः | महामुने ह्यग्रधीजातब्राह्मणोऽसौ निरामिषः || मगधानां जने जातः पर्वते तत्र समाहितः | तिष्ठते ग्रहपिप्पले नगरे राजगृहे वरे || स एवागमनं क्षिप्रं करिष्यति न चान्यथा | या तत्र देवताभक्ता स चेहोल्कां निवारयेत् || मा तावच्चितिसन्दीपं करिष्यथ वृथा श्रमम् | यावत् सो महर्द्धिको ह्यग्रः श्रावको मुनिनौरसः || प्रदक्षिणीकृत्य गुरवे बुद्धस्त्रैलोक्यपूजिते | मूर्ध्ना प्रणम्य पादौ शास्तुनो लोकपूजितौ || तदायं चितिदीपार्थं सर्वे तत्र करिष्यथ | आदीप्ता चैत्यभूताद् भविष्यति तदा इमा || सर्वे मा वृथा कुर्वं श्रमं केवल भो इह | एवमुक्तास्तु ते सर्वे अनिरुद्धेन धीमता || निषण्णा सर्वमल्लास्तु मानुषास्ते सनराधिपाः | मानुषाणामुत्पन्नोऽहं मानुषैश्चापि वर्धितः || भोगैर्बहुविधा चान्यैः कलाशिल्पशुभोदयैः | मनुष्याणां बोधिलब्धा मे तरुमूले महीतले || मनुष्याणां धर्मनिर्दिष्टः सर्वसत्त्वोपकारकम् | अत एव मनुष्याणां चिता दीपार्थयोजिता || मनुष्योऽहं सर्वभूतानां अग्र्यत्वं च समागतः | मनुष्यलोके च शान्ति मे परिनिर्वाणं तु कल्पितम् || ये केचित् सर्वबुद्धा वै अतीतानागतवर्तिना | सर्वे वै मनुष्यलोकेऽस्मिं मनुष्या देहमुद्भवा || जातिबोधि तथा चक्रं साधर्म्यं चरितुं शुभम् | शान्तिं समाविशेत् सर्वे प्रत्यकामर्हतस्त्रिधा || प्द्f ४२, प्. ५८७) मानुषीं तनुमाशृत्य गता शान्तिमनुत्तराम् | उपकारं मया तेषु कृतं कल्पामचिन्तिकाम् || आपश्चिमं मया शान्ते शीतीभूते निरोदये | स्थापिता धातवस्तत्र शून्यीभूते महीतले || मनुष्याणां हितार्थाय पूजानुग्रहकाम्यया | ससुरासुरलोकानां ऋषियक्षगरुत्मताम् || राक्षसां प्रेतकूश्माण्डां पिशाचां प्रेतमहर्द्धिकाम् | सर्वांश्चैव भूतानां सग्रहाश्चैव मातरान् || सर्वांश्चैव तथा लोकां धात्वाचिन्त्यामसङ्ख्यकाम् | सर्वप्राणिभृतांश्चैव पूजनार्थाय धातवः || स्थापिता ते तदा काले शून्यीभूते महीतले | केचि द्रव्यागतैः मर्त्यैः देवराजैश्च चापरैः || पातालवासिभिश्चान्यैः दानवेन्द्रैर्महर्द्धिकैः | नागराजैस्तथा दैत्यैः धातवो मे पृथक् पृथक् || अपहृत्य हृतार्था ये गुणवन्तोऽथ महर्द्धिकाः | करिष्यन्ति तदा पूजां नीत्वा स्वभवनं पुनः || भविष्यन्ति न सन्देहः सर्वबुद्धा महर्द्धिकाः | उत्तमाधममध्यस्था त्रिधा चित्तप्रसादतः || भविष्यन्ति ते त्रिधा लोके बुद्धखड्गरर्हद्गता | त्रिधा यानं तथा लोके त्रिप्रकारं समोदितम् || महायानानुवर्णिनं मार्गं तत्कर्माशृतनिर्गता | भविष्यन्ति तदा लोके प्रत्येकां बोधिनिःश्रिताम् || श्रावकाश्च परे तत्र वीतरागमहर्द्धिका | भविष्यन्ति तदा लोके त्रिधा गोत्रविभूषिता || मही***(?) महाभोगा महासौम्याथ चक्रिणाः | दिव्यां मानुषसम्पत्तीः अनुभूय चिरं तदा || प्द्f ४३, प्. ५८८) कालमासाद्य अन्ते वै त्रिधा शान्तिं गता हि ते | आदिमद्भिः पुरा बुद्धैः वर्त्तमानैर्ह्यनागतैः || सर्वेषां एष मार्गो वै यथायं सम्प्रकाशितः | तत्र निर्वाणभूमा वै निषण्णाः सर्वदेवता || विभिन्नमनसोद्विग्नाः सहगद्गदभाषिणः | एवमाह तदा सर्वे अहो कष्टं ह्यनित्यता || बुद्धमहर्द्धिका लोके परिनिर्वाणासृतापि ते | एवमुक्तास्तु ते सर्वे देवराजा महर्द्धिका || तूष्णीम्भूताथ तस्थिरे * * * * * * * * (?) | मागधानां जने श्रेष्ठे कुशाग्रपुरिवासिनाम् || पर्वतं तत्समीपं तु वाराहं नाम नामतः | तत्रासौ ध्यायते भिक्षुः गुहालीनोऽथ पैपले || श्रावको मे सुतो ह्यग्रः औरसो धर्मतोद्भवः | महाकाश्यपनामासौ निषण्णो गुहवरे तदा || पिण्डपातं तदा भुक्त्वा निषण्णश्चिन्तयेत् स्वयम् | बहुकालं मया बुद्धो वन्दितोऽसौ महामुनिः || साम्प्रतं गन्तुमिछामि स्वयम्भुवं तं नरोत्तमम् | कुत्र वा तिष्ठते भगवां शाक्यतो मुनिसत्तमः || समन्वाहरति तत्रस्थः महाकाश्यपविप्रराट् | एवं समन्वाहृतवां नुं चित्तेनैव मुनिना मुनिम् || दिव्येन चक्षुषा लोकं सर्वलोकांश्चावलोकयेत् | अकनिष्ठाद्यं तथा लोकां अवभास्या लोकधातवः || सर्वां समग्रसत्त्वाख्यां महासाहस्रोद्भवोद्भवाम् | श्रावकानां गोचरं यावत् पश्यते दिव्यचक्षुषा || शासनं निर्वृतं शान्तं शीतीभूतं निराभिषम् | परिवारितं समन्ताद् वै देवसङ्घैः महर्द्धिकैः || प्द्f ४४, प्. ५८९) मनुजैर्नराधिपैश्चापि असुरैर्यक्षराक्षसैः | सर्वभूतगणैश्चापि बोधिसत्त्वैर्महर्द्धिकैः || महायशैः श्रावकैश्चापि प्राज्ञः धूर्धरतां गतैः | सरागैर्वीतरागैश्च दिव्यार्यैर्मनुजैस्तदा || चितामारोपितं वीरं बुद्धमादित्यबान्धवम् | देवदेवं तदा श्रेष्ठं मुनीनां सत्तमं प्रभुम् || परिवारित समन्ताद् वै भूपालैर्दीपवासिभिः | तृणोल्कैर्गृहीतसंहस्तैः मल्लैश्चापि मनुजेश्वरैः || नादीपयितुं समर्था ते देवताभिर्निवारिता | व्रतिना चैवमुक्तेन अनिरुद्धेनैव भिक्षुणा || साश्रुकण्ठं च चोत्कृष्टां विघुष्टांश्चैव मेदिनीम् | हाहाकाररवं घोरं दुन्दुभीनां च नादितम् || दिव्यं ऋषिगणाकीर्णं अप्सरां गणसंस्तुतम् | सिद्धविद्याधरीगीतं किन्नरोद्गीतं च तद् वनम् || मधुराकूजितोद्घुष्टं पक्षिणां रुदितं शुभम् | चित्रं मनोज्ञवादित्रं दिव्यमानुष्यनादितम् || अप्सरां गणसङ्गीतं सिद्धविद्याधरोचितम् | योगिभिः सर्वतः कीर्णं अभूत् सालवनं वनम् || समन्तात् परिवृतं श्रेष्ठं शयानं मुनिपुङ्गवम् | ततोर्ध्वं निःश्वस्य सशोको वै वीतशोको || अश्रुबिन्दुं प्रमुञ्चं वै श्रमणः काश्यपस्तदा | अग्रश्रावको मह्यं पृथिव्या मा वर्तते तदा || वाचं चाभाषते क्षिप्रं अहो कष्टं प्रवर्तते | य*(?) नाम तथा बुद्धाः परिनिर्वर्त्य नाश्रवाः || अनित्यं दुःखशून्यं तु इह तेनैव भाषितम् | न दृष्टो ****(?)तो विश्वं अ****(?)नुवर्तिनम् || प्द्f ४५, प्. ५९०) ततोत्थाय ततः क्षिप्रं मगधानां नृपतिं व्रजेत् | अजातशत्रुं दुःखार्त्तं पितृशोकसमर्पितम् || गृहं तस्य तदा गत्वा तमुवाच नराधिपम् | निर्वृतोऽसौ महाराज ! सम्बुद्धो द्विपदोत्तमः || क्षिप्र योजय मानं तु गच्छामो शास्तुमन्तिकम् | धरणिस्थं शयानं वै निर्ज्वरं गतचेतसम् || सर्ववैरभयातीतं सम्भोग्यं कायसप्तमम् | श्रुत्वा तद्वचनं क्रूरं सुदुःखी सौ नृपतिः पुनः || अन्तः प्रलापं क्रन्दन्तः वाचां भाषे तदा नृप | उभाभ्यामपि भ्रष्टोऽहं शास्तुनो पितरस्य च || सर्वैर्बान्धवै त्यक्त्वा अविश्वास्योऽहं तथा जने | पतितोऽहं घोरनरकं कः शरण्यं वृणोम्यहम् || परित्रायस्व महावीर श्रावकः शास्तुमग्रकः | महाकाश्यपो महातेजा नास्ति मे जीवितं इह || इत्येवमुक्त्वा तु नृपो मुख्यो मागधानां नराधिपः | प्रपतितः तत्क्षणामुर्व्यां अग्रश्रावकपादयोः || निश्चेष्टो मूर्च्छितस्तत्र सहसा शयते महीम् | त्वं कुमार तदा कालं मञ्जुघोष महर्द्धिक || समन्ताद् विचरसे लोकां सत्त्वानुग्रहकाम्यया | चितामारोपिते देहे मम स्थाने वने तदा || मन्त्र त्वं निषण्णोऽभूद् बोधिसत्त्वगणावृतः | मच्छरीरं हि पूजार्थं त्वया कृत्वेह महीतले || समन्तादलोकयसे भूतां को हि दुःखी कमुद्धरेत् | इत्यहं पतितो भूमौ कुमारो गम्भीरतथ्यधीः || मञ्जुश्रिया थ त्वया**(?) भूपालस्यातिदुःखिते | तत्रस्योऽपि त्वया तस्य त्वयैव विनयिनोऽसौ || प्द्f ४६, प्. ५९१) बोधिसत्त्वावगम्यो यो न तच्छक्यं महर्द्धिकैः | दैवतै ऋषिभिश्चान्यैः प्रत्येकार्हश्रावकैः || तत्रस्थः स्वप्नवत्पश्येन्मञ्जुघोषं नराधिपम् | त्वयैव ऋद्धिमाविष्टः स राजा शोकमूर्च्छितः || पश्यतेऽसौ तदा स्वप्ने प्रत्यक्षं च बालिनम् | कुमारं विश्वमात्मानं मञ्जुघोष महर्द्धिकम् || विकुर्वन्तं तथा धर्मं बोधिसत्त्वं सवालकम् | विचित्रं अचिन्त्यतां ऋद्धिं मञ्जुश्रीः त्वत्प्रसादतः || अवीचिगमनं नृपतेः उत्थानं च सत्त्वरम् | विविधां धर्मतांश्चैव अपायं नाशशोभनम् || गतिमाहात्म्यगुणांश्चैव सर्वश्रावकवर्जिताम् | विस्तरेण ततः कृत्वा सूत्रकौ कृत्यनाशनम् || अजातशत्रोर्नृपतेः विनोदं सूत्रकौ कृत्यनाशनम् || अजातशत्रोर्नृपतेः विनोदं चातिविस्तरम् | समासेन इदं प्रोक्तं विस्तरार्थार्थभूषितम् || वचनं सर्वबुद्धानां आदिमध्यावसायिनाम् | सर्वसत्त्वहितार्थाय भाषितः कल्पविस्तरः || त्वं कुमार तदा काले मञ्जुश्रीर्वच सर्वतः | विनेष्यसि महीपालां पापकर्मानुवर्तिनाम् || अचिन्त्यं ते ऋद्धिविषयं विनेयं वापि अचिन्तितम् | सर्वभूतगणांश्चैव त्वं विनेता भविष्यसि || इत्येवमुक्त्वा महावीरो बुद्धानां च महाद्युतिम् | मञ्जुघोषं तदा काले शुद्धावासोपरिस्थितम् || उवाच वदतां श्रेष्ठः सम्बुद्धो द्विपदोत्तमः | भविष्यसि त्वं सम्बुद्ध बहुकल्पाभिनिर्गतैः || अचिन्त्यैर्गणनास****(?)नुषैर्गणनासमैः | मञ्जुध्वजोऽथ नामो वै बुद्धा लोके भविष्यसि || प्द्f ४७, प्. ५९२) बुद्धकृत्यं तदा कृत्वा अनुपूर्वेण वो सदा | विमोच्यथ बहुं सत्त्वां परिनिर्वाणं ते भविष्यति || इत्युक्त कुमारो वै बालरूपी महर्द्धिकः | स दीर्घं निःश्वस्य संविग्नः करुणाविष्टचेतसा || चिरमालोक्य सम्बुद्धं साश्रुबिन्दून् मुमूच्चचु | सप्रणामाञ्जलिपुटः निषसाद ततः पुनः || ततो क्ष्मातलाधस्थः अजाताख्यो नृपोत्तमः | प्रणम्य शिरसा विप्रं महाकाश्यपमद्भुतम् || विबुद्धश्चेतनायातं पादौ वन्द्य अग्रणः | निःश्वस्य च चिरं कालं विस्तरार्थं निवेद्य च || निषण्णो नृपतेः पुत्रः अजाताख्यो मगधेश्वरः | महाकाश्यपं ततो वव्रे गच्छामोस्तं चितालयम् || पूजितं चैत्यबिम्बस्थं उपकारार्हमानुषाम् | तत्रस्थः श्रावको ह्यग्रः ऋद्ध्या चैवमुपागमम् || तस्योत्वहृते चित्तं अयुक्तं मम ऋद्धिये | पद्भ्यां गन्तुमिच्छामि महाचैत्तं समागमम् || अपश्चिमे गतिः शास्तुः दर्शनार्थं तु मागमम् | ततोऽर्धपथे तस्थुः सङ्घाराते तु स व्रती || यावत् पश्यते तत्र सङ्घारामनिवासिनम् | महल्लं भिक्षुनवकमुमायसत्त्वं विमोइतम् || स दृष्ट्वा उपसङ्क्रान्त महल्लो तं चिरोषिणम् | महेशाख्यं महाभागं शुद्धसत्त्वनिरामयम् || उपसङ्क्रम्य तं विप्रं वन्दित्वा पादयोस्तदा | उवाच तं महाभागं स्वागतं ते किमागतम् || कुत्र वा यास्यते क्षिप्रं उद्विग्नो वा *(?) वतिष्ठसे | उवाच सो तं ऋषिं तं बालं आयुष्मं न श्रुतं त्वया || प्द्f ४८, प्. ५९३) शास्ता वै सर्वलोकस्य सम्बुद्धो द्विपदोत्तमः | पिता मे अग्रधीः बुद्धः प्रदीपार्चिरिव निर्वृतः || अस्तं गतो महावीरः शून्यीभूता हि मेदिनी | सर्वशून्यास्तथा लोकाः शून्या भूताश्च मे दिशाः || ततः प्रहृष्टो महल्लोऽसौ विपरीतो बालचेतनः | प्रसह्य वचनं चाह निर्वृतोऽसौ प्रदीर्घकः || प्रलम्बबाहुरत्युच्चच्छत्राकारसमशिरः | अस्माकं नायको ह्यग्रः शिक्षाशिक्षसुवर्तिनः || यथेष्टं विचरिष्यामि साम्प्रतं तेन निवृते | इत्येवमुक्तो महल्लेन प्रहृष्टोऽसौ महर्द्धिकः || भृकुटिं कृत्वा ततो वक्त्रे हुङ्कारोऽसौ प्रयोजयेत् | रुरुष्य तत्क्षणाद् विप्रः वासनाभावितो यतिः || हन्यान्महीतले तत्र पादाङ्गुष्ठेन तत्क्षणात् | सर्वं प्रचलिता उर्वी पर्वतोच्चाः समो रवः || क्षुभिताः सागराः सर्वे सर्वे वृक्षाश्च पर्वताः | कन्दरा गुहविन्यस्ता नागराजाश्च देवता || नष्टा लोका मही तस्मिं काले चन्द्रभास्करौ | निवाता वा ततस्तस्थुः उल्काश्चापि पपेतुरे || ततोऽसौ मन्त्रमिति ख्यातः श्रावकाणां कुलोद्भवम् | एकाक्षरः सहुङ्कारः सर्वकर्मकरः शुभः || असाधितोऽपि करोत्येष जापमात्रेण मन्त्रराट् | सर्वशस्त्रंस्तथा स्तम्भं विषं स्थावरजङ्गमम् || सर्वेषांदुष्टसत्त्वानां जापमात्रेण स्तम्भनः | करोति कर्मवैचित्र्यं अन्यांश्चैव विशेषतः || ****(?) महल्लकस्तत्र तूष्णीम्भूतो ह्यतो गतः | ऋद्ध्या वावर्जितस्तेन विनयित्वा च तत्क्षणात् || प्द्f ४९, प्. ५९४) श्रावकेण तदाग्रेण नीतोऽसौ चितिसन्निधौ | पद्भ्यां गतो हि सो भिक्षुः वीतरागो महर्द्धिकः || गत्वासौ पश्यते तत्र मुनिनो देहचिताश्रिताम् | अनेकधा दैवसङ्घैस्तु महापूजां प्रवर्तिताम् || विविधाकारवरोपेतां सर्वाकारसुभूषिताम् | चितामारोपितं देहं मुनिनो गौतमस्य वै || दृष्ट्वा तु तं महाभागं महाकाश्यपमद्भुतम् | सर्वे ते वीतदोषा वै भिक्षवश्च महर्द्धिकाः || सर्वे देवगणा भूताः हाहाकारं प्रमुञ्च्य च | आक्रन्द्य च महच्छब्दं रवं चापि सुशोकजम् || प्रत्युद्गम्य ततः सर्वे देवनागा महर्द्धिकाः | उवाच तं महाभागं वन्दस्व द्विपदोत्तमम् || तवैचोदीक्षणं तं विश्वा देवसङ्घा समानुषाः | सर्वे भूतगणाश्चैव ऋषयक्षनराधिपाः || पितादीपनतं निष्ठा अशक्ता दीपयितुं चिताम् | ततोऽसौ वीतदोषस्तु महाभोगो महर्द्धिकः || कृत्वा प्रदक्षिणं बाहु बहुधानुस्मृत्य तथागतम् | चितान्ते अन्तिमे भागे वन्दतेऽसौ महर्द्धिकः || आयसीं च तदा द्रोणीं भित्वा पादौ विनिर्गतौ | वन्दित्वा पादयोर्मूर्ध्ना परामृश्य पुनः पुनः || उद्वीक्ष्य बहुधा तत्र चरणौ मुनिवरे वरौ | प्रविष्टा भूयसस्तत्र आयसीं द्रोणिमाश्रितौ || निषण्णोऽसौ ततोत्थाय वीतरागो महर्द्धिकः | परिवारोऽथ अर्हन्तैः वीतरागैर्महर्द्धिभिः || राजा मागधो मुख्यः आगतोऽसौ चितान्तिके | अनुपूर्व्या तथा **(?) हस्त्यश्वरथवाहनैः || प्द्f ५०, प्. ५९५) महासैन्या थ भूपालाः सर्वे सबलवाहनाः | आगता वन्दितुं तत्र मुनिं शाक्यमुनिं तदा || शयानं भूतले शान्ते प्रान्तेऽरण्ये | नद्या हिरण्यवतीतीरे चैत्ये मकुटबन्धने || शान्तधातुसमाविष्टे भूतकोटिसमासृते | मागधो नृपतिस्तत्र महासैन्यसमागतः || सोऽपि पश्यति तं दिव्यं विविधाकारचेष्टितम् | महानुशंसं प्रभावं च आश्चर्यं भुवि मण्डनम् || चैत्तदेहजं तत्र चितामारोपितं मुनिम् | आनन्दो नामतो भिक्षुः सुशैक्षे परिचारकः || यमेव मनुजं श्रेष्ठं वत्सलो मे सदा रतः | भविष्यति तदा काले आर्त्ते विक्लबमानसः || महाकाश्यपं ततो गत्य पादयोर्निपतितो भुवि | एवं चोवाच दुःखार्तः वेपथुन्ते सगद्गदः || अद्य मे निर्वृतः शास्ता अनाथोऽहं स साम्प्रतम् | सतिमेलयनं त्राणं त्वमेव परिकीर्त्तितः || तेनैव मुनिचन्द्रेण व्याकृतोऽहं तवान्तिके | सर्वक्लेशप्रहाणां तु अर्हत्वं त्वमन्तिके || रात्र्यां पश्चिमे यामे निर्दिष्टं तेन जिनेन वै | त्रियते तुभ्य नित्यं वै मयैव परिनिर्वृतः || बुद्ध कृत्यार्थ तुभ्यं वै कृतं तेन हितैषिणा | मयापि दुःखितः त्यक्त्वा शान्तियातो महामुनिः || अनिरुद्धो नामतो धीमां समाश्वासयति तं यतिम् | मा रोदन्तथा शोचं मा शोकं च समाविश || मा व्रजल्ल**(?)स्थानं एतमेव समाश्रय | एष एव भवेच्छास्ता निर्वृते लोकचक्षुषे || प्द्f ५१, प्. ५९६) मुनिना व्याकृतो ह्यत्र बुद्धकृत्यं करिष्यति | वयं च भवता सार्धं अनुयास्याम काश्यपम् || ऋद्धिमात्रं महाभागं तेजवन्तं महद्युतिम् | द्वितीयमिव शास्तारं प्रतिबिम्बं महीतले || महाकाश्यपमुख्यं तु श्रावकाणां महर्द्धिकम् | तिष्ठन्तं ध्रियमाणं वै मा शोकं चेत्तु वै कृथा || एवमालापिनः सर्वे करुणाविष्टा महर्द्धिका | वीतरागा महायोगा मुनिपुत्रा निषण्णवाम् || चितामादीपितो तैस्तु मल्लैश्चापि नराधिपैः | आदीप्ते तु समन्ता वै भस्मीभूतं तु तं चितम् || तं दृष्ट्वा देवसङ्घा तु भोगवन्तो महोरगाः | शान्तये तच्चितास्थानं चन्दनोदकवारिणा || महावर्षं प्रमुञ्चन्ता स्थिता भूयोऽथ तत्क्षणात् | महापुष्पौघमुत्सृज्य पुनरेव महीतले || आगता तत्क्षणात् सर्वे जिनधातुं सुपूजना | सर्वे परस्परं युद्धं कर्तुमारब्ध तत्क्षणात् || ब्रह्माद्या शक्रयामाश्च सर्वदेवगणास्तथा | निवारिता वीतरागैस्तु श्रावकैश्च महर्द्धिकैः || माअकाश्यपेन विभज्यं वै धातवो जिनमूर्तिजा | स्तोकस्तोकानि दत्तानि पूजनार्थाय सर्वतः || त्रिधा यानपरावृत्तिं निष्ठाशान्ति च कारणात् | महाकाश्यपस्तदा योगी वीतरागो महर्द्धिकः || चिन्तयामास तं बोध्यं महल्लकस्य अभाषितम् | माहैव प्रवचनं कृत्स्नं द्वादशाङ्गं सुखोदयम् || सूत्रविनयाभिधर्मं वै धूमकालिकतां व्रजेत् | अस्तं याते महवीरे विषलोपो भविष्यति || प्द्f ५२, प्. ५९७) सङ्गातव्यमिमं कृत्स्नं वचनं बुद्धभाषितम् | गच्छामः सहिताः सर्वे वीतरागा महर्द्धिकाः || मागधानां पुरं श्रेष्ठं राजाख्यं नगरं शुभम् | कुशाग्रपुरे रम्ये पर्वते सुशिलोच्चये || वैशाल्यां च शुभे देशे चैतस्थाने सुशोभने | एवम्प्रकारा ह्यनेकांश्च शासनार्थं तु कारणात् || मल्ला पलायिनः सर्वे चक्रिरे स महर्द्धिका | तस्मिं काले युगान्ते वै अस्तं याते मया तु वै || महीपाला भविष्यन्ति परस्परविधे रता | भिक्षवो बहुकर्मान्ता सत्वा लोभमूर्च्छिता || अश्राद्धा युगान्ते वै उपासकोपासिकास्तथा | परस्परवधासक्ताः परस्परगवेषिणः || छिद्रप्रहारिणो नित्यं सव्रणा दोषदस्तथा | भिक्षवो ह्यसंयतास्तत्र मुनिरस्तं गते युगे || स्थापिता रक्षणार्थाय शासनं भुवि मे तदा | अष्टौ महर्द्धिका लोके वीतरागा निराश्रवाः || अर्हन्तः तदा ज्येष्ठा राहुलाद्या प्रकीर्त्तिता | तेषां दर्शनं नास्ति तस्मिं काले युमाधमे || अमोघं दर्शनं तेषां सिद्धिकाले तु मन्त्रिणाम् | मयात्र स्थापिताः सर्वे ऋद्धिमन्त्रो महर्द्धिकाः || प्रणिहितं मया तेषां दण्डकर्ममहायशाम् | आज्ञोल्लङ्घनं तेषां किञ्चिच्छिष्या व्यतिक्रमे || तिष्ठध्वं यावत् सद्धर्मं भूतकोटिं निरामिषम् | मम वाक्यमिदं पुण्यं यावद् धुष्यते तले || गतः शा*(?) निरात्मनः परिनिर्वाथ निराश्रवाः | ****(?) तदा काले शासनान्तर्हिते मुनौ || प्द्f ५३, प्. ५९८) भिक्षाभिक्षुकाः सर्वे भिक्षुण्यश्च सुमत्सराः | तर्कुकाः कुत्सिता नित्यं परिभूता तदा युगे || सुस्थिता शासने मह्यं गृहदारगवेषिणः | उपासकाश्च तदा काले परदारसदारताः सदा || चिह्नमात्रं तदा संज्ञा परिशेष्वेव चतुर्विधे | वैराभ्यासरताः सर्वे परस्परविहेठकाः || तीर्थिका क्रान्तभूयिष्ठा सर्वाक्रान्ता च मेदिनी | भविष्यन्ति तदा काले द्विजवर्णरता जना || मिथ्याचारा तथा मूढा प्राणिहिंसारता नरा | मया तु परिनिर्वाणो व्याकृतोऽयं कलौ युगे || बहुनार्या नराश्चैव परदाररताः सदा | अकुशलेषु रताः सर्वे कुशलार्थार्थवर्जिताः || बहुसत्त्वा भविष्यन्ति मयि शान्तगते भुवि | ममैतच्छरीरपूजा तु देवसङ्घा महोजसा || मनुष्याश्चैव महात्मानो यक्षभूतगणास्तथा | असुरा अथ गन्धर्वा किन्नराश्च महर्द्धिकाः || गरुडा अथ गन्धर्वा राक्षसा ऋषयस्तथा | सिद्धा योगिनश्चैव महोजसा || विविधाकारसत्त्वास्तु विविधां गतियोनिजाः | भवसूत्रनिबद्धास्तु च्छिन्नबन्धनधीमता || करिष्यति तदा पूजां शरीरेऽस्मिं गतिज्वरे | नदीहिरण्यवतीतीरे यमकशालवने वने || चैत्ये मकुटबन्धे तु मल्लानामुपवर्तने | परिनिर्वृते च तत्राहं शान्तिं गच्छेद् भयवर्जिताम् || ममैतद् धातु ****(?) हृयमाणैः परैस्तदा | देवैश्च रसुरैश्चापि सर्वभूतगणैस्तथा || प्द्f ५४, प्. ५९९) विभज्य स पृथग् भागेषु व्यस्तं कारिता अभूत् | मनुष्यराजा महासैन्यः अजाताख्यो मागधस्तदा || प्रर्थयामास सर्वेषां श्रावकां सुमहर्द्धिकाम् | ममाप्यकृतपुण्यस्य पितुर्मरणकारिणः || अभ्युद्धरथ महात्मानं दुःखितं पतितं तु माम् | ततोऽग्र्यः श्रावको धीमां बुद्धस्य सुतमौरसः || महाकाश्यपेति विख्यातः प्रजानां हितकारकः | तं तु दृष्ट्वाथ वैक्लव्यं अजाताख्यास्य धीमतः || समन्वाहरति तत्कालं ऋद्ध्या चैवमधिष्ठयेत् | भागैकं गृह्णयामास सधातूनां जिननिःश्रिताम् || अन्येदपहृतादन्यैः भोगिभिश्च महाबलैः | अन्योन्यरभसात् क्षोभं कृत्वा चैव परस्परम् || नीत्वा धातुं तदाकाशैः स्वगृहं चापि तस्थुते | महाकाश्यपो तदा भिक्षुः अग्रश्रावकः तदा मुनिः || चिन्तयामास * * * * * * * * * * * (?) | अहो कष्टं मनुष्येषु शून्योऽयं भुवि मण्डले || बुद्धैः प्रत्येकबुद्धैस्तु श्रावकैश्च महर्द्धिकैः | आलोकहीना सत्त्वा वै भवचारकचारिणा || ते दुःखां विविधां तीव्रां अनुभविष्यति ते चिरम् | धातुं पूजयित्वा तु लोकनाथस्य तापिने || अनुभविष्यन्ति ते सौख्यं देवलोकमनल्पकम् | राज्यं च मथ भोगांश्च मन्त्रसिद्धिसुदुर्लभाम् || प्राप्स्यन्ति विविधाकारां विचित्रगतिचेष्टिताम् | लोकस्याग्रा*(?)पदामिष्टां त्रिधा मोक्षभूषिताम् || पूजयित्वात् **(?)नां प्राप्नुयात् सिद्धिमुत्तमाम् | एवं चिन्तयित्वा तु ब्राह्माणः लोकविश्रुतः || प्द्f ५५, प्. ६००) श्रावको मुनिवरे ज्येष्ठः काश्यपो नाम नामतः | सङ्गृह्य च तदा धातुं संविभर्त्ति तदा भुवि || स्तोकं दत्वाजाताख्ये मागधस्यैव यत्नतः | एवं नराधिपेषु सर्वेषु अष्टेष्वपि महाद्युतिः || सर्वेभ्यः सर्वतो दद्याच्छ्रावकोऽसौ महात्मनः | पुनरेव भवस्तस्थौ अनित्यसंज्ञमभावत || शोचयामास सत्त्वानां करुणाविष्टेन चेतसा | रोदिष्यन्ति चिरं सत्त्वा कल्पां बहुविधां तथा || सद्धर्भिन्तर्धितै लोके शास्तुनो शाक्यपुङ्गवे | सङ्गातव्यमिमं वाच्यं माहैवं धूमकालिकम् || ततोऽभ्युत्थितवां वीरः प्रभावामृतचेतसः | आमन्त्रयामास मन्त्रजेन्द्रं अजाताख्यं नराधिपम् || गच्छामो राजगृहं नगरं शास्तुशासनसत्कृथा | गाथकुम्भसुविन्यस्तां धातुं प्रक्षिप्य यत्नतः || तेऽत्र पूर्वेण आयाता क्षिप्रं राजगृहं तदा | स्थानं वेणुवनं प्राप्य स्थापयामास जिनोद्भवाम् || स्तूपं महाद्भुतं कृत्वासौ लोकनाथस्य तापिने | पूजयामास तं स्तूपं विविधाकारभूषणैः || माल्यचीवरच्छत्रैश्च चूर्णगन्धैस्तु धूपनैः | छत्रैः पताकैर्विचित्रैश्च घण्टामाल्यविलेपनैः || अनेकाकारविचित्रैस्तु दीपमालाभि स्रग्मिभिः | पूजां कृत्वा महीपाल प्रणामगतचेतसः || मूर्ध्ना प्रणम्य तं स्तूपं प्रणिधिं चक्रिरे तदा | लोकाग्रं पूजयित्वा तु यन्मया कुशलं बहु || अनेकताथागतीपूजा **(?)याहमचिन्तिया | उत्थाय ततो राजा महाकाश्यपमब्रवीत् || प्द्f ५६, प्. ६०१) अश्रु सम्परामृज्य वाष्पाकुलितलोचनः | कृपाविष्टहृदयः पितरं संस्मरेत् तदा || आर्यो मे महाप्राज्ञः साक्षिभूतो भवस्व माम् | यन्मया कारितं पापं नियतावीचिपरायणम् || तादृशं धर्मराजं तु शास्तुर्वचनपथे स्थितम् | घातयित्वा तु तं पितरं न शक्नोमि विनोदितुम् || कल्याणमित्र आर्यो मे धर्मार्थं देष्टुमर्हति | एवमुक्तो माअत्मासौ अग्रश्रावकौ जिने || काश्यपो नामतः धीमां इमं वाचमुदीरयेत् | मा भैष्ट महाराज कृतं ते कुशलं बहु || अस्ति ते जन्मिनोऽभ्यासः अनेकशतधा पुरा | बुद्धानामनुत्पादा प्रत्येकजिनसम्भवः || नगर्या वाराणस्यां श्रेष्ठिपुत्र अभूत् तदा | अज्ञानाद् बालचापल्याद् रथ्यायां निर्ययौ तदा || स एव भगवं तत्र प्रत्येकजिनमागतः | भिक्षार्थी हिण्डते तत्र लोकानुग्रहकाम्यया || बालस्य दृष्ट्वा तं प्रसन्नगतमानसम् | पादयोर्निपत्य पप्रच्छ किं करिष्यसि तैर्भिक्षु || तूष्णीमेव स्थितो भगवां खड्गकल्पमसम्भव | तदा तेन तु बालेन चीवरे गृह्यमस्थित || गच्छ गच्छ इमं श्रेष्ठं मन्दिरं ध्वजभूषितम् | अस्माकनेतदावासं पादौ प्रक्षाल्य भोक्षसे || भुक्ष्व क्षिप्रं यथाकामं क्रीडिप्यामो यथेष्टतः | ततोऽसौ वीतदोषस्तु त्रिमलान्तकघातकः || *****(?) ययौ तत्र परानुग्रहतत्परः | **(?) हारमूलेऽस्मिं स्थित एव महाद्युतिः || प्द्f ५७, प्. ६०२) ततस्तेन तु बालेन प्रविशित्वा अम्ब उच्यते | देहि भक्ष मया अम्ब भिक्षांश्च विविधां बहूम् || मित्रो मे ह्यागतो ह्यत्र पांसुक्रीडनकश्चिरात् | मोदिष्यसि चिरं तेन तिष्ठते द्वारमागतः || तदा स त्वरमाना तु द्वारं निर्ययु तत्क्षणात् | पश्यते तं महाभागं शान्तवेषं महर्द्धिकम् || तदा सा क्षिप्रमागत्य गृहीत्वा भाजनं शुभम् | सुप्रक्षाल्य ततो हस्तौ * * * * * * * * (?) || गृहीत्वा ओदनं चौक्षमनेकरसभूषितम् | विविधाकारभक्षांश्च भाजने न्यस्य राजते || आगम्य च तदा क्षिप्रं पात्रे निवेद्य च | पादयोर्निपतिता सा तु ससुता धर्मवत्सला || गृहीत्वासौ पिण्डपातं तु आकाशे अभ्यगच्छत | ततोऽसौ ज्वलमानस्तु दीपमालेव दृश्यते || तेन तेषां वाचिको धर्म विद्यते खड्गचारिणाम् | प्रभाव ऋद्धिसत्त्वानां दर्शयन्ति महात्मनः || अतिकारुणिका तेऽपि सत्त्वेभ्यो गतमत्सराः | परलोकार्थं तु सत्त्वेभ्य. ऋद्धिं सन्दर्शयन्ति ते || तेन कर्मविपाकेन मात्रया सह बालकः | पञ्चजन्मसहस्राणि देवत्वमथ कारयेत् || देवानां देवराजासौ सा एव जननी अभूत् | अमनुष्याणां चक्रवर्त्तित्वं मनुजेश अभूत् तदा || अनुभूय चिरं सौख्यं बिम्बासारसुतो इह | यस्ते आकर्षितो भगवां चीवरान्तेऽथ गृह्य च || वाचा दुर्भाषिता उक्ता भिक्षुवादेन चोदितः | पांसुक्रीडनको मह्य भयस्वेति पुरा तदा || प्द्f ५८, प्. ६०३) वाचो गतस्य कर्मस्य अनिष्टस्य कटुकस्य च | तीव्रं प्रतापनादुःखं अनुभूय चिरं बहु || नरके पतितो घोरे अनीप्सको दुःखदुःसहम् | कर्मपाशानुबद्धास्तु सत्त्वा गच्छन्ति दुर्गतिम् || हसद्भिः क्रियते कर्म रुदद्भिरनुभूयते | पूर्वं वालिशभावेन प्रत्येकजिनतापिने || वाचा निश्चारिता दुष्टा तस्य कर्मस्य ईदृशम् | नरकेभ्यः व्यसित्वा तु मनुष्यत्वमिहागतः || नारके चेतना ह्यासीद् विपाकजाते नराधिप | तेन तीव्रेण रोषेण जीविता ते द्वतपूर्विकाम् || पूर्विकां वासनां स्मृत्वा प्रत्येकजिनचारिणीम् | सम्मुखं दर्शितो बुद्धः पूज्यश्चैवमकारिता || तेनैव हेतुना ह्यासीद् राज्यत्वमिह कारय | एवं वेणुवने तेषां अन्योन्या संलपेद् भुवि || एकश्च अग्रशिष्यो मे द्वितीयः स नराधिप ! | प्रणम्य शतधा स्तूपं स्वगृहेणैव ययौ तदा || ततोऽसौ शिष्यमुख्यैर्मे पिप्पलागुहवासिनः | सन्निपात्य मुनिं सर्वां वीतरागां महर्द्धिकाम् || द्वादशाङ्गं प्रवचनं कृत्स्नं विनयं चैवमगायत | तन्मया कथितो धर्मः पूर्वं जिनवरैस्तथा || स तेन शिष्यवराग्रेण त्रिप्रकारं समादिशेत् | ग्रथनं सूत्रभेदेन विनये वाभिधर्मतः || तृबन्धान्मोचयेत् सत्त्वां त्रिदोषां चापि शोषयेत् | तृदुखान्मुक्तवां धीरः त्रियानं स्थापयेत् तदा || शासनार्थं तु ***(?) *** (?) अग्रधीः | महाराजा**(?)विख्यातो मागधेयो नराधिपः || प्द्f ५९, प्. ६०४) यावदादङ्गपर्यन्तं वारणस्यामतत्परम् | उत्तरेण तु वैशाल्यां राजा सोऽथ महाबलः || भविष्यति न सन्देहः शासनार्थं करिष्यति | त्वया कुमार ! निर्दिष्टः व्याकृतः शान्तिमुत्तमे || तस्यापि सुतो राजा उकाराख्यः प्रकीर्त्तितः | भविष्यति तदा क्षिप्रं शासनार्थं च उद्यतः || तदेतत् प्रवचनं शास्तु लिखापयिष्यति विस्तरम् | पूजांश्च महतीं कृत्वा दिक्समन्तान्नयिष्यति || न चास्य दुर्गतिं चास्य देवेषूपपत्स्यते | विंशद् वर्षाणि त्रिंशच्च पितृणा सह जन्मिनः || वेलायामर्धरात्रे तु पञ्चत्वं यास्यते तदा | गोत्रजेनैव रोगेण अभिभूतोऽसौ भविष्यति || महारोगेण दुःखार्त्तः दिवसानि षड्विंशति | समस्तव्याधिग्रस्तोऽसौ विविधाकारमूर्छितः || च्युतोऽसौ नरपतिः क्षिप्र देशेषूपपत्स्यते | नियतं प्राप्स्यते बोधि सोऽनुपूर्वेण यत्नतः || एते चान्ये च बहवः अतीता येऽप्यनागता | कृत्वा तु विविधां कारां प्रत्येकजिनतापिषु || इष्टां विशिष्टां सम्पत्तिं दिव्यामानुषिकांस्तथा | तेऽनुपूर्वेण गच्छन्ति शान्तिं निर्जरसम्पदम् || हीनोत्कृष्टराजानो मध्यमाश्च नराधिपाः | आद्ये तु युगे कथिता नहुपाद्या पार्थिवादयः || बुधशुक्रोदयो नित्यं मन्त्रसिद्धा नराधिपा | शान्तनुश्चित्रसुचित्रश्च पाण्डवा सनराधिपाः || ***(?) वारयत्याश्च रि*****(?)मित्रा तदा | कार्तिकः कार्त्तवीर्योऽसौ ******(?)शरथी पुरा || अर्जुनः सिद्धमन्त्रस्तु द्विद्रोणसुतोऽपरः | अश्वत्थामा परा मन्त्री साधयामास मन्त्रराट् || प्द्f ६०, प्. ६०५) शास्तुमूर्जितमन्त्रास्त्रैः क्ष्मापत्यं कारयेत् तदा | समन्तात् त्रिषु द्वीपेषु जम्बूद्वीपगता तदा || देवकारांश्चैव मन्त्राणि पार्थिवादयः | तेऽपि ताथागतिं पूजां अनुमोद्या दिविं गताः || बुद्धत्वनियता तेऽपि केचित् प्रत्येकयानिका | श्रावकत्वनियता केचित् सर्वे ते मोक्षपरायणाः || कालव्यस्थानुरूपेण आयुषश्च विकल्पते | उत्तमा दीर्धमानुष्ये मध्या मध्यमके तथा || अन्तिमे तु युगे कष्टे कलिप्राप्ते युगाधमे | * * * * * * * * (?) पार्थिवा तु कलिप्रियाः || अन्योऽन्य वैरसंसक्ता परस्परविहेढकाः | नीचोत्पत्तिमायाताः शस्त्रसम्पातमृत्तवः || शस्त्रप्रवृत्तिसमुत्साहा परदाराभिरतस्तदा | भविष्यन्ति न सन्देहः भूपाला लोककुत्सिताः || धूर्ता निकृष्टकर्माणः अनार्या मत्सरिणस्तथा | भविष्यन्ति तदा काले मध्ये द्वापरयो कलौ || संक्षेपेण तु वक्ष्यामि कुमारस्तं नोबिधत | वर्तमाने तु यत्काले पार्थिवा भुवि मण्डले || तेषां तु रूपचिह्नानि वर्णतश्च निबोधताम् | प्रसेनजित् कोसलो राजा बिम्बिसारस्तथापरः || उदयनः क्षत्रियश्रेष्ठः शतानीकसमुद्भवः | सुबाहुः सुधनख्यातो महेन्द्रचन्द्रसमस्तथा || लिच्छवीनां तथा जातः सिंहो वैशाल्यमुद्भव | उदाविद्योतमुद्योतमहासेनश्च कथ्यते || उज्जयन्यां तथा चण्डः कपिलाह्वे पुरे नृपः | राजा शुद्धोदनश्चैव वैराटाख्यो महाबलः || प्द्f ६१, प्. ६०६) इत्येते क्षत्रियाः प्रोक्ता महीपालाः शास्तु पूजकाः | सम्मुखं बुद्ध पश्यन्ति शाक्यसिंहे नरोत्तमम् || धर्मं श्रुत्वा ततस्तेऽपि चिरं प्राप्स्यन्ति सम्पदाम् | नियतं मोक्षकामास्तु शान्तिं प्राप्स्यन्ति तेऽपि ताम् || इत्येते लोकविख्याता भूपाला क्षितिमण्डले | वर्णतः क्षत्रियः प्रोक्तः चिह्नतो नामसंज्ञितः || पूजयिष्यति ते वाक्यं मयैव कथितं भुवि | त्वयैव व्याकृतो लोके कुमारो बालरूपिणः || अजाताख्यो नामसौ नियतं बोधिपरायणः | मयि वर्षशते परिनिर्वृते भुवि मण्डले || निरालोके निरानन्दे अज्ञानतमसा वृते | भविष्यति तदा शून्या मेदिनी जिनवर्जिता || तस्मिं काले महाघोरे कुसुमाह्वे नगरे तदा | अशोको नाम विख्यातः पार्थिवो भुवि पालकः || तीव्रकारी सरोषी च निर्घृणोऽसौ भवेत् तदा | कल्याणमित्रमागम्य वीतरागं महर्द्धिकम् || भिक्षुं शीलसम्पन्नं निज्वरं गतचेतसम् | पूर्ववासनहेतुं च पांशुदानं महर्द्धिकम् || नियतं क्षेत्रसम्पन्नं पार्थिवोऽसौ महाधनः | धर्माधर्मविचारी च सघृणी कारुणिको हि सौ || हेतुमुद्घाटयामास वीतरागो महर्द्धिकः | त्वया हि नृपतेः पूर्वं अज्ञानाद् बालचापलात् || जिने शाक्यसिंहस्य पांसु अञ्जलिना तदा | पात्रे भस्मे प्रतिष्ठाप्य प्राप्ता सम्पत्तयो दिवि || देवलोकं व्यवित्वा तु पितृलोकमिहागतम् | भुक्ष्व राज्यं महीपाल ! जम्बूद्वीपं सकाननम् || प्द्f ६२, प्. ६०७) आराध्य मन्त्रं यक्षस्य जम्भलस्य महात्मने | ततो भूतरथः सिद्धः क्षितिपश्च महात्मनः || यक्षास्तस्य तिष्ठन्ते आज्ञो दीक्षितमानसाः | नागाश्चैव तिष्ठन्ते भव्याः किङ्करहेतवः || एवं महर्द्धिका धर्मात्मा बलचक्री अभूत् तदा | यथेष्टगमनं तस्य निषेद्धा न क्वचिद् भवेत् || पूर्वस्थापितकार्ये तु जिनानां धातुवरा भुवि | नगरे राजमुख्ये तु वने वेणुवने तदा || गृह्य धातुधरे धातुं कुशलालम्बनमानसः | पूजयामास तं स्तूपं यथा पौराणमकारय || गृह्यन्तं धातुकुम्भं तु विभज्य शतधा पुनः | क्षणेनैकेन मेधावी यक्षाणामाज्ञाविनिर्दिशेत् || जम्बूद्वीप इमं कृत्स्नं स्तूपालङ्कृतभूषणम् | कारयन्तु भवन्तो वै धातुगर्भां वसुन्धराम् || आज्ञाप्रतीच्छते यक्षाः अर्धरात्रे तु यत्नतः | अमानुषेयं कृतिं कृत्वा शिलायष्ट्योच्छ्रितां भुवि || अनेकस्तम्भसहस्राणि रोपयामास ते तदा | पूजनार्थं तु चैत्यानां चिह्नभूतं च देहिनाम् || कृत्वा तु विविधां स्तूपां लोकनाथेभ्य तापिषु | क्षणेनैकेन ते यक्षा नृपतेऽन्तिकमागताः || प्रणिपत्य ततो मूर्ध्ना वाचा निश्चारगुह्यकाम् | यथाज्ञप्तं कृतं सर्वं किं न पश्यसि भूते || ततोऽसौ पार्थिवः क्षिप्रं आरुरोह रथं तदा | विविधाकारपूजार्थं अनेकाकारशोभनाम् || काञ्चनं राजतं षष्ठं विविधांस्तपभूषणाम् | ततो भूतरथं क्षिप्तं पूरयामास पार्थिवः || प्द्f ६३, प्. ६०८) क्षणेनेकन तं देशं यत्र ते धातुधरा जिना | विचित्राकारपूजाभिः पूजयेत नराधिपः || शोभने मेदिनीं कृत्स्नां जिनधातुधरैस्तदा | प्रणिधिं चक्रिरे राजा धर्माशोको महात्मवान् || अनेन कुशलार्थेन बुद्धो भूमामनुत्तरः | एवं विदित्वा महात्मासौ धर्माशोको नराधिपः || मृतोऽसौ देवतां याति नियतं बोधिपरायणः | अशीतिवर्षाणि सप्तं च पूजये धातुवरां भुवि || जीवेद् वर्षशतं सार्धं कृत्वा राज्यमकण्टकम् | स्वकर्मजनितास्तस्य व्याधिरुत्पन्नदेहजे || तेनैव व्याधितो दुःखी मृतः स्वर्गोपगो भवेत् | महतीं सम्पदं प्राप्य अनुभूय दिवौकसाम् || अनुपूर्वेण मेधावी बोधिं प्राप्स्यति दुर्लभाम् | मन्त्रा सिद्ध्यन्ति तत्काले वज्राब्जकुलयोरपि || जम्भलाद्यास्तथा यक्षा अस्मिं शासनवर्त्तिनः | यक्षिण्यश्च समाख्याता हारीत्याद्या महर्द्धिकाः || चक्रवर्तिसमुत्पादे मन्त्रा सिद्ध्यन्ति चक्रिणः | जिनैस्तु कथिता ये मन्त्रा विद्याराजा महर्द्धिकाः || उष्णीषप्रभृतयः सर्वे ये चान्ये जिनभाषिताः | उत्तमां साधनां कुर्यात् तस्मिं काले सुशोभने || उत्तमैर्नाधमाः साध्या उत्तमां गतिमाशृतैः | दिलीपो नहुषश्चैव मान्धाता सगरस्तथा || साधयित्वा तु ते मन्त्रां चक्रिणां जिनभाषिताम् | तेजोराशिस्तदा सिद्धः नहुषस्य महात्मनः || राजा सितातपत्रस्तु सिद्धस्तु सगरस्य वै | दिलीपस्य तथा मन्त्रं सिद्धमेकमक्षरम् || प्द्f ६४, प्. ६०९) मान्धातस्य तथा लोके सिद्ध उष्णीषमुन्नतः | जयोष्णीषस्तथा सिद्धो धुन्धुमारे नृपोत्तमे || कन्दर्पस्य तथा राज्ञो विजयोष्णीष कथ्यते | प्रजापतिस्तस्य पुत्रो वै तस्यापि लोचना भुवि || प्रजापतेः सुतो नाभिः तस्यापि ऊर्णमुच्यति | लाभिनो ऋषभपुत्रो वै स सिद्धकर्म दृढव्रतः || तस्यापि माणिचरो यक्षः सिद्धो हैमवते गिरौ | ऋषभस्य भरतः पुत्रः सोऽपि मन्त्रान् तदा जपेत् || सोऽनुपूर्वेण सिद्धस्तु महावीरं भुवि स्तदा | एते चाऽन्ये च बहवः पार्थिवा लोकविश्रुताः || साधयित्वा तु मन्त्राणां राज्यं कृत्वा दिवं गताः | जिनेन्द्रैर्ये तु उक्तानि विद्याराजा महर्द्धिकाः || ते सर्वे शोभने काले युगेऽशीतिसहस्रगे | सिद्धाः साधयिष्यन्ति मन्त्रतन्त्रार्थकोविदाः || एते चान्ये च बहवः पार्थिवा लोकविश्रुताः | ततोऽशीतिसहस्राणि वर्षाणां शतमेव व || राज्यं कृत्वा ततः स्वर्ग नियतं बोधिपरायणाः | मध्यमे तु तदा काले दिव्यामाश्चर्यमहर्द्धिकाः || मन्त्राः सिद्धिमेवासुरब्जपाणिसमोदिताः | मन्त्रिभिर्नरमुख्यैस्तु भूपालैः सार्धभूमिकैः || राजा च ब्रह्मदत्तो वै वाराणस्यां महापुरे | सिद्धः अब्जपाणिस्तु लोकीशो लोकविश्रुतः || महावीर्यो महात्मासौ अतिकारुणिको महान् | सत्त्वानां मन्त्ररूपेण दिदेश धर्मदेशनाम् || **(?) ब्रह्मदत्तेन अनुभू**(?)नुषं सुखम् | **(?)सो सिद्धमन्त्रस्तु सद***(?)माविशेत् || प्द्f ६५, प्. ६१०) तस्यापि च सुतो धीमान् पुण्यकर्मा दृढव्रतः | तस्यापि सिद्धो महावीर्यो हर्याख्येति विश्रुतः || तेन मन्त्रप्रभावेन जितः शक्र अभूत् तदा | तस्यापि सुतः श्वेताख्यो राजाभूत् सर्वदस्तदा || तस्यापि वरदा मन्त्रा महाश्वेता नाम नामतः | साधयित्वा तु तां मन्त्रं जीवेद् वर्षशतत्रयम् || तेन मन्त्रप्रभावेन सुखावत्या स गच्छति | नियतं बोधिमेवास्य ये चान्ये व्याहृता मया || मध्यमे तु तदा काले मध्यमन्त्रांस्तु साधयेत् | अधमेऽतियुगे कष्टे मयि बुद्धत्वमागते || मन्त्राः सिद्धिं प्रयास्यन्ति वज्राब्जकुलयोरपि | त्वया कुमार ! मन्त्रा वै ये पूर्वं कथिता भुवि || तेऽपि सिद्धिं प्रयास्यन्ति मन्त्रा वै भागहेतुताम् | इतराणि तु मन्त्राणि लौकिकां विविधां तथा || कश्मला विकृतरूपाश्च अन्तरिक्षा तु खेचरा | भौम्या च मथ यक्षिण्यः पिशाच्या विविधास्तथा || गरुडाः किन्नराश्चैव प्रेता राक्षसभाषिता | पिशाचोरगरक्षाणां नागीनां च महर्द्धिका || मन्त्रा सिद्धिं प्रयास्यन्ति युगे कष्टे युगाधमे | कुमाररूपास्तु मन्त्रा वै कुमारिरूपास्तु सर्वदा || तेऽपि सिद्धिं प्रयास्यन्ति तस्मिं काले भयानके | त्रिविधास्तु तथा मन्त्रा त्रिप्रकारास्तु साधना || त्रिविधेनैव कालेन त्रिविधा सिद्धिरिष्यते | संक्षेपेण तु वक्ष्यामि कथ्यमानमतिविस्तरम् || राज्ञे सौ ***(?)यस्य पृष्ठते त भवे नृपः | विशोक इति विख्यातो लोके धर्मा***(?)रिणः || प्द्f ६६, प्. ६११) तस्य सिद्धा इमा मन्त्रा देवी षण्डरवासिनी | विशोकः साधयित्वा तु आजहार दिवौकसाम् || नाकपृष्ठे चिरं सौख्यमनुभूय स महानृपः | पुनरेव गच्छन्मानुष्यं धर्मशीलो हि बुद्धिमाम् || राज्यं विविधसम्पत्तिं अनुभूय महाद्युतिः | पूजयेद् धातुवरां श्रीमां वर्षाणि षट्सप्तति || ततो ज्वरेणाभिभूतोऽसौ भिन्नदेहो दिवं गतः | तस्याप्यनन्तरे राजा शूरसेनः प्रकथ्यते || विघुष्टो धर्मचारी च शासनेऽस्मिं सदा हितः | तेनापि साधिता मन्त्रा देवीस्तूपमहाश्रिया || तेनापि कारिता शास्तुः कारा सुमहती तदा | स्तूपैरलङ्कृता सर्वा समुद्रान्ता वसुन्धरा || तस्य कर्मविपाकेन व्याधिरुत्पन्नदेहजा | पक्षमेकं क्षयित्वासौ च्युतदेहो भविष्यति || कृत्वा राज्यं वर्षाणि दश सप्त च मानवीः | च्युतोऽसौ स्वर्गमाविष्टो नियतं बोधिपरायणः || तस्याप्यनन्तरो राजा नन्दनामा भविष्यति | पुष्पाख्ये नगरे श्रीमां महासैन्यो महाबलः || तेनापि साधितो मन्त्र पिशाचो पीलुनामतः | तस्य मन्त्रप्रभावं तु महाभोगो भविष्यति || नीचमुख्यसमाख्यातो ततो लोके भविष्यति | तद्धनं प्राप्य मन्त्री सौ लोके पार्थिवतां गतः || भविष्यति तदा काले ब्राह्मणास्तार्किका भुवि | सिद्धयाभिमानलुब्धा वै नगरे मगधवासिनः || भविष्यन्ति न सन्देहां मिथ्यागर्वितमानिनः | तेभिः **(?)वारितो राजा * * * * * * (?) || प्द्f ६७, प्. ६१२) धर्मशीलोऽपि धर्मात्मा तेषां दास्यति तं धनम् | कल्याणमित्रमागम्य पूजे धातुवरानसौ || केवलं तु तदाभ्यासाद् दानाविक्लवहेतुना | विहारा कारिता तेन षोडशाष्टौ च धीमता || भविष्यति तदा काले नगरे पुष्पसाह्वये | मन्त्रिमुख्यो महात्मा वै घृणी साधु तथा द्विजः || स भविष्यति धर्मात्मा तस्या राज्ञोऽतिशाक्यिनः | सोऽपि सिद्धमन्त्रस्तु यक्षिणी वीरमती भुवि || तेनापि कारितं श्रेष्ठं जिनानां धातुवरो भुवि | अतिप्राज्ञो हि संवृतो यक्षिण्यास्तु प्रभावतः || तेन वासनकर्मेण पूर्ववासनचोदितः | अनुपूर्वेण मेधावी बोधिं प्राप्स्यति दुर्लभाम् || स्त्रीकृतेन दोषेण मृत्युं प्राप्स्यन्ति मानवाः | वररुचिर्नाम विख्यात अतिरागी अभूत् तदा || नन्दोऽपि नृपतिः श्रीमां पूर्वकर्मापराधतः | विरागयामास मन्त्रीणां नगरे पाटलाह्वये || विरक्तमन्त्रवर्गिस्तु सत्यसन्धो महाबलः | पूर्वकर्मापराधेन महारोगी भविष्यति || महाज्वरेण दुःखार्तः अर्धरात्रे भविष्यति | आयुस्तस्य च वै राज्ञः षट्षष्टिवर्षां तथा || नियतं श्रावके बोधौ तस्य राज्ञो भविष्यति | तस्याप्यन्यतमः सख्यः पाणिनिर्नाम माणवः || नियतं श्रावकत्वेन व्याकृतो मे भविष्यति | सोऽपि सिद्धमन्त्रस्तु लोकीशस्य महात्मनः || साधयेत् प्रज्ञाकामस्तु क्रोधं हालहलं द्विजः | तस्य राज्ञोऽपर **(?) चन्द्रगुप्तो भविष्यति || प्द्f ६८, प्. ६१३) जपेन्द्रयक्षसिद्धस्तु कारयेद् राज्यमकण्टकम् | महायोगी सत्यसन्धश्च धर्मात्मा स महीपतिः || अकल्याणमित्रमागम्य कृतं प्राणिवधं बहु | तेन कर्मविपाकेन विपस्फोटैः स मूर्छितः || अर्धरात्रे रुदित्वासौ पुत्रं स्थापयेद् भुवि | बिन्दुवारसमाख्यातं बालं दुष्टमन्त्रिणम् || ततोऽसौ चन्द्रगुप्तस्य च्युतः कालगतो भुवि | प्रेतलोकं तदा लेभे गतिं मानुषवर्जिताम् || मन्त्राभ्यासात् तदा युक्तो गतिं त्यक्त्वा दिवि गतम् | मन्त्रहेतुसमुत्पादात् कुशलालम्बनचेतनाम् || प्रत्येकं बोधिमायाति सोऽनुपूर्वेण नराधिपः | राज्ञाथ बिम्बसारेण बालेनाव्यक्तचेतसा || पुरा कारितं चैत्यं सिंहदत्तेन भवान्तरे | तस्य कर्मप्रभावेन दिवं यातो ह्यनिन्दितः || पञ्च जन्मसहस्राणि अमरेभ्यो भुक्तवान् सुखम् | स्वर्गलोकाच्च्यवित्वा तु मनुष्येन्द्रोपपद्यते || जातो राजकुले चन्द्रगुप्तस्य धीमतः | बाल एव ततो राजा प्राप्तः सौख्यमनल्पकम् || प्रौढो धृष्टश्च संवृत्तः प्रगल्भश्चापि प्रियवादिनम् | स्वाधीन एव तद् राज्यं कुर्याद् वर्षाणि सप्तति || मन्त्रा केशिनी नाम सिद्धा तस्य नराधिपे | कुमार ! त्वदीयमन्त्रे तु सिद्धिं गच्छेयु ते तदा || भविष्यति तदा काले मन्त्रसिद्धिस्त्वयोदिता | कुमाररूपी विश्वात्मा लोकानां प्रभविष्णवः || भावयन्ति न सन्देहो मन्त्ररूपेण देहिनाम् | * * * * * * * * * * * (?) हितकाम्यया || प्द्f ६९, प्. ६१४) तस्मिं काले सदा सिद्धिर्भविष्यन्ति पठिता भुवि | मन्त्री तस्य राज्ञस्य बिन्दुसारस्य धीमतः || चाणक्य इति विख्यातः क्रोधसिद्धस्तु मानवः | यमान्तको नाम वै क्रोधः सिद्धस्तस्य च दुर्मतेः || तेन क्रोधाभिभूतेन प्राणिनो जीविताद्धता | कृत्वा तु पापकं तीव्रं त्रीणि राज्यानि वै तदा || दीर्घकालाभिजीवी सौ भविता द्विजकुत्सितः | तेन मन्त्रप्रभावेन सदेहमासुरीं भजेत् || आसुरीं तनुमाविष्ट दीर्घकालं स जीवयेत् | ततोऽसौ भिन्नदेहस्तु नरकेभ्यो विगच्छतः || ततोऽसौ नारकं दुःखं अनुभूयेह दुर्गतिः | विविधा नारकां दुःखां अनिष्टां कर्मजां तदा || कल्पमेकं क्षयित्वासौ क्रोधमन्त्रप्रचोदितम् | च्युतोऽसौ नरकाद् दुःखात् तिर्यगेभ्योपपद्यते || नागयोनिं समापद्य भीमरूपी भविष्यति | नागराजो महाक्रोधी महाभोगी विषदर्पितः || दारुणं कर्मचारी च * * * * * * * * (?) | च्युतोऽसौ दुष्टकर्मा तु यमलोकमगच्छत || सुनिदा यमराजासौ प्रेतराजो महर्द्धिकः | एवं दुःखसहस्राणि अनुभूय पुनः पुनः || सोऽनुपूर्वेण दुर्मेधा भुविमायात माणवः | मानुष्यं जन्ममायातः भीमरूपी भविष्यति || दरिद्र क्रोधनश्चैव अल्पशाख्यो भविष्यति | प्रत्येकबुद्धा ये लोके निराशाः खड्गचारिणः || हीनदीयानुकम्प्यास्तु विचरन्ति महीतले | *** (?) हितकाम्यर्थं प्रविष्टा पिण्डचारिकाम् || प्द्f ७०, प्. ६१५) ते तं दुर्मतिं दृष्ट्वा वै परचित्तविदोस्तदा | ते तत्र मनुबद्धास्तु कारुण्यान्नान्यहेतवः || तेन कुल्माषखण्डास्तु गृहीता भक्षहेतुना | क्रोधमन्त्राभिभूतेन हेतुमुद्घाटिता तदा || तेषां निर्यातयेद् भिक्षं तत्रैकस्य महात्मनः | इदं भोः प्रव्रजिताः ! सर्वे ! भक्षयध्वं यथासुखम् || तस्यानुकम्पा बुद्धेभ्यः ऋद्धिं दर्शितवां तदा | ततोऽसौ विस्मयाविष्टः प्रभावोद्गतमानसः || प्रपतेत् सर्वतो मूर्ध्ना बुद्धेभ्यः खड्गकल्पिषु | आकाशेन गताः सर्वे वीतदोषा यथेष्टतः || तेनापि कुशलार्थेन प्रत्येकां बोधिचिन्तिताम् | यादृशा हि महात्मानः शान्तवेषा महर्द्धिकाः || तादृशोऽहं भवेल्लोके मा दुःखी मा च दुर्गतिः | क्षीणकर्मावशेषस्तु च्युतः स्वर्गोपगः सदा || सोऽनुपूर्वेण धर्मात्मा प्रत्येकं बोधि लप्स्यते | तस्मान्न कुर्यान्मन्त्रेभ्यः साधनमाभिचारुकम् || बुद्धिर्बोधिसत्त्वैश्च प्रतिषिद्धमाभिचारुकम् | अतिकारुणिका बुद्धा बोधिसत्त्वास्तु महर्द्धिकाः || प्रभावार्थं तु मन्त्राणां दर्शितं सर्वकर्मिणः | चिन्तामणयो मन्त्रा भाषितास्तु तथागतैः || बालरूपा मूढचित्तास्तु क्रोधलोभाभिभूतयः | परस्परं प्रयोज्यन्ते ये मन्त्रा आभिचारुके || प्रतिषिद्धं तथा बुद्धैर्बोधिसत्त्वैस्तु धीमतै. | सर्वप्रकार तु मन्त्राणां सत्त्वेभ्यो भोगवर्धनम् || ****(?) राज्यं वै मदारक्षां ****(?)वः | आकर्षणं तु सत्त्वानां विविधां ***** (?) || प्द्f ७१, प्. ६१६) साधनीयास्तु मन्त्रा वै न जीवमुपरोधतः | तस्मिं काले भविष्यन्ति भिक्षवो मे बहुश्रुताः || मातृचीनाख्यनामास्तु स्तोत्रं कृत्वा ममिव तु | यथा भूतगुणोद्देशैः यथाकारमभाषत || प्रसाद्य सर्वतश्चित्तं बुद्धानां शासने रतः | मन्त्रसिद्धस्तु दुर्लक्ष्यः मञ्जुघोषस्तवैव तु || गुणवां शीलसम्पन्नः धर्मवादी बहुश्रुतः | पुरा तिर्यग्गतेनैव इमां स्तोत्रमभाषत || नृपाख्ये नगरे रम्ये खण्डाख्ये च वने वतु | सार्धं शिष्यगणेनैव विहरामि यथासुखम् || तत्रस्थो वायस आसी मां चित्तं सम्प्रसादयेत् | प्रसाद्य च मयि चित्तं भिन्नदेहो दिवं गतः || देवेभ्यश्च च्यवित्वा तु मनुष्येभ्योपपत्स्यते | मनुष्येभ्योपपन्नस्तु प्रव्रजेच्छासने मम || प्रव्रजित्वा महात्मासौ यथाभूतं हि मां तदा | स्तविष्यति तदा काले मातृचीनाख्य सव्रती || स्तोत्रोपहारं यथार्थं च नानादृष्टान्तरहेतुभिः | प्रकर्ता सर्वभूतानां हितायैव सुभाषितम् || अनुग्रहार्थं तु सत्त्वानां स्तोत्रचोदनतत्परः | भविष्यति तदा काले युगान्ते लोकनिन्दिते || तेन कर्मविपाकेन भिन्नदेहो दिविं गतः | सोऽनुपूर्वेण मेधावी अनुभूय विविधां सुखाम् || बोधिं प्राप्स्यति सर्वज्ञिंउत्तमार्थमचिन्तियाम् | चतुर्थे वर्षशते प्राप्ते निर्वृते मयि तथागते || नागाह्वयो ***(?) भिक्षुः शासनेऽस्मिं हिते रतः | मुदितां भूमि**(?)तु *(?)वेद् वर्षशतानि षट् || प्द्f ७२, प्. ६१७) मायूरी नामतो विद्या सिद्धा तस्य महात्मनः | नानाशास्त्रार्थधात्वर्थं निःस्वभावार्थतत्त्ववित् || सुखावत्यां चोपपद्येत यदासौ त्यक्तकलेवरः | दोऽनुपूर्वेण बुद्धत्वं नियतं सम्प्रपत्स्यते || सङ्गनामा तदा भिक्षुः शास्त्रतत्त्वार्थकोविदः | सूत्रनीतार्थनेयानां विभज्य बहुधा पुनः || लोकाभिधायी युक्तात्मा तुच्छशीलो भविष्यति | तस्य सिद्धा शालदूतीति कथ्यते || तस्य मन्त्रप्रभावेन बुद्धिरुत्पन्न श्रेयसी | सङ्ग्रहे सूत्रतत्त्वार्थं शासनस्य चिरस्थिते || जीवेद् वर्षशतं सार्धं त्यक्तदेहो दिविं गतः | अनुभूय चिरं सौख्यं दीर्घसंसारसंसरम् || अनुपूर्वेण चात्मासौ बोधिमाप्तो भविष्यति | एवं बहुधाकारो भिक्षवो मयि शासने || प्रज्ञा धर्मशीलास्तु भविताभूत् तदा युगे | अपश्चिमे तु तदा काले नन्दनामतः || सोऽपि मन्त्रार्थयुक्तात्मा तन्त्रज्ञोऽथ बहुश्रुतः | तस्य भद्रघटः सिद्धः यक्षमन्त्रप्रचोदितः || महायानाग्रसूत्रे तु मया च कथिता पुरा | तस्मिं काले घटे तस्मिं उज्जहार महातपा || तस्य दृष्टसदा तत्र पुस्तकेऽस्मिं मन्त्ररूपिणे | रक्षा न कारिता तत्र घटेऽस्मिं यक्षसाधिते || अनप्रमादात् स्मृतिभ्रंशा घटो मूर्धटके हृतः | तोऽसौ सिद्धमन्त्रस्तु भिक्षुर्मन्त्रतपी अभूत् || घटं निरीक्षया*(?)स नाभिपश्येत तत्र वै | ततोऽसौ क्रोध*(?)काङ्गः विस्फूर्जन अभाषत || प्द्f ७३, प्. ६१८) आब्रह्मस्तम्बपर्यन्तं शक्राद्यां समहेश्वराम् | मन्त्रेनाकृष्यमानेयं नाहं मन्त्री न मन्त्रराट् || ये मन्त्रा बुद्धपुत्रैस्तु मन्त्रा जिनवरैस्तथा | भाषिता निग्रहार्थाय दुर्दान्तदमकापि वा || ते तु सर्वे भुविर्नास्ति यदि नाकृष्यामि चोरीणाम् | ततोत्थाय ततो मन्त्री सिद्धकर्मदृढव्रतः || यथा तु विहिते मन्त्रे प्रयोगाकृष्टहेतवः | प्रयोजयामास तं दिक्षु कृइप्राकर्षणतत्परः || क्षणेना स्मृतमात्रेण क्षिप्रकर्मायतिह्यसौ | हुङ्कारेकेण मात्रेण ब्रह्माद्यामानयेद् भुवि || आकृष्टा सर्वदेवास्तु ब्रह्माद्याः सशक्रकाः | हाहाकारं प्रमुञ्चाना आर्त्ता भैरवनादिनः || किं करोम किमानीता नाम यं मन्त्रापराधिनः | शीघ्रं च त्वरमाणस्तु भिक्षुर्धीमां विशारदः || दिवौकसां मन्त्रयामास घटं प्रत्यर्पयथ इतो इह | अन्योन्यं वै सुराः सर्वे स भिक्षुः सम्प्रभाषत || क्षिप्रं वदत भद्रं वो ये नेनापहृतो घटः | निरीक्षयामास ते देवाः न दास्यन्तेऽथ समन्ततः || ससन्वाहरति देवेशः केनायं घटकोऽपहृतः | पश्यते वज्रिणः श्रीमां बोधिसत्त्वो महाद्युतिः || तस्यास्ति सुतो घोरः महारोषी सुदारुणः | निर्मितो विघ्नरूपेण विचेरुः सर्वतो जगत् || तेनासौ घटो नीत देवेशः सम्प्रभाषितम् | अस्ति वज्रकुले विघ्नः क्रीडते लीलया भुवि || पूजितोऽह*(?)मेनेति तेनासौ घटको हृतः | एवमुक्त्वा तु देवेशः पुनरेव दिविं मताः || प्द्f ७४, प्. ६१९) सर्वे विसर्जिता देवाः स्वमन्त्रेणैव ते तदा | क्षणेनैव तु तत्रैकः मुहूर्तसुतरानपि || आनयामास तं विघ्नमवशात् सघटं तदा | ततस्तेन तु विघ्नेन प्रेतानां घटमाददे || ततो नीतेन तु विघ्नेन इमां वाचामभाषिता | प्रेतलोके घटो नीतः न वयं तत्र दोषिणः || रुष्टो सोऽपि महामन्त्री तं विघ्नमभ्यभाषत | गच्छ गच्छ महाविघ्न ! मा भूयो एवमाचरेत् || ततस्तेन तु ते प्रेता आनीतास्तत्क्षणादपि | क्षुभिताक्रान्तमनसः दीनाः सूचीमुखा हि ते || आर्तस्वरं च क्रन्देयुर्महाघोरतमा हि ते | चुक्रुतुः करुणां वाणीं परित्रायस्व महात्मन || घटं वो इह आनीता यथेष्ट कुरुते वयम् | महाकारुणिको मन्त्री वेपथु सम्प्रजायताम् || करुणार्द्रेण मनसा इमां वाचामभाषत | किं दुःखं भवतां लोके सम्प्रभाषथ मा चिरम् || ते ऊचुर्दीनमनसा बुभुक्षास्मत् सम्प्रधावते | त्रिपिताः प्रेतलोकेऽस्मिं चिरं कालं महात्मनः || महाकारुणिको भिक्षुस्तेषामेव प्रददौ घटम् | ततस्ते तुष्टमनसाः सत्त्वरामालयं गताः || तेषां चिन्तितमात्रेण अन्नपानं भवेद् घटे | भविता चन्दनमालेऽस्मिं भिक्षुर्नन्दको भुवि || तस्मिं कालाधमे प्राप्ते जीवेद् वर्षशतत्रयम् | महात्मा बोधिनिम्नस्तु क्षिप्रं प्राप्स्यति दुर्लभाम् || भविष्यन्ति न सन्देहः तस्मिं काले युगाधमे | राजा गोमुख्यस्तु शासनान्तर्वाषको मम || प्द्f ७५, प्. ६२०) प्राचिं दिशिमुपादाय कश्मीरे द्वारमेव तु | नाशयिष्यति तदा मूढः विहारां धातुवरांस्तथा || भिक्षवः शीलसम्पन्नां धातयिष्यति दुर्मतिः | उत्तरां दिशमाशृत्य मृत्युस्तस्य भविष्यति || अमानुषेणैव क्रुद्धेन सराष्ट्रा पशुबान्धवः | आक्रान्तोऽद्रिखण्डेन पातालं यास्यति दुर्मति || अधो अथ गतिस्तस्य नरकान्नरकतरं भृशम् | दुःखा दुःखतरं तीव्रं सम्प्रपत्स्यति दारुणम् || अवीचिर्नाम विख्यातं नरकं पापकर्मिणा | मुच्यतेऽसौ महाकल्पं गोमिषण्डो दुरात्मनः || अकल्याणमित्रमागम्य कृतं पापसुदारुणम् | तस्मात् सर्वप्रयत्नेन शासनेऽस्मिं तथागते || प्रसाद्यमखिलं चित्तं सम्प्रभोक्ष्यथ सम्पदाम् | बुद्धत्वनियतं मार्गम् अष्टाङ्गपथयायिनम् || गमिष्यथ सदा सर्वे अशोकं निर्जरसं पुरम् | तस्यानन्तरे महीपालः बुद्धप्क्ष इति श्रुतः || महायक्षो महात्यागी बुद्धानां शासने रतः | भविष्यति न सन्देहः तस्मिं काले युगाधमे || अतिप्रीतो हि नृपतिः शास्तुः शासनतत्परः | विहारारामचैत्यांश्च शास्तुर्बिम्बाननुत्तमाम् || वाप्यः कूपाश्च * * * * * * * (?) अनेकधाः | कारयित्वा महाराजा दिवं गच्छेद् गतायुषः || तस्य सिद्धो महावीर्यः अब्जकेतुर्महीतले | पृथिवां पालनां प्रार्थे बोधिसत्त्वस्य महात्मने || तस्य मन्त्रप्रभावेन जीवेद् वर्षशतत्रयम् | तेन कर्मावशेषेण क्षिप्रं बोधिमवाप्नुयात् || प्द्f ७६, प्. ६२१) तस्यापि च सुतो राजा महासैन्यो महाबलः | गम्भीरयक्षो विख्यातः पृथिवीमखिलोदिताम् || सोऽपि राजाथ युक्तात्मा तस्मिं काले भविष्यति | विहारावसथचैत्यांश्च वापीकूपांश्च नैकधा || कारयिष्यति न सन्देहो भूपतिः स महाद्युतिः | तेनापि साधितं मन्त्रं मञ्जुघोषस्य धीमतः || षडक्षरं नाम यद् वाक्यं महार्थं भोगवर्धनम् | तस्य मन्त्रप्रभावेन महाभोगी भवे ह्यसौ || अनुपूर्वेण मेधावी क्षिप्रं बोधिपरायणः | विविधाकारकारांस्तु शासनेऽस्मिं तथागते || भविष्यति तदा काले उत्तरां दिशिमाशृतः | नेपालमण्डले ख्याते हिमाद्रेः कुक्षिमाश्रिते || राजा मानवेन्द्रस्तु लिच्छवीनां कुलोद्भवः | सोऽपि मन्त्रार्थसिद्धस्तु महाभोगी भविष्यति || विद्या भोगवती नाम तस्य सिद्धा नराधिपे | अशीतिवर्षाणि कृत्वासौ राज्यं तकरवर्जितम् || ततः प्राणात्यये नृपतौ स्वर्गलोके जजग्मसु | तत्र मन्त्राशु सिध्यन्ति शीतला शान्तिकपौष्टिका || तारा च लोकविख्याता देवी पण्डरवासिनी | महाश्वेता परहितोद्युक्ता अखिन्नमनसां सदा || इत्येवमादयो प्रोक्ता बहुधा नृपतयोस्तदा | अनेकधा बहुधाश्चैव नानारूपविवर्णिताः || शास्तुपूजकास्तेऽपि म्लेच्छराजा न है | वविषः सुवृषश्चैव भावसु शुभसुस्तथा || भाकमः पदक्रमश्चैव कमलश्चैव कीर्त्यते | भासुप्तः वत्सकश्चैव * * * * * (?) पश्चिमः || प्द्f ७७, प्. ६२२) उदयः जिह्नुनो ह्यन्ते म्लेच्छानां विविधास्तथा | अम्भोधेः भ्रष्टमर्यादा बहिः प्राज्ञोपभोजिनः || शस्त्रसम्पातविध्वस्ता नेपालाधिपतिस्तदा | विद्यालुप्ता लुप्तराजानो म्लेच्छतस्करसेविनः || अनेका भूपतयो प्रोक्ता नाना चैव द्विजप्रिया | भविष्यन्ति तदा काले चीनं प्राप्य समन्ततः || राजा हिरण्यगर्भस्तु महासैन्यो महाबलः | विस्तीर्णश्च तन्त्रश्च प्रभूतजनबान्धवः || म्लेच्छप्रणतो विजयी च शास्तुः शासनतत्परः | तेनापि साधितो मन्त्रः कुमारस्यैव महाद्युतेः || विद्याराजामष्ट अक्षरम् * * * * * * * (?) | महावीरं नाम विख्यातं सम्पदानां महास्पदम् || तेन बालधियो राजा राज्यहेतोः समाहितः | यस्य स्मरितमात्रेण बुद्धत्वं नियतं पदम् || सोऽल्पकार्यनियुञ्जानः राज्यहेतो नराधिपः | आकांक्षमानयद्येवं वरदानमनुत्तमम् || ब्रह्माद्या देवतां कृत्स्नामाज्ञापयति सर्वदा | किं पुनर्मानुषां लोके इतरां भावकुत्सिताम् || जीवित्वा वर्षशतं सार्धं दिवं गच्छन्महानृपः | सोऽनुपूर्वेण धर्मात्मा उत्तमां बोधिमाप्नुयात् || तस्मिं देश इमा विद्या ये कुमारेण भाषिता | सत्वरा तेऽपि सिद्ध्यन्ते नान्ये विद्या कदाचन || बोधिसत्त्वो महाधीरः मञ्जुघोषो महाद्युतिः | तस्मिं देशे तु साक्षाद् वै तिष्ठते बालरूपिणः || सिद्धिक्षेत्राऽथ परं दिव्यं मानुष्यैः साधयिष्यति | तुरुष्कनामा वै राजा उत्तरमायामाशृत || प्द्f ७८, प्. ६२३) महासैन्यो महावीर्यः तस्मिं स्थाने भविष्यति | कश्मीरद्वारपर्यन्तं बष्कलोद्यं सकाविशम् || योजनशतसप्तं तु राजा भुङ्क्तेऽथ भूतलम् | सप्तसप्ततिसहस्राणि लक्षौ द्वौ तस्य भूपतेः || भविष्यति न सन्देहो तस्मिं काले युगाधमे | सोऽपि सिद्धमन्त्रस्तु जीवेद् वर्षशतत्रयम् || साधिता केशिनी विद्या नराध्यक्षेण धीमता | आत्मना श्रेयसार्थं तु विहारां कारयेद् बहून् || षडाशीतिसहस्राणि कुर्यात् स्तूपवरांस्तथा | महायानाग्रधर्मं तु बुद्धानां जननीस्तथा || प्रज्ञापारमिता लोके तस्मिं देशे प्रतिष्ठिता | स राजा भिन्नदेहस्तु स्वर्गलोकं गमिष्यति || सोऽनुपूर्वेण क्षितीपेशः बोधिं प्राप्स्यति मुत्तमाम् | तस्यान्तरे क्षितिपतेः महातुरुष्को नाम नामतः || धीमतः बहुमतः ख्यातो गुरुपूजकतत्परः | सदा सोऽपि साधे स मन्त्रं वै तारादेवीं महर्द्धिकाम् || सोऽपि प्रसिद्धमन्त्रस्तु राज्यहेतो थ भूतले | महायक्षा महासैन्यः महेशाक्षोऽथ भूपतिः || सम्मतो बन्धुवर्गाणां राजा सोऽपि भविष्यति | अष्टौ सहस्रविहाराणां तस्मिं काले भविष्यति || तस्य मन्त्रप्रभावेन जीवेद् वर्षशतद्वयम् | यदासौ भिन्नदेहस्तु तुषितेभ्योपपद्यते || सोन्मत्त्तो देवपुत्राणां बोधिसत्त्वो महर्द्धिकः | सोऽनुपूर्वेण धर्मात्मा बोध्यङ्ग समभिपूरतः || प्राप्नुयामतुलां बोधिं सोऽनुपूर्वेण यत्नतः | तत्र देशे सदा कालं तिष्ठते प्रवरं बहु || प्द्f ७९, प्. ६२४) जिनैस्तु कथितं पूर्वं अधुना चर्यया भुवि | वीतरागैः समाक्रान्तं नागैश्चापि महर्द्धिकैः || लोकपालास्तथा यक्षाः शास्तु शासनरक्षकाः | भविष्यन्ति तदा काले सद्धर्मा रक्षका भुवि || एवं बहुविधाः प्रोक्ता भूपाला लोकविश्रुताः | कथिताः कथयिष्यन्ति तस्मिं काले सुदारुणे || पश्चाद्देशपर्यन्तं उज्जयन्यामतः परे | समुद्रतीरपर्यन्तं लाडानां जनपदे तथा || शीलाह्वो नाम नृपतिः बुद्धानां शासने रतः | पुरीं बलभ्य सम्प्राप्तो धर्मराजा भविष्यति || विहारां धातुवरां चित्रां श्रेयसां प्राणिनांस्तथा | कारयिष्यति युक्तात्मा भूपतिर्धर्मवत्सलः || पूजां च विविधाकारां जिनबिम्बां मनोरमाम् | पूजयेद्धातुवरां अग्र्यां लोकनाथेभ्यो यशस्विषु || नासौ मन्त्रसिद्धस्तु केवलं कर्मजोत्तमः | तत्र देशे समाख्यातो भिक्षुः पिण्डचारिकः || शीलवां बुद्धिसम्पन्नो बुद्धानां शासने रतः | कालचारी महात्मासौ प्रविष्टो पिण्डचारिकम् || पश्यते राजकुलं श्रेष्ठं विस्तीर्णं च जनावृतम् | प्रविष्टो तत्र भिक्षार्थी क्षुधया च समन्वितः || तृषितो क्लान्तमनसो न लेभे पिण्डकं तदा | गृहीत्वासौ पुरुषैः क्षिप्रं निर्ययुः तद्गृहात् परम् || ततो सौद्विग्नमनसो रक्षितो राजभटैस्तदा | निर्ययुर्नगरात् तस्मात् स्वालयं तत्क्षणाद् गतः || क्षुधितो तृपितश्चैव दुःखी च दुर्मतिं गतः | ततोऽसौ भक्तच्छिन्नस्तु अर्धरात्रे समुपस्थिते || प्द्f ८०, प्. ६२५) प्राणत्यागं तदा चक्रुः यती सौ लघुचेतसः | प्रणिधिं च तदा चक्रे लाडानामधिपतिर्भवेत् || ततोऽसौ कालगतो भिक्षुर्धराख्ये नृपतौ कुले | उत्पद्येत महात्मासौ शास्तुः शासनपूजकः || दशवर्षाणि विंशं च राज्यं कृत्वा मकण्टकम् | लुब्धः स्वजनप्रयोगेण अजीर्णयतिमूर्छितः || भिन्नदेहो ततो राजा कालं कृत्वा दिविं गतः | देवा तुषितवरा नाम मैत्रेयो यत्र तिष्ठति || धर्मश्रावी महात्मासौ तत्रासौ उअपपत्स्यते | धर्मं शृण्वन्ति सत्कृत्य मैत्रेयस्य महाद्युतेः || सोऽनुपूर्वेण बोधिं च प्राप्स्यति दुर्लभाम् | शीलाख्ये नृपतौ वृत्ते चपलस्तत्र भविष्यति || वर्षार्धपक्षमेकं तु पञ्च मासां तथैव तु | राज्यं कृत्वा विभिन्नोऽसौ शस्त्रिभिः शस्त्रजीविभिः || स्त्रीकृतेनैव तु दोषेण शस्त्रभिन्नो अधो गतः | तस्याप्यनुजो ध्रुवाख्यस्तु ध्रुवः स्थावरतां गतः || सेवक कृपणो मूर्खः लाडानामधिपतिर्भवेत् | शेषा नराधिपाः सर्वे मूर्धान्तास्तु सेवकाः || तेषां च पूर्वजा वंशाः शीलाह्वोपरते तदा | भविता भूपतयः सर्वे अम्भोजे तीरपर्षगाः || नृपः इन्द्रो सुचन्द्रश्च धनुः केतुस्तथैव च | पुष्पनामो ततः प्रोक्ता वारवत्यां पुरोद्भवः || वलभ्यां पुरिमागम्य आद्यमस्यानुपूर्वका | प्रभनामा सहस्राणि विष्णुनामा तथैव च || अनन्ता नृपतयो प्रोक्ता यादवानां कुलोद्भवाः | तेषामपश्चिमो राजा विष्णुनामा भविष्यति || प्द्f ८१, प्. ६२६) ऋषिशापाभिभूतस्तु सपौरजनबान्धवः | अस्तं गते नृपो धीमां उदके प्लाविता पुरी || द्वारवत्या तदा तस्य महोदधिसमाश्रिता | उत्तरां दिशि सर्वत्र नानारम्भनितम्बयोः || अनन्ता नृपतयः प्रोक्ता नानाजातिसमाशृताः | शकवंश तदा त्रिंशत् मनुजेशा निबोधता || दशाष्ट भूपतयः ख्याता सार्धभूतिकमध्यमा | अन्ते नागसेना तु विलुप्ता ते परे तदा || ततो विष्णुहरश्चैव कुन्तनामाजितः परः | ईशानसर्वपङ्क्तिश्च ग्रहसुव्र तथापरः || ततस्ते विलुप्तराजानः भ्रष्टमर्याद सर्वदा | विष्णुप्रभवौ तत्र महाभोगो धनिनो तदा || मध्यमात् तौ भकाराद्यौ मन्त्रिमुख्यौ उभौ तदा | धनिनौ श्रीमतौ ख्यातौ शासनेऽस्मिं हिते रतौ || जप्तमन्त्रौ तथा मन्त्रे कुमारस्त्वयि मन्त्रराट् | ततः परेण भूपालो जाताना मनुजेश्वरौ || सप्तमष्टशता त्रीणि श्रीकण्ठावासिनस्तदा | आदित्यनामा वैश्यास्तु स्थानमीश्वरवासिनः || भविष्यति न सन्देहो अन्ते सर्वत्र भूपतिः | हकाराख्यो नाम्तः प्रोक्तो सार्वभूमिनराधिपः || तत्र देशे इमे मन्त्रा सिद्धिं गच्छेयु वै तदा | धर्मराजेन ये प्रोक्ता विद्या शान्तिकपौष्टिका || विविधां भोगविषयां सम्पदां विविधांस्तथा | नाना च रूपधारिण्यो यक्षिण्यश्च महर्द्धिकाः || भविष्यन्ति तत्र वै सिद्धा तस्मिं काले युगाधमे | दक्षिणां दिशिमाश्रित्य ससमुद्रां वसुन्धराम् || प्द्f ८२, प्. ६२७) राजा श्वेतसुचन्द्रश्च सातवाहन एव तु | महेन्द्रं शङ्करश्चैव वल्लभोऽथ महीपतिः || सुकेशिकेशिश्च विख्याता दक्षिणां दिशि | मङ्गलो वल्लभः प्रोक्तो गोविन्दः बृन्दखेतुः || मुत्पातः पोतश्चैव महेन्द्रः चन्द्र एव तु | गोपेन्द्रो इन्द्रसेनश्च प्रद्युम्नो माधवस्तदा || गणशङ्करश्चैव व्याघ्रं सिंओ तथा बुधः | बुधः शुद्धस्तथा कुम्भः निकुम्भश्चैव कीर्त्यते || मथितः सुमितश्चैव * * * * * * * * (?) | बलः पुलिनश्चैव सुकेशिः केशिनस्तथा || अनन्ता बहवो ख्याता भूपाला दक्षिणां दिशि | अतीतानागता चापि वर्त्तमाना निबोधिता || नानामृत्युभवे ह्येते नानाव्याधिसमाप्लुता | शस्त्रसम्पातदुर्भिक्षैः मृताः केचिद् दिविं गताः || इत्येते नृपतयः सर्वे कथिता विपुकस्तथा | महेन्द्रान्त नृपोताख्यातः तथासहितस्तथा || भविष्यन्ति तदा अभूत् * * * * * * * * (?) | तस्मिं काले तदा देशे मन्त्राणां सिद्धिमिच्छताम् || साधनीया इमा मन्त्राः क्रोधाद्याः कुलिशोचिताः | आभिचारुककर्मेषु वश्यार्थे च तथा हितम् || मञ्जुश्रियोऽथ माहात्मा वै कुमारो बालरूपिणः | सिध्यते च तदा देशे कलिप्राप्ते च तदा युगे || पर्वतविन्ध्यमाशृतं सागरे लवणोदके | कार्तिकेयेति समाख्यातः सत्त्वानां वरदायकः || आज्ञां भो बोधिसत्त्वेन मञ्जुघोषेण धीमता | सत्त्वानां हितकाम्यर्थं निवसेद् दक्षिणां दिशि || प्द्f ८३, प्. ६२८) कार्तिकेयस्य ये मन्त्राः कथिता मञ्जुभाणिना | तस्मिं देशे तदा सिद्धिः भविष्यति न संशयः || श्रीपर्वते तदा देशे विन्ध्यकुक्षिनितम्बयोः | द्वीपेष्वेव च सर्वत्र कलिङ्गोद्रेषु कीर्त्यते || त्रैगुण्या म्लेच्छदेशेषु समन्ततः | अम्भोधेः कुक्षितीरान्ताः नृपा ख्याता अनन्तकाः || कामरूपकलाख्या हि हिमाद्रेः कुक्षिमाश्रिताः | बहवो नृपतयो प्रोक्ता उद्रसन्धिषु सर्वदा || नानाम्लेच्छगणाध्यक्षा शास्तुपूजकतत्पराः | इन्द्रो सुचन्द्रमहेन्द्रश्च भूपाल म्लेच्छवासिनाः || क्ष्मापालो उभौ तत्र षोडशार्द्धा शासने रता | पूजकाः शास्तुबिम्बानां त्वत्प्रसादा || भविष्यन्ति न सन्देहो प्रसन्ना शासने जिने | बहवो नृपवराः प्रोक्ताः पूर्वायां दिशिमाशृताः || अतीतानागता ये तु वर्त्तमानाश्च सर्वदा | आद्यं नृपवरं वक्ष्ये गौडानां वंशजो भुवि || जातोऽसौ नगरे रम्ये वर्धमाने यशस्विनः | लोकाख्यो नाम सौ राजा भवति गौडवर्धनः || मामानुत्पन्नलोकेऽस्मिं भवितासौ धर्मचिन्तकः | बहवः क्षितिपाः क्रान्ता विविधा जीवकर्मिणः || मध्यकाले समास्वासा मध्यमा मध्यधर्मिणः | अनन्ते व युगे नृपेन्द्रा शृणु तत्त्वतः || समुद्राख्यो नृपश्चैव विक्रमश्चैव कीर्त्तितः | महेन्द्रनृपवरो मुख्य सकाराद्यो मतः परम् || देवराजाख्यनामासौ युगाधमे * * * * (?) | निर्द्धाख्ये नृपः श्रेष्ठः बुद्धिमान् धर्मवत्सलः || प्द्f ८४, प्. ६२९) तस्याप्यनुजो बलाध्यक्षः शासने च हिते रतः | प्राचीं समुद्रपर्यन्तां चैत्यालङ्कृतशोभनाम् || करिष्यति न सन्देहः कृत्स्नां वसुमतीं तदा | विहारारामवापीश्च उद्याना मण्डवकां सदा || करिष्यति तदा श्रीमां सङ्क्रमां सेतुकारकः | शास्तुर्बिम्बान् तदा पूजेत् तत्प्रसन्नांश्च पूजयेत् || कृत्वा राज्यं महीपालो निःसपत्नमकण्टकम् | जीवेद् वर्षां षट्तृंशत्तृंशाहं प्रव्रजेनृपः || ततोत्मानं घातयेद् राजा ध्यायन्तः सम्प्रमूर्च्छितः | पुत्रशोकाभिसन्तप्तः यतिवृत्तिसमाशृतः || ततोऽसौ भिन्नदेहस्तु नरकेभ्योपपद्यत | त्रीणि एकं च दिवसानि उपित्वा नरकं गतिम् || देहमुत्सृज्य दिविं गच्छेत् सदा नृपः | देवानां सुकृतिनां लोकः शुद्धावास इति स्मृतः || देवराजा भवेत् तत्र शुद्धात्मा बोधिनिम्नगः | शतशः सहस्रशश्चैव अनुभूय दिविं सुखम् || पुनरेव मानुष्यं प्राप्य बुद्धो भूयो भवान्तरे | तेनैव कारितं कर्म अन्यजन्मेषु देहिनाम् || पुरीमुज्जयनीं ख्याता मालवानां जने तदा | तत्रायनीमुख्यः वणिजो यो महाधनः || बुद्धानामसम्भवे काले शून्ये लोके निरास्पदे | प्रत्येकबुद्धा लोकेऽस्मिं विहरन्ति महर्द्धिकाः || सत्त्वानां हितकामाय विचरन्ति महीतले | पुरी उज्जयिनी प्राप्य प्रविष्टा पिण्डचारिका || वर्गचारिणो महात्मानः रथ्यायामवतरतत् | वाण्याजेय तुस्तदा सैव दृष्ट्वा तु संमुखां मुनिम् || प्द्f ८५, प्. ६३०) निमन्त्रयामास तदा भक्तेन स्वगृहं चैव नयेत् तदा | नीत्वा मुनिवरां क्षिप्रमासनेन निमन्त्रयेत् || सङ्घीभवध्व भवतः भक्तकालोऽयमुपस्थितः | तेऽपि तूष्णीं महात्मानो न वाचां भाषिरे तदा || पात्रं च नामयामास वाणिजे यस्य सर्वदा | वणिजा इङ्गितज्ञाश्च बुद्धिमन्त्रो भवेत् तदा || पात्रं च पूरयामास विविधाकारभोजनैः | तदासौ स्वहस्तेनैव तेषां प्रायच्छ यत्नतः || गृहीत्वा तु ततः सर्वे प्रजग्मुः सर्वतोनभम् | दीपमालेव दृश्यन्ते व्योममूर्तिसमाश्रिताः || ततोऽसौ हृष्टरोमस्तु संवेगबहुलस्तदा | भूम्यां च पतितस्तत्र ऋद्ध्या वर्जितमानसः || प्रणिधिं च तदा चक्रे प्रव्याहारवभं यथा | अनेन कुशलमूलेन यन्मया प्राप्तमद्यतः || एषा मुनिवरा मग्र भवेद् बुद्धो ह्यनुत्तरः | दशजन्मसहस्राणि चक्रवर्त्ति तदा भुवि || ततोऽसौ व्युक्तदेहस्तु कोटिशष्टिदिवौकसाम् | अनुभूय चिरं सौख्यं त्यक्त्वा जन्म दिवौकसाम् || मानुषाणां तदा जन्म प्राप्नुयात् परवशा इह | तस्य राजकुले जन्म भवतीह तु सर्वदा || बालाख्यो नाम सौ नृपतिर्भविता पूर्वदेशकः | आजन्मसहस्राणि चिरसौख्यमनावृतम् || प्राप्नुवन्ति या नृपतिः श्रीमां सर्वज्ञत्वं च पश्चिमम् | एवं बहुविधं मत्वा सम्पदो विपुलास्तथा || को नु कुर्यात् तदा शास्तुः पूजनाध्येषणांस्तथा | कारांश्च श्रेयसीं युक्तां बोधिमार्गवियोजनीम् || प्द्f ८६, प्. ६३१) तस्यापरेण नृपतिः गौडानां प्रभविष्णवः | कुमाराख्यो नामतः प्रोक्तः सोऽपि रत्यन्तधर्मवाम् || तस्यापरेण श्रीमां उकाराख्येति विश्रुतः | ततः परेण विश्लेष तेषामन्योन्यतेष्यते || महाविश्लेषणा ह्येते गौडा रौद्रचेतसः | ततो देव इति ख्यातो राजा मागधकः स्मृतः || सोऽप्यतहतविध्वस्तरिपुभिः समता वृतः | यस्यापरेण चन्द्राख्यः नृपतित्वं कारयेत् तदा || सोऽपि शस्त्रविभिन्नस्तु पूर्वचोदितकर्मणा | तस्यापि सुतो द्वादश गणनां जीवेन्मासपरम्परम् || सोऽपि विभिन्नशस्त्रेण बाल एव अभूत् तदा | तेषां परस्परोपविघ्नचित्तानां रौद्राणामहिते रताम् || भविष्यति तदा काले भकाराख्यो नृपपुङ्गवः | अग्रणीर्गौडलोकानां महाव्याधिसमाकुलः || तेनैव व्याधिना आर्त्तः कालं कृत्वा अधो गतः | तस्यापरेण दकाराख्यः कतिपायां दिवसां दश || भविता गौडदेशेऽस्मिं गङ्गातीरसमाशृतः | तस्यापरेण भकाराख्यस्त्रीणि दिवसानि कारयेत् || ततो गोपालको राजा भविता सर्वदस्तदा | प्रियवादी च सो राजा घृणी चैव महाबलः || स्त्रीवशः कृपणो मूर्खः जितशत्रुर्भवेद् युवाम् | कल्याणमित्रमागम्य महात्यागी भवेत् तदा || विहारांश्चैत्यवरां रम्यामारामां विविधास्तदा | वाप्योऽथ जलसम्पन्ना सत्रागारां सुशोभनाम् || सेवतो बहवस्तस्य यशः कीर्त्याथमुद्यतः | देवायतनरम्यां वै गुणावसथकारिणः || प्द्f ८७, प्. ६३२) पापण्डीभिः समाक्रान्तं नानातीर्त्थिकवासिभिः | आक्रान्तः सो दिशः सर्वा समुद्रातीरचर्यगाः || क्रिपी भोगी प्रमादी च स राजा धर्मवत्सलः | भविष्यति न सन्देहः स प्राचीं दिशि मूर्जितः || सद्यातीसारसंयुक्तवार्द्धिक्ये समुपस्थितः | गङ्गातीरमुपाश्रित्य राज्यं कृत्वा तु वै तदा || विंशद् वर्षाणि सप्तं च जन्मनाशीतिको मृतः | ततोऽसौ भिन्नदेहस्तु तिर्यगेभ्योऽपिपद्यते || नागराजा ततः श्रीमान् धर्मवत्सलः | येनास्य कारितं चैत्य शास्तुबिम्बं मनोरमम् || विहारां कारितवांश्चात्र सङ्घस्यार्थे तदा भुवि | तेन कर्मविपाकेन अन्तिमे च भवे श्रिते || बुद्धत्वं नियतं मार्गं प्राप्नुयादचलं पदम् | ततः परेण गौडानां तीर्थिकाक्रान्तपुरं भुवि || ता पूर्वदेशेऽस्मिन् नगरे तीर्थिकसमाह्वये | भगवाख्ये नृपे ख्यातः गौडानां प्रभविष्णवः || अभिषिक्तो दक्षिणात्येन प्रतिना प्रभविष्णुना | राज्यं कृत्वा तु वै तत्र पश्चिमां दिशिमागतः || प्रविश्य नगरीं रम्यां साकेतां तु यथेप्सितः | अरिणा भूतस्तु पुनरेव निवर्तते || प्राचीं समुद्रपर्यन्तां तस्करैश्च समावृतः | शस्त्रप्रहारविध्वस्तमृतोऽसौ प्रेततां गतः || त्रीणि वर्षाणि कृत्वासौ भूपालो राज्यमल्पकम् | ततो दस्युर्भिर्ग्रस्तः मृतः प्रेतमहर्द्धिकः || त्रीणि वर्षाणि तत्रैव प्रेतेभ्यो राज्यमकारयेत् | ततोऽपि सो त्यक्तदेहस्तु प्रेतलोकां सुदारुणाम् || प्द्f ८८, प्. ६३३) तस्मान्मुक्तजन्मानः स्वर्लोकं च सदा व्रजेत् | तस्याधरेण नृपतिस्तु समुद्राख्यो नाम कीर्तितः || त्रीणि दिवसानि दुर्मेधः राज्यं प्राप्स्यति दुर्मतिः | तस्याप्यनुजो विक्यातः भस्ममाख्यो नाम नामतः || प्रभुः प्राणातिपातसंयुक्तः महासावद्यकारिणः | निर्घृणी अप्रमत्तश्च स्वशरीरे तु यत्नतः || परलोकार्थिने नासौ बलिसत्त्वदिहैव तु | अकल्याणमित्रमागम्य पापं कर्म कृतं बहु || द्विजैराक्रान्ततद्राज्यं तार्किकैः कृपणैस्तथा | विविधाकारभोगांश्च मानुषा पितरास्तथा || विविधां सम्पदां सोऽपि प्राप्तवान् नृपतिस्तथा | सोऽनुपूर्वेण गत्वासौ पश्चिमां दिशि भूपतिः || कश्मीरद्वारपर्यन्तं उत्तरां दिशिमाशृतः | तत्रापि जितसङ्ग्रामी राज्यं कृत्वा तु वै तदा || द्वादशाब्दानि सर्वत्र मासां पञ्चदशस्तथा | पृथिव्यामार्तरोगोऽसौ मूर्छितश्च पुनः पुनः || महादुःखाभिभूतस्तु भिन्नदेह अधोगतः | तेषां परस्परतो द्वेषे लुब्धानां राज्यहेतुनाम् || महाशस्त्रोपसम्पातं कृत्वा ते तु परस्परम् | अभिषिंच्य तदा राज्यं सकराख्यं बालदारकम् || चिह्नमात्रं तु तं कृत्वा पुनरेव निवर्त्तते | यैर्द्विजातिमुक्यानां भिन्नास्तेऽपि परस्परम् || मागधां जनपदां प्राप्य पुरे उदुम्बराह्वये | द्वै बालौ द्विजातिमुख्यश्च अभिषेच्य स्वयं भुवि || ततोऽनुपूर्वेण गत्वासौ प्राचीं दिशिमाशृतः | गौडां जनपदां प्राप्य निःसपत्ना ह्य वै तदा || प्द्f ८९, प्. ६३४) घातितौ बालमुख्यौ तौ कलिङ्गक्षु दुरात्मना | अकल्याणमित्रमागम्य कृतं प्राणिवधो बहुम् || पूर्वसम्मानिता ये तु नृपैर्विग्रहमानिभिः | घातयामास सर्वेषां गौडानां जनवासिनाम् || सोमाख्योऽपि ततो राजा एकवीरो भविष्यति | गङ्गातीरपर्यन्तं वाराणस्यामतः परम् || नाशयिष्यति दुर्मेध. शास्तुर्बिम्बां मनोरमाम् | जिनैस्तु कथितं पूर्वं धर्मसेतुमनल्पकम् || दाहापयति दुर्मेधः तीर्त्थिकस्य वचे रतः | ततोऽसौ क्रुद्धलुब्धस्तु मित्थ्यामानी ह्यसंमतः || विहारारामचैत्यांश्च निर्ग्रन्थां वसथां भुवि | भेत्स्यते च तदा सर्वां वृत्तिरोधमकारक || भविष्यते च तदा काले मध्यदेशे नृपो वरः | रकाराद्योतयुक्तात्मा वैश्यवृत्तिमचञ्चलः || शासनेऽस्मिं तथा शक्त सोमाख्यससमो नृप | सोऽपि याति तवान्तेन नग्नजातिनृपेण तु || तस्याप्यनुजो हकाराख्य एकवीरो भविष्यति | महासैन्यसमायुक्तः शूरः क्रान्तविक्रमः || निर्धारये हकाराख्यो नृपतिं सोमविश्रुतम् | वैश्यवृत्तिस्ततो राजा महासैन्यो महाबलः || पूर्वदेशं तदा जग्मुः पुण्ड्राख्यं पुरमुत्तमम् | क्षत्रधर्मं समाशृत्य मानरोपमशीलिनः || घृणी धर्मार्त्थको विद्वां कुर्यात् प्राणिवधं बहून् | सत्त्वानुपीडनपरो निग्रहायैव सो रतः || पराजयामास सोमाख्यं दुष्टकर्मानुचारिणम् | ततो निषिद्धः सोमाख्यो स्वदेशेनावतिष्ठतः || प्द्f ९०, प्. ६३५) निवर्तयामास हकाराख्यः म्लेच्छराज्ये मपूजितः | तुष्टकर्मा हकाराख्यो नृपः श्रेयसा चार्थधर्मिणः || स्वदेशेनैव प्रयातः यथेष्टगतिनापि वा | तैरेव कारितं कर्म राज्यहर्षीसमन्वितैः || अधुना प्राप्तवां भोगां राज्यवृत्तिमुपाशृताम् | पूर्वं प्रत्येकबुद्धाय भक्ताच्छादनदत्तवाम् || पादुकौ च तदा दत्तौ च्छत्रचामरभूषितम् | तस्य धर्मप्रभावेतौ महाराज्यतृदेवतौ || भुक्तवां भोगसम्पत्तीः देवमनुष्यसर्वदा | सोमाख्यो द्विजाह्वयो महाभोगी भवे ह्यसौ || भोगां द्विजातिषु दत्त्वा वै राज्यं कृत्वा वै तदा | सार्धं सप्तमं तथा * * * * * * * * * (?) || वर्षा दश सप्तं च मासमेकं तथापरम् | दिवसां सप्तमष्टौ च मुखरोगसमाकुलः || कृमिभिर्भक्षमाणस्तु कालं कृत्वा अधोगति | अमानुषाक्रान्तविध्वस्तं तत् पुरं च अभूत् तदा || मानुषेणैव दोषेण ज्वरार्तो व्याधिमूर्च्छितः | मृतो मन्त्रप्रयोगेण राजासौ कालगतस्तदा || अवीचिर्नाम विख्यातं नरकं पापकारिणा | तत्रासौ उपपद्येत ज्पापकर्मान्तचारिणः || महाकल्पं तदा नरके पच्यतेऽसौ दुष्टचेतसः | ततो टटं हहवं चैव सञ्जीवं कालसूत्रं तु || असिपत्रवनं घोरं अनुभूय पुनः पुनः | तिर्यक्प्रेतलोकं च पुनस्तथा || एवं जन्मसहस्राणि संसारे संसरतः पुनः | नासौ विन्दति सौख्यानि दुःहधानी भवेद् सदा || प्द्f ९१, प्. ६३६) तस्मात् सर्वप्रयत्नेन शासनेऽस्मिं तथागते | प्रसाद्यमखिलं चित्तं गच्छध्वं निर्जरसम्पदम् || बुद्धे कारापकारां च अनन्ता भवति कर्मता | बुद्धे प्रासादः कर्तव्यः धर्मसङ्घे च वै तथा || भवन्ति लोके अग्रस्तु त्रिरन्त्रे पूजका नृपा | महेशाख्यमहेराज्यं महाभोगा धनेश्वरा || प्राप्नुयाद् विविधां सोख्यां सम्पदां विपुलां नृपा | पूजयित्वा तु लोकाग्र्यां लोक ईश्वरतां व्रजेत् || शक्रत्वमथ याम्यत्वं ब्रह्मत्वं च पुनः पुनः | प्रत्येकबुद्धा बुद्धत्वं श्रावकत्वं च वै भुवि || प्राप्नुवन्ति त्रियानमग्रत्वं द्वौ यातौ निःस्पृहतां गतः | एवं ह्यचिन्तिया बुद्धा बुद्धज्ञानोपचिन्तियः || अचिन्तियो हि फलं तेषां विपाको भवन्त्यचिन्तियः | अतः परेण सोमाख्यो नृपतौ अप्यस्तमिते भुवि || अन्योन्यक्षोभशीलस्तु गौडतन्त्रो भविष्यति | सदा उद्यतशस्त्रास्तु अन्योन्यापि नपेक्षिणः || दिवसा सप्तमेवं तु मासमेकं तथापरम् | गणज्यं तदा तन्त्रे भविष्यति सदा भुवि || गङ्गातीरे एतस्मिं विहाराध्युषितमालये | ततः परेण सुतस्तस्य सोमाख्यस्य च मानवे || मासान्यष्टौ दिवसा पञ्च साधाहे सुनिशात्यन्तु | वैश्यवर्णशिशुस्तदा * * * * * * * * (?) || नागराजसमाह्वेयो गौडराजा भविष्यति | अन्ते तस्य नृपे तिष्ठं जयाद्यावर्णतद्विशौ || वैश्यैः परिवृता वैश्यं नागाह्वेयो समन्ततः | दुर्भिक्षोपद्रवास्तेऽपि परचक्रोपद्रुतास्तदा || प्द्f ९२, प्. ६३७) तेषां राज्यमसम्प्राप्तं महातस्करमाकुलाः | ते तं भ्रष्टमर्यादा * * * * * * * * * (?) || वर्षा पञ्चकमेकं वै भुङ्क्ते तत्र समाकुलाम् | प्राणात्ययं तदा चक्रुः कृत्वा प्राणिवधं बहून् || पूर्वकर्मपराधेन ते जना वैश्यवृत्तयः | अन्योन्यक्षोभशीलास्तु भविष्यन्ति तदा अभूत् || प्रभविष्णुस्तदा तेषां क्षत्रवृत्तिसमाश्रितः | भविष्यन्ति न सन्देहः गौडतन्त्रे नराधिपः || शस्त्रभिन्ना तथा केचिद् व्याधिभिश्च समाकुलाः | कालं कृत्वा ततो याता नरकेभ्यो नराधिपा || स्त्रीप्रधानं शिशुस्तत्र पुनरेव नराधिपः | पक्षमेकं तथा वै शस्त्रभिन्नो हतस्तदा || महादुर्भिक्षसम्पातं परचक्रसमाकुलम् | प्राच्या जनपदा व्यस्ता उत्रस्ता गतमानसा || भविष्यन्ति न सन्देहः तस्मिं देशे नराधिपाः | मधुरायां जातवंशाढ्यः वणिक् सूर्वी नृपो वरः || सोऽपि पूजितमूर्त्तिस्तु मागधानां नृपो भवेत् | तस्याप्यनुजो भकाराख्यः प्राचीं दिशि समाशृतः || तस्यापि सुतः पकाराख्यः प्राग्देशेष्वेव जायतः | क्षत्रियः अग्रणी प्रोक्तः बालबन्धानुचारिणः || दश वर्षाणि सप्तं च बन्धनस्थमधिष्ठितः | गोपाख्येन नृपतिना बद्धो मुक्तोऽसौ भगवाह्वये || पश्चाद्देशसमायातः अकाराख्यो महानृपः | प्राचिं दिशिपर्यन्तं गङ्गातीरमतिष्ठत || शूद्रवर्णो महाराजा महासैन्यो महाबलः | सो तं तीरं समाशृत्य तिष्ठते च समन्ततः || प्द्f ९३, प्. ६३८) पुरीं गौडजने ख्यातं तीर्थाह्वति विश्रुतः | समाक्रम्य राजासौ तिष्ठते च महाबलः || तत्रौ च क्षत्रियो बालः वणिना च तथागतः | रात्रौ प्रविष्टवांस्तत्र रात्र्यन्ते च प्रपूजितः || शूद्रवर्णै नृपः ख्यातः पुनरेव निवर्तयम् | गङ्गातीरपर्यन्तं नगरे नन्दसमाह्वये || मागधानां तदा राज्यं स्थापयामास तं शिशुम् | काशिनं पद प्राप्य वारणस्यमतः पुरे || प्रविशेच्छूद्रवर्णस्तु महीपालो महाबलः | महारोगेण दुःखार्तः अभिषेचे स तं तदा || अभिषिच्य तदा राज्यं ग्रहाख्यं बालदारकम् | महारोगाभिभूतस्तु भूमावावर्त वै तदा || ततोर्ध्वं निःश्वस्य यत्नेन भिन्नदेहोऽपि तीर्यतः | तिर्येभ्ये वसं मासां अष्ट सप्तं च वै तदा || ततोऽसौ मुक्तजन्मान देवेभ्यो मुपपद्यते | विविधां देवसम्पत्तिं विंशजन्मानि वै तदा || ततोऽनुपूर्वेण धर्मात्मा प्रत्येकं बोधिमाप्नुयात् | तेनैवोपार्जितं कर्म पूर्वकालेषु जन्मनि || प्रत्येकबुद्धो महात्मा वै वस्त्रैः समभिच्छादितः | उपानहं नामयामास हस्त्यश्वरथहेतुना || भोजनं च तदा तस्य तस्मा दद्युः प्रयत्नधीः | तेन कर्मविपाकेन देवराजा शतक्रतुः || भविता देवलोकेऽस्मिं त्रिंशत्कोट्यास्तु जन्मतः | भुविमायात राजासौ भविता इह जन्मनि || परैरुपार्जितं राज्यं अनुभोक्ता भविष्यति | तस्यापि च सुतो राजा वाराणस्यां तु प्रतिष्ठितः || प्द्f ९४, प्. ६३९) समन्ताद्धतविध्वस्तविलुप्तराज्यो भविष्यति | द्विजक्रान्तमभूयिष्ठं तद् राज्यं रिपुबिस्तदा || प्रमादी कामचारी च स राजा ग्रहचिह्नितः | अपश्चिमे तु काले वै पश्चाच्छत्रुहतो मृतः || मागधो नृपतिस्तेषां अन्योन्यावरोधिनः | सोमाख्ये नृपते वृत्ते प्राग्देशे समन्ततः || गङ्गातीरपर्यन्तं वाराणस्यामतः परम् | भविष्यति तदा राजा पकाराख्यः क्षत्रियस्तदा || योऽसौ शूद्रवर्णेन अकाराख्येन पूजितः | नगरे नन्दसमाख्याते गङ्गातीरे तु समाश्रिते || भविता क्षत्रियो राजा पूर्वकर्मैस्तु चोदितः | तेनैव कारितं कर्म कृतं चाप्यनुमोदितम् || अतिक्रान्ते तदा काले कनकाह्वे शास्तुसम्भवे | वाराणस्यां महानगर्यां श्रेष्ठिरासीन्महाधनः || वणिजः स सुतो बालः बालिशैस्तु समावृतः | पांसुक्रीडनमर्थाय रथ्यायां प्रतिपद्यते || स्वगृहे स्तूपवरं दृष्ट्वा पितामात्राभिपूजितम् | तदेव मन्सा वर्ते स्तूपं कृत्वा तु पांसुना || पूजां च कारयामास निर्माल्यकुसुमैस्तदा | संस्तवामास तं स्तूपं बुद्धत्वं श्राद्धगतिस्मृतिः || क्रीडते बालस्तत्र शुशुभिः परिवारितः | जिने कनकशास्तुस्य श्रावकाग्रो तदैककः || वीतदोषस्तु युक्तात्मा त्रैधातुकमुक्तधीः | तदासौ वीतदोषस्तु पिण्डपातमहिण्डत || प्रविशते च तदा नगरीं वारणस्यां सुशोभनाम् | वीतरागस्तदादेशं यत्र ते बालिशा भुवि || प्द्f ९५, प्. ६४०) यत्र ते शैशवः सर्वे समन्तात् परिवारिताः | एहि भिक्षु इहागच्छ वन्द स्त्वं शास्तुचैत्यकम् || अस्माभिः कारितं यत्नात् न त्वं पश्यसि शोभनम् | ततः श्रेष्ठिसुतो बालः गृहीत्वा तृणवरितितम् || क्रीडया बन्धयामास वीतरागं महर्द्धिकम् | समन्वाहरति तत्रासौ वीतरागो महर्द्धिकः || पश्यते भुवि तत्रस्थं चैत्यं कारितकं हि तैः | बालिशं मूर्ध्नि मासृज्य एवं वोच महात्मधीः || मुञ्च दारक गच्छामो यत्र त्वं कारितं कृतिः | आगता च ततः सर्वे यत्र धातुधरं भुवि || वन्दित्वा वीतरागा महात्मासौ शिशुभिश्चैतदासमैः | पुनरेव प्रस्थितो वीरः पिण्डकार्थं यथेप्सतः || ततः श्रेष्ठिसुतो बालः गृहीत्वा चीवरान्तिकम् | स्वगृहं नीतवां ह्यासीद् भोजनार्थं च कारयेत् || ततः श्रेष्ठिमुख्योऽसौ दृष्ट्वा तं बालिशम् | गृहीत्वा चीवरान्ते तु वीतरागं महर्द्धिकम् || भीतो हृष्टरोमश्च गृहं मे आगतोऽग्रजः | पादयोर्निपतितं क्षिप्रं मुञ्चापयति बालकम् || गृहीत्वा तु सुतं तस्य क्षमापयामास यत्नतः | पात्रं तु गृहीत्वा वै जिने अग्रजिते हिते || पूरयामास तं पात्रं शालिव्यञ्जनभक्षकैः | सुतं चामन्त्रयामास गृह्य मन्त्र प्रयच्छ भोः || ततो बालोऽथ सप्रज्ञो हस्तौ प्रक्षाल्य यत्नतः | गृहीत्वा पात्रपूरं तु वीतरागाय नामयेत् || नामयित्वा तु तं क्षिप्रं पादयोर्निपतितो भुवि | वीतरागो गृहीत्वा तु भुक्तवाम् || प्द्f ९६, प्. ६४१) वीतरागो तदा ह्यासीत् सुखसंस्पर्शं च लब्धवाम् | अपरस्तत्र बालो वै मात्सर्याविष्टमानसः || केवलं रोषचित्तेन वीतरागो परेऽहनि | प्रभूतं खाद्यभोज्यं च गृहीत्वा तं प्रयच्छत || यद्यस्ति कुशलं किञ्चित् त्वयि दत्वा तु पिण्डकम् | अनेन श्रेष्ठिसुतस्याहं भविता आढ्यतमो भुवि || ततस्ते तीर्थिकाः सर्वे द्विजातिवनिता तदा | सन्निपत्य तदा सर्वे कलहं निन्दकं कृत्वा || बालिशस्त्वं न जानासि मुण्डकानां कुतो गतिः | आत्मना अस्थिता ह्येते परेषां कुत्र निर्वृतिः || तस्य बालकसत्त्वस्य द्वेषमुत्पन्न तादृशम् | नाशयामास एतेषां शास्तारेणोपवर्णिताम् || धर्मसेतु सदा कीर्तिं विहारां चैत्यवरां भुवि | श्रेष्ठिमुख्यसुतस्यैव आघातं चैव कारयेत् || एतेषां मुण्डकानां तु दत्त्वा दानं कुतो गतिः | कुगतिग्रस्तचित्तानां विघातं कारयाम्यहम् || यो सौ वाद्यतमो बालो सोमाख्योऽपि नृपो ह्यसौ | अनुभूय चिरं दुःखं विपाकः तस्य नैष्ठिकम् || श्रेष्ठिमुख्यस्य पुत्रोऽसौ भिन्नदेहो दिविं गतः | अनुभूय चिरं सौख्यं दिवौकसानां तदा तदा || च्युतोऽसौ देवलोकेऽस्मिम् | तदाजन्मे बन्धं सेत्स्यति सर्वदा || तृजन्मोपगतो मर्त्यः क्ष्मापतिः भविता पुनः | पुनश्च पतितः कर्मेण तत्र तत्र तदा तदा || भविता जन्मलोकेऽस्मिं नृपतित्वं कारयेद् भुवि | निर्माल्यदानं यस्स्तूपे निवेद्य सौ बालचापलात् || तेनास्य भोगा क्लिष्टा वै क्लिष्टादानस्य तत् फलम् | दुःखेन भोगांस्तु प्राप्तस्तु नग्नसन्धीव सौ नृपः || प्द्f ९७, प्. ६४२) अस्थैर्या बालवत्त्वच्च चलचित्ततया च सदा | कुर्वीत महतीं पूजां शास्तुर्धातुवरे भुवि || तेन कर्मविपाकेन राज्यैश्वर्यं चलतां व्रजेत् | भूत्वा भवति राजा अभूत्वा प्रतिगच्छति || उदीच्यप्रतीच्यमध्यौ सो नृपतित्वं कारयेद् भुवि | यो सौ मुक्तधीवन्धः पुनर्मुक्तश्च बालकः || तेन कर्मविपाकेन बद्धो मुक्तश्च बालकः | पञ्चजन्मशतानैव बद्धो मुक्तश्च बालकः || अपश्चिमे तु तदा जन्मे बन्धं छेत्स्यति सर्वदा | पञ्चपञ्चाशवर्षस्तु सप्तसप्ततिकोऽपि वा || प्राचीं समुद्रपर्यन्तां राजासौ भविता भुवि | विन्ध्यकुक्षिनिविष्टास्तु प्रत्यन्तम्लेच्छतस्कराः || सर्वे ते वशवर्ति स्यात् पकाराख्ये नृपतौ भुवि | हिमाद्रिकुक्षिसन्निविष्टा तु उत्तरां दिशिमाशृताम् || सर्वां जनपदां भुङ्क्ते राजासौ क्षत्रियस्तदा | पांसुना कृत्वा स्तूपं अज्ञानाद् बालभावतः || मागधेषु भवेद् राजा निःसपत्नमकण्टकः | सैमामटवीपर्यन्तां प्राचीसमुद्रमाशृतः || लौहित्यापरतो धीमां उत्तरे हिमवांस्तथा | पश्चात् काशिपुरी रम्यां शृङ्गाख्ये पुर एव वा || अत्रान्तरे महीपालः शास्तुशासनदायकः | पञ्चकेसरिनामानौ जित्वा नृपतिनौ सौ || स्वं राज्यमकारयत् * * * * * * * * * (?) || सर्वास्तां सिंहजास्तेऽपि ध्वस्तोन्मूलिता तदा || हिमाद्रिकुक्षिप्राच्यां भो दशानूपः तीरमाश्रयेत् | सत्त्वा जनपदां भुङ्क्ते राजासौ क्षत्रियस्तदा || प्द्f ९८, प्. ६४३) अभिवर्धमानजन्मस्तु भोगास्तस्य च वर्द्धताम् | वार्धिक्ये च तदा प्रोक्ते भोगां निश्चलतां व्रजेत् || अशीतिवर्षाणि जीवेयुः सप्त सप्त तथा पराम् | ततो जीर्णाभिभूतस्तु कालं कृत्वा दिविं गतः || देवलोकेऽस्मिं चिरसौख्यमनुभूय तथा नृपः | पुनश्चवति कर्मेण पूर्वसङ्क्लेशितेन तु || तिर्यक्षु न्वसे मासं नागराजमहर्द्धिकः | ततोऽसौ भिन्नदेहस्तु मानुषेभ्योपपद्यते || क्षत्रियो धीमतो जतो वणिग्जीवी विशारदः | कल्याणमित्रमागम्य भोक्तासौ जिनशासने || साधयेद् विद्याराज्ञीं तारादेवीं महर्द्धिकाम् | सिद्धमन्त्रस्तु जिनो नासौ यथेष्टगतिचारिणः || विद्याधराणां तदा राजा भविता सुगतस्तदा | चक्रवर्तिस्तदा ख्यातो नाम्नासौ चित्रकेतवः || विद्याधराणां तदा कर्म ख्यातोऽसौ मतिमांस्तथा | अशीतिवर्षकोट्यानि नवसप्तानि चैतदा || दिव्यमानुष्यमाद्येन भविता चक्रवर्त्तिनः | परिवारस्तस्य कन्यानां षष्टिकोट्यो मजायत || ततोऽसौ भिन्नदेहस्तु तारादेव्यानुचोदितः | देवानामधिपतिं गच्छेत् तत्र धर्मं च देशयेत् || सोऽनुपूर्वेण महीपाल क्षिप्रं बोधिपरायणः | पकाराख्ये च नृपतौ वृत्ते तदा काले युगाधमे || भिन्नं परस्परं तत्र महाविग्रहमाशृताः | बृत्यस्तस्य तु सप्ताहं राज्यैश्वर्यमकारयेत् || ततोऽनुपूर्वेण सप्ताहाद् वकाराख्यो नृपतिस्तथा | सोऽप्यह*****(?) प्रक्रमेत दिशास्ततः || प्द्f ९९, प्. ६४४) पकाराख्ये नृपतौ तत्र भकाराद्यो मतः परः | सोऽपि त्रीणि वर्षाणि राज्यैश्वर्यमकारयेत् || तस्याप्यनुजो वकाराख्यो व्रतिना समधिष्ठितः | त्रीणि वर्षाणि एकं च भविता राज्यवर्द्धन || अजीर्णितौ उभावप्येतौ सद्यातीसारमूर्च्छितौ | कालगतौ लोके यक्षेभ्योपपद्यते || तेऽनुपूर्वेण धर्मात्मानो प्रत्येकां बोधिमाप्नुयाम् | तस्याप्यनुजो धकाराख्यः क्षत्रियो धर्मवत्सलः || भविता सोऽपि रजा वै त्रीणि वर्षाणि | भवितासौ नराधिपः || तस्यापि कन्यसो राजा वकाराख्योऽथ विश्रुतः | भविता तत्र देशेऽस्मिं सार्वभूमिकभूपतिः || हस्त्यश्वरथयानानि नौयानानि समन्ततः | जेता रिपूणां सर्वेषां समरे प्रत्युपस्थिताम् || स इमां जनपदां सर्वां कृत्स्नां चैव वसुन्धराम् | शास्तुबिम्बैर्विहारैश्च जिनानां धातुधरैस्तथा || शोभापयति सर्वां वै कृत्स्नां चैव वसुन्धराम् | नृपपूर्वी तथा तस्य द्विजातिः शाक्यजस्तथा || मानी तीक्ष्णोऽथ स प्राज्ञः बोधिनिम्नोऽथ मानधीः | सैवास्य सुखायतां याति तस्मिं काले युगाधमे || क्षत्रियः अग्रधीः प्रोक्तः राजा वै धर्मवत्सलः | जीवेद् वर्षशतं विंशत् सप्त चाष्टं च यत्नतः || स्त्रीकृतेनैव दोषेण कालं कृत्वा दिविं गतः | सोऽनुपूर्वेण मेधावी प्राप्नुयाद् बोधिमुत्तमाम् || ततः परेण विख्यातः श्रीनामाथ महीपतिः | गौडतन्त्रे महाराजा भविता धर्मवत्सलः || प्द्f १००, प्. ६४५) गौडानां च पुरे श्रेष्ठे वकाराद्ये च महाजने | कारयेत् तत्र राज्यं वै जितशु समन्ततः || विहारां कारयामास सप्त*(?)ष्टौ च तत्र वै | द्विजमुख्या तथा युक्ते शाकजेति समाश्रिते || तेन साहाययतां याते कुर्याद् राज्यं समन्ततः | अशीतिरेकं च वर्षाणि जीवेत् तत्र नराधिपः || भृत्यदोषेण धर्मात्मा कालं कृत्वा दिविं गतः | अनुपूर्वेण तथा राज्यं देवानामपि कारयेत् || ततोऽसौ भिन्नदेहस्तु स्वर्गात् स्वर्गतमं व्रजेत् | परिपूर्य कुशलात् धर्मां बोधि ये तस्य हेतवः || तस्यैव भृत्यो राजा वै कुर्याद् राज्यमकण्टकम् | नाम्ना यकाराद्यस्तु महीपालो भविष्यति || सप्त चैकं च वर्षाणि कुर्याद् राज्यं तदा युगे | सैव घात्यते स्त्रीभिः घातितश्च अधो गतः || पुनः पकारवंशास्तु राजा भविताथ क्षत्रियः | तेनासौ भृत्यवर्गस्तु घातितोऽसौ निरन्तरः || अकल्याणमित्रमागम्य कृतं प्राणिवधं बहून् | भविता सर्वलोकेऽस्मिं प्रतापोर्जितमूर्च्छितः || क्षिप्रकारी चपलस्तु मद्यपश्च शठप्रियः | मद्यप्रमादात् सम्मूढः तदासौ शयने भुवि || भिन्नोऽसौ शस्त्रघातैस्तु अरिभिश्च समुद्यतैः | ततोऽसौ भिन्नदेहस्तु कालं कृत्वा अधोगतः || तस्याप्यन्यतमो भ्राता रकाराद्यो नामतः स्मृतः | अष्टचत्वारिंशद्दिवसानि राज्यकर्त्ता सदा भुवि || दत्वा द्रविणं द्विजातिभ्यः कालं कुर्यान्न संशयः | ततः परेण भूपालः स्वादाद्यो भविता तदा || प्द्f १०१, प्. ६४६) स एव शूद्रवर्णस्तु व्यङ्गः कुत्सित एव तु | अधर्मभूयिष्ठः दुःशीलो विग्रहे च सदा रतः || द्विजातिगणसामन्तां संयतां प्रव्रजितांस्तथा | स हापयति सर्वा वै निग्रहे च सदा रतः || तीव्रशासनकर्ता च तस्करां घातकस्तथा | निषेद्धा सर्वदुष्टानां पाषण्डव्रतमाशृताम् || विनिर्मुक्ता च दाता च राज्यं कृत्वा तु वै तदा | दशवर्षाणि सप्तं च जीवेद् भूपतिस्तत्र वै || कुष्ठदुःखाभिभूतस्तु कालं कृत्वाथ तिर्यत् | तिर्यग्भ्यो नागराजस्तु महाभोगी विशारदः || मूर्त्तिमां परमवीभत्सी स्फुटाटोपी च वै तदा | अनुभूय चिरं दुःखं धर्मतस्तस्य नैष्ठिकम् || एवम्प्रकाराः कथिता भूपाला लोकवर्द्धना | विदिता सर्वलोकेऽस्मिं प्राच्या च स्थितदेहिनी || पकाराख्यस्य नृपतौ वंशाद् वंशजोऽपरः | क्षत्रियः शूरविक्रान्तः त्रिसमुद्राधिपतिस्तदा || भविता प्राच्यदेशेऽस्मिं महासैन्यो महाबलः | शास्तुधातुधरैर्दिव्यैर्विहारावसथमन्दिरैः || उद्यानविविधैर्वाप्यैः कूपमण्डपसङ्क्रमैः | सत्रागारतथानित्यं शोभापयति मेदिनीम् || भक्तोऽसौ जिनवरां श्रेष्ठां उत्तमं यानमाशृतः | शाक्यप्रव्रजितेनैव स तदा निष्ठितो ह्यसौ || वर्जयेद् दक्षिणां सर्वां दक्षिणां चैव प्रभावयेत् | नाम्ना ककारविख्यातः स्मृतिमांश्चैव विशारदः || राज्यं कृत्वा तु भूपालः वर्षाण्येकविंशति | ततोऽसौ विषूचिकाभिश्च कालं कृत्वा दिविं गतः || प्द्f १०२, प्. ६४७) सोऽनुपूर्वेण मेधावी क्षिप्रं बोधिपरायणः | तस्यैव शेषवंशास्तु पराधीनायतनवृत्तनः || ततः परेण भूपाला गोपाला दासजीविनः | भविष्यति न सन्देहो द्विजातिकृपणा जना || अधर्मिष्ठ तदा काले निर्नष्टे शास्तुशासने | मन्त्रवादेन सत्त्वानां कुशलार्थां नियोजयेत् || कुमारेण तु ये प्रोक्ता मन्त्रा भोगवर्द्धना | साधनीया तदा काले राज्यैश्वर्येण हेतुना || न साध्या उत्तमा सिद्धिः तस्मिं देशे तु वै तदा | धर्मचक्रे तथा रम्ये महाबोधिवने तथा || यत्रासौ भगवां शान्तिं निरोपधिं च प्रविष्टवां | तत्र साध्यौ इमौ मन्त्रौ तारा भृकुटी च देवता || समुद्रकूले तथा नित्यं विस्फूर्ज्यां सरितावरे | गङ्गातीरे तु सर्वत्र साधनीयाब्जसम्भवा || योऽसौ बोधिसत्त्वस्तु चन्द्रनामाथ विश्रुतः | स वै तारमिति प्रोक्ता विद्याराज्ञी महर्द्धिका || स्त्रीरूपधारिणी भूत्वा देवी विचेरुः सर्वतो जगतः | सत्त्वानां हितकाम्यार्थं करुणार्द्रेण चेतसा || सहां च लोकधातुस्थां तैम्भ्याख्यमिति वर्तते | महर्द्धिको बोधिसत्त्वस्तु दशभूम्यानन्तरप्रभुः || विनेयः सर्वसत्त्वानां तारा देवी तु कीर्त्यते | अयत्नसिद्धिमेवास्य रक्षावरणगुप्तये || यत्नेन साध्यते देवी भोगैश्वर्यविवर्द्धना | बोधिसम्भारहेतुं च * * * * * * * * (?) || अनुबद्धा तदा देवी करुणाविष्टा हि देहिनाम् | मन्त्ररूपेण सत्त्वानां बोधिसम्भारकारणा || प्द्f १०३, प्. ६४८) सर्वेषां तुष्टिपुष्ट्यर्थं पूर्वायां दिशिमाश्रितः | सहस्रार्धं पुनः कृत्वा आत्मनो बहुधा पुनः || भ्रमते वसुमतीं कृत्स्नां चत्वारो दधि पर्ययाम् | पूर्वेण ततः सिद्धिः वाराणस्यां परेण वा || सक्षेत्रस्तस्य देव्या तु पूर्वदेशः प्रकीर्तितः | सिद्ध्यते यक्षराट् तत्र जम्भलस्तु महाद्युतिः || भोगकामैः तदा सत्त्वैः तस्मिं काले युगाधमे | यक्षराट् तारादेव्या तु साध्येतौ पुष्टिकामतः || क्रोधनास्तु तथा मन्त्राः साध्यतां दक्षिणापथे | म्लेच्छतस्करद्वीपेषु अम्भोधेर्मध्य एव वा || सिध्यते च तदा तारा यक्षराट् चैव महाबलः | हरिकेले कर्मरङ्गे च कामरूपे कलशाह्वये || विविधा दूतिगणाः सर्वे यक्षिण्यश्च महर्द्धिकाः | मञ्जुघोषेण ये गीता मन्त्रा भोगहेतवः || तत्र देशे यथा सिद्धिः नान्यस्थानेषु तथा भवेत् | पूर्वं दिशि विदिक्षुश्च मन्त्रा विविधहेतवः || कथितास्तु तदा काले साधनीयास्तु देहिभिः | मध्यदेशे तथा मन्त्री भूपाला विविधास्तथा || विस्तरां सत्त्वदौर्बल्यां अल्पबुद्धिं निबोधताम् | संक्षेपो नृपतिमुख्यानां सङ्ख्या तेषां निगद्यते || मकाराद्यो नकाराद्यः पकाराद्यश्च कीर्त्यते | दकाराद्यश्च इकाराद्यः सकाराद्यश्च अकाराद्य || ग्रहाख्यश्च कीर्त्याख्यः हकाराद्यश्च घुष्यते | शकाराद्यश्च भवेत् तदा * * * * * * * (?) || जकाराद्यो वकाराद्यो लकाराद्यः सोमचिह्नितः | हकाराद्यश्चैव प्रख्यातः अकाराद्य पुनस्तथा || प्द्f १०४, प्. ६४९) सकारो लकाराद्यश्च स्त्र्याख्यया लोकविद्विषः | सकाराद्यो मकाराख्यः लोकानां प्रभविष्णवः || क्रमतः कृमिनः चिह्नः ब्राह्मणाश्च वैश्यवृत्तयः | अधर्मकर्मा भूयिष्ठाः विद्विष्टाः स्त्रीषु लोलुपाः || प्रभूतपरिवारा महीपालास्तस्मिं काले युगाधमे | भविष्यन्ति न सन्देहः मध्यदेशे नराधिपाः || विंशद् वर्षाणि शतं चैव आयुरेषा युगाधमे | मनुष्याणां तदा काले दीर्घमायुरिति कीर्त्यते || तेषां मध्योत्कृष्टानां अन्तरा उच्चनीचता | अल्पायुषो नृपतयः सर्वे कथिता तु तदा युगे || नदीगङ्गा तथा तीरे हिमाद्रेश्च नितम्बयोः | कामरूपे तथा देशे भविष्यन्ति तथा नृपाः || आद्ये मध्ये तथान्ते च अङ्गदेशेषु कथ्यते | आद्यं वृत्सुधानश्च कर्मराजा स कीर्तितः || अन्तेऽङ्गपतिः तदङ्गं च सुभूतिर्भूतिरेव च | सदहो भवदश्च कामरूपे अजातयः || सुभूमृगकुमारान्ता वैशाल्यां वकारयोः | तत्रासौ मुनिर्जातः कपिलाह्वे पुरोत्तमे || शुद्धान्ता शाक्यजाः प्रोक्ता नृपा आदित्येक्षसम्भवा | शुद्धोदनान्तविख्याता शाक्यं शाक्यवर्द्धनाम् || अल्पवीर्यास्तु मन्त्रा वै कथिता लोकपुङ्गवैः | जिनप्रोक्तास्तु ये मन्त्राः सर्वचेटगणास्तथा || तथा विविधा दूतिगणाः सर्वे वज्राब्जकुलयोरपि | साध्यमानस्तु सिध्यन्ते मन्त्रतन्त्रार्थकोविदैः || सर्वे ते लौकिका मन्त्राः सिध्यन्तेऽत्र मध्यतः | विशेषतो मध्यदेशस्थाः साधनीया जिनभाषिता || प्द्f १०५, प्. ६५०) विविधाकारचिह्नैस्तु विविधाकारकारणैः | विविधप्रयोगप्रयुक्तास्तु विविधा सिद्धिदेहिनाम् || मध्यशेदे तथा मन्त्राः साध्या वै भोगवर्धनाः | रक्षाहेतुपरित्राणं वश्याकर्षणदेहिनाम् || अतीतानागता प्रोक्ताः मध्यदेशे नराधिपाः | विविधाकारचिह्नैस्तु विविधायुष्यगोत्रतः || सर्वे नरपतयः प्रोक्ता उत्तमाधममध्यमाः | त्रिप्रकारा तथा सिद्धिः त्रिधा कालेषु योजयेत् || त्रिविधास्तु तथा मन्त्राः कथिता मुनिवरैस्तथा | अनन्ता नृपतयः प्रोक्ता मध्यदेशेऽथ पश्चिमे || उत्तरापरपूर्वैस्तु विदिक्षुः सर्वतस्तथा | द्वीपेषु बहिः सर्वेषु चतुर्धा परिचिह्नितैः || अनन्ता महीपतयः प्रोक्ता अनन्ता मन्त्रसाधनाः | अनन्ता दिशमाश्रित्य अनन्ता मन्त्रसिद्धयः || निग्रहानुग्रहार्थाय शासनेऽन्तर्हिते मुनौ | मन्त्रा नृपतिषु काले वै मञ्जुघोषेण भाषिता || क्रीडारक्षविकुर्वार्थं कालचर्या तु कथ्यते | मन्त्रमाहात्म्यसत्त्वानां गतियोनिनृपाह्वये || देशकालसमाख्यातः मन्त्रसाधनलिप्सुनाम् | प्रसङ्गा नृपतयः कथिताः शासनान्तर्विते पथे || मन्त्राणां गुणमाहात्म्यं फलमन्ते च बोधितः | कथिता द्वे परे याने नृपा पूर्वनिबोधिताः || प्रतिष्ठितास्तु न सन्देहः तस्मिं काले युगाधमे | कथिता नृपतयः सर्वे ये तु दिशमाशृताः || प्रव्रज्या ध्रुवमास्थाय **(?)यप्रवचने तदा | शासनार्थं करिष्यन्ति म**(?)दसदारता || प्द्f १०६, प्. ६५१) अस्तं गते मुनिवरे लोकैकाप्रसुवक्षुषे | तेषां कुमार ! वक्ष्यामि शृणुष्वैकमनास्तदा || युगान्ते चष्ट लोके शास्तुप्रवचने भुवि | भविष्यन्ति न सन्देहो यतयो राज्यवृत्तिनः || तद्यथा मातृचीनाख्य कुसुमाराख्यश्च विश्रुतः | मकाराख्ये कुकाराख्यः अत्यन्तो धर्मवत्सलः || नागाह्वश्च समाख्यातो रत्नसम्भवनामतः | गकाराख्यः कुमाराख्यः वकाराख्यो धर्मचिन्तकः || अकाराख्यो महात्मासौ शास्तुशासनदुर्धरः | गुणसम्मतो मतिमाम् लकाराख्यः प्रकीर्तितः || रकाराद्यो नकाराद्यः प्रकीर्तितः | बुद्धपक्षस्य नृपतौ शास्तुशासनदीपकः || अकाराख्यो यति ख्यातो द्विजः प्रव्रजितस्तथा | साकेतपुरवास्तव्यः आयुपाशीतिकस्तथा || अकाराद्यस्तथा भिक्षुः रागी सौ अक्षिणां दिशि | षष्टिवर्षायुषो धीमान् काव्याख्यः पुरवासिनः || थकाराद्यो यतिश्चैव विख्यातो दक्षिणां दिशि | परप्रवादिनिषेद्धा च मन्त्रसिद्धिस्तथा यतिः || अपरः प्रव्रजितः श्रेष्ठः सैह्विकापुरवास्तवी | अनार्या आर्यसंज्ञी च सिंहलद्वीपवासिन || परप्रवादिनिषेद्धासौ तीर्थ्यानामतदूषकः | भविष्यन्ति युगान्ते वै तस्मिं कालेऽथ भैरवे || वकाराद्यो यतिः प्रोक्तो लकाराद्यश्च कीर्तितः | रकाराद्यो विकाराद्यः भिक्षुः प्रव्रजितस्तथा || भविष्यति न सन्देहः शास्तुशासनतत्परः | बालाकौ नृपतौ ख्याते सकाराद्यो यतिस्तथा || प्द्f १०७, प्. ६५२) विहारारामचैत्यांश्च वाप्यकूपांश्च सर्वदा | शास्तुबिम्बा तथा चिह्ना सेतुः सङ्क्रमाश्च वै || भविष्यति न सन्देहः शास्तुभिन्नार्ध्वगः स्मृतः | ततः परेण मकाराद्यः ककाराद्यश्च कीर्तितः || नकाराद्यः सुदत्तश्च सुषेणः सेनकीर्तितः | दत्तको दिनकश्चैव परसिद्धान्तदूषकः || वणिक्पूर्वी वैद्यपूर्वी च उभौ दीनार्थचिन्तकौ | चकाराद्यो यतिः ख्यातः रकाराद्यमत परे || भकाराद्यः प्रथितश्राद्धः शास्तुबिम्बार्थकारकः | मकाराद्यो मातमान् जातो यतिः श्राद्धस्तथैव च || विविधा यतयः प्रोक्ता अनन्ताश्च भविता तदा | सर्वे ते यतयः ख्याता शास्तुशासनदीपकाः || निर्नष्टे च निरालोके शासनेऽस्मिं तदा भुवि | करिष्यति न सन्देहः शास्तुबिम्बां मनोरमाम् || सर्वे वै व्याकृता बोधो अग्रप्राप्ताश्च मे सदा | दक्षिणीयास्तथा लोके त्रिभवान्तकरास्तथा || मन्त्रतन्त्राभियोगेन ख्याताः कीर्तिकराः स्मृताः | अधुना तु प्रवक्ष्यामि द्विजानां धर्मशीलिनाम् || मन्त्रतन्त्राभियोगेन राज्यवृत्तिमुपाश्रिता | भवति सर्वलोकेऽस्मिं तस्मिं काले सुदारुणे || वकाराख्यो द्विजः श्रेष्ठ आढ्यो वेदपारगः | सेमां वसुमतीं कृत्स्नां विचेरुर्वादकारणात् || त्रिसमुद्रमहापर्यन्तं परतीर्थानां विग्रहे रतः | षडक्षरं मन्त्रजापी तु अभिमुख्यो हि वाक्यतः || कुमारो गीतवाह्यासीत् सत्त्वानां हितकाम्यया | एतस्यै कल्पविसरान्महितं बुद्धितन्द्रितः || प्द्f १०८, प्. ६५३) जयः सुजयश्चैव कीर्तिमान् शुभमतः परः | कुलीनो धार्मिकश्चैव उद्यतः साधु माधवः || मधुः समधुश्चैव सिद्धः नमस्तदा | रघवः शूद्रवर्णस्तु शकजातास्तथापरे || तेऽपि जापिनः सर्वे कुमारस्येह वाक्यतः | ते चापि साधकः सर्वे बुद्धिमन्तो बहुश्रुताः || आमुखा मन्त्रिभिस्ते च राज्यवृत्तिसमाश्रिता | तस्यापरेण विख्यातः विकाराख्यो द्विजस्तथा || परे पुष्पसमाख्याता भवितासौ क्रोधसिद्धकः | निग्रहं नृपतिषु दरिद्रात् परिभवाच्च वै || मञ्जुघोष इह प्रोक्तः क्रोधराट् स यमान्तकः | सत्त्वानामथ दुष्टानां दुर्दान्तदमकोऽथ वै || अहितानिवारणार्थाय हितार्थायोपबृंहने | अनुग्रहायैव सत्त्वानां तनुप्राणोप्रोधिने || सो हि माणवको मूढः दरिद्रः क्रोधलोभितः | आवर्त्तयामास तं क्रोधं नृपतेः प्राणोपरोधिनः || तस्यापरेण विख्यातः सकाराद्यो द्विजस्तथा | मन्त्रार्थकुशलो युक्तात्मा * * * * * * * (?) || प्रभुः बहुतरः ख्यातो मन्त्रजापी भवेत् तदा | साधयामास तं मन्त्रं वै वश्यार्थं नान्यकारणम् || वशीभूतेषु भूतेषु धनमन्तो भवति ततः | ततः परेण वै ख्यातो द्विजो धर्मार्थचिन्तकः || शकाराद्यो मत अन्ते भवितासौ मालवे जने | प्रसन्ने शासने ह्यग्रो मन्त्रजापी हि वै भुवि || वेताडग्रहदुष्टां च ब्रह्मराक्षसराक्षसाम् | सर्वभूतनभूतांश्च क्रव्यादां विविधां**(?) || प्द्f १०९, प्. ६५४) सर्वे ते वशिनस्तस्य विषाः स्थावरजङ्गमाः | सर्वे वै वशिनस्तस्य द्विजचिह्नस्य तथाहितैः || ततः परेण विख्यातः द्विजो दक्षिणापथे | वकाराद्यः समाख्यातः शास्तुशासनतत्परः || विहारारामचैत्येस्तु शास्तुबिम्बे मनोरमे | अलङ्करोति सर्वा वै मेदिनीं द्विसमुद्रगाम् || तस्यापरेण विख्यातः द्विजश्रेष्ठो महाधनः | भकाराद्यस्तथा ख्यातो दक्षिणां दिशिमाशृतः || मन्त्ररूपी महात्मा वै नियतं बोधिपरायणः | मध्यदेशे तथा ख्यातं सम्पूणो नामत द्विजः || विनयः सुविनयश्चैव पूर्णो मधुरवासिनः | भकाराद्यो धनाध्यक्षो नृपतीनां मन्त्रपूजकः || इत्येते द्विजातयः कथिताः शास्तुशासनपूजकाः | मध्यान्त आदिमुख्याश्च विविधायतनगोत्रजाः || नानादेशद्विजातीनां पूजका ते परिद्विजाः | नानातीर्थाश्च गोत्राश्च विविधाचारगोचराः || समन्ताद् यतयः प्रोक्ता मानवाश्च बहुश्रुताः | धर्मराजा स्वयं बुद्धः सर्वसत्त्वार्त्थसाधकः || सर्वेषां चैव भूतानां तृदेवानां च कीर्तिताः | चत्वारोऽपि महाराजाः स्र्वलोकेषु कीर्तिताः || विरूढो विरूपाक्षश्च धृतराष्ट्रोऽथ यक्षराट् | शक्रश्च अथ देवानां नियतायुः प्रकीर्तितः || सुजामा देवपुत्रश्च सुनिर्मितो वशवर्तिनः | राजा सन्तुपितः प्रोक्तः काम***रोऽ(?)परः || शक्राद्य एकना*(?)स्तु कामधात्वी धरास्तथा | ***(?)या सदा **(?) एकजापा ***(?) || प्द्f ११०, प्. ६५५) अनन्ताः कथितास्तेऽपि नानारूपधरा सुराः | अतः ऊर्ध्वं समा सर्वे तेऽपि महर्द्धिकाः || एवं संज्ञा सुरश्रेष्ठाः आ संज्ञाताः प्रकीर्तिताः | न तेषां प्रभविष्णु स्यात् तुल्यवृत्तिसमाश्रया || अतः अवीचिपर्यन्तं न राजा तत्र विद्यते | नरकाष्ठौ षोडशोत्सिद्धौ सपर्यन्ता तेऽपि कीर्तिता || अनृपाः कर्मराजानः यमराजा प्रेतनां विभु | सुवर्णः पक्षिणां राजा गरुत्मा स महर्द्धिकः || किन्नराणां द्रुमो ख्यातः भूतानां रुद्र उच्यते | विद्याधराणां नृपो विद्या चित्रकेतुर्महर्द्धिकः || असुराणां तथा हेतौ वेम चित्रिथोत्तमः | ऋषीणां व्यास इत्युक्तः सिद्धानां च महारथः || नक्षत्राणां सोम निर्दिष्टः ग्रहाणां भास्करस्तथा | मातराणां तथा राजा ईशानमभिकीर्तितः || दिवशानां प्रतिम प्रोक्तः राशीनां कन्य उच्यते | सरितां सागरः प्रोक्तः मेघानां तु सुपुष्करः || ऐरावतो हस्तीनामश्वानां हरिवरस्तथा | तिर्यराजाथ सर्वत्र प्रह्लादः परिकीर्तितः || अनन्ता गतयः प्रोक्ता राजानश्च अनन्तका | समन्तात् सर्वतस्तेषु बुद्धो लोके नरोत्तमः || उत्तमां कुरुमाद्यः प्रभविष्णुस्तेषु न विद्यते | दीपेष्वेव परेतेषु पूर्वापरयतस्तथा || जम्बूद्वीपनिवासिस्यां पूर्वायां स नराधिपाः | अनन्ता च क्रिया प्रोक्तां चतुर्द्वीपा सनराधिपा || संक्षेपा कथिता ह्येते कत्थ्यमानातिविस्तरात् | प्रभूता भूतपतयो पूर्व्यां त्रिदेवासुरजन्मिनात् || प्द्f १११, प्. ६५६) अनन्तलोकधातुस्था अनन्ता गुणविस्तरा | अनन्ता कथिता ह्यत्र कल्पेऽस्मिं भूनिवासिनः || कथिता मन्त्रसिद्ध्यर्थे देशकालसमात्ययात् | सिद्ध्यन्ते मन्त्रराजानो विविधा दूतगणास्तथा || एष धर्मः समासेन कथिता मुनिपुङ्गवैः | अधुना कथितं ह्येतत् शुद्धावासोपरिस्थितैः || मञ्जुश्रियो महावीरः पप्रच्छ लोकनायकम् | य एष कथितो कर्म कथं चैनं धारयाम्यहम् || पेयालं विस्तरेण कर्तव्यं सर्वेषां नृपतीनां कर्म स्वकं जातकं महापरिनिर्वाणसूत्रं मञ्जुश्रियस्य कुमारस्य मुनिश्रेष्ठ | अभाषत बोधिसत्त्वार्थमन्त्राणां च सविस्तराम् | बोधिमार्गार्थबोध्यर्थं धर्मसूत्र इति स्मृतः || विसरं कल्पमन्त्राणां कर्म आयूषि भूनृणाम् | नृपतीनां तथा कालमायुषे परिकीर्तनम् || धर्मसङ्ग्रहणं नाम पिटकं बोधिपरायणम् | मन्त्रतन्त्राभियोगेन कथितं बोधिनिम्नगम् || धारयस्त्वं सदा प्राज्ञः मन्त्रतन्त्रार्थपूरकम् || इति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतसंकान्महायानवैपुल्यसूत्रात् पटलविसरात् एकपञ्चाशराजव्याकरणपरिवर्तः परिसमाप्त इति | प्द्f ११२, प्. ६५७) अथ चतुःपञ्चाशः पटलविसरः | अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अयं मञ्जुश्रीः धर्मपर्यायः | अस्मिं स्थाने प्रचरिष्यति | तत्राह स्वयमेवं वेदितव्यः | सर्वबोधिसत्त्वगणपरिवृतः श्रावकसङ्घपुरस्कृतः सर्वदेवनागयक्षगरुडगन्धर्वकिन्नरमहोरगसिद्धविद्याह्दरः मानुषामानुषैः परिवृतो विहरेऽहं वेदितव्यः | तथागतोऽत्र रक्षावरणगुप्तये तिष्ठतीति | दशानुशंसा मञ्जुश्रीः कुमार वेदितव्यः | यत्र स्थानोऽयं धर्मकोशस्तथागतानां पुस्तकगतो वा लिख्यति वाचयिष्यति धारयिष्यति सत्कृत्य मनसिकृत्य विविधैश्चामरपूर्णच्छत्रध्वजपताकाघण्टाभिर्वाद्यमाल्यविलेपनैर्धूप- गन्धैश्च सुगन्धिभिः पूजयिष्यति मानयिष्यति सत्करिष्यति एकाग्रमनसो वा चित्तं धत्से | कतमे दश | न चास्य परचक्रभय दुर्भिक्षो वा | न यास्य तत्र महामार्योपद्रवं भवति अमानुषभयो वा | न चास्याग्निभयं भवति सर्वप्रत्यर्थिकभ्यो वा | न चास्य तत्रानावृष्टिभयं भवति अतिवृष्टिभयो वा | न चास्य तत्र महावातमण्डलीभयं भवति सर्वक्रव्यादभयो वा | न चास्य श्रकभयं भवति सर्वधूर्ततस्करभयो वा | न चास्य मृत्युभयं भवति यमराजोपनीतभयं वा | न चास्यासुरभयं वा भवति सर्वदेवनागयक्षगन्धर्वासुरभयो वा | न चास्य मन्त्रभयं भवति सर्वगरविषभयं वा | न चास्य रोगभयं भवति ज्वरातीसारजीर्णाङ्गप्रत्यङ्गभयो वा | इमे दशानुशंसा वेदितव्या यत्रायं महाकल्पविशरे धर्मकोशस्तथागतानां पुस्तकगतो तिष्ठेत लिखनवाचनपूजनधारणस्वाध्यायानां वा कुर्मः | गुह्यतमोऽयं धर्मकोशस्तथागतानां मन्त्रानुवर्तनतया पुनरेषां सर्वतः आचार्यसमयानुप्रविष्टानाम् | असमयज्ञानां न प्रकाशितव्यः | यत् कारणम् | रहस्यमेतत् | गुह्यवचनमेतत् | सर्वज्ञवचनमेतत् || ***** (?) प्रतिक्षेप्स्यन्ते अवज्ञस्यन्ति न पूजयिष्यन्ति न सत्करिष्यन्ति महदपुण्यं प्रसविष्यन्ते गुह्यनि**********(?)पघातननृपति***(?) आयुःप्रमाणोपघातोपसर्गिकक्रियां करिष्यन्तीति न परेषामारोचयितव्यं च | प्द्f ११३, प्. ६५८) समयरहस्यगुह्यमन्त्रचर्यानुप्रविष्टानां सत्त्वानां तथागतशासनशिक्षाया सुशिक्षितानां सुव्यवस्थितानां धर्मार्थकोविदामायतनधातुसमयानुप्रवेशधर्मस्थितानां सत्यसन्धानां दृढव्रतमन्वागतानां सत्त्वचर्यामार्गानुप्रविष्टकारुणिकानामेतेषां सत्त्वानामारोचयितव्यम् न परेषामिति || अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वोत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य कृतकरतलाञ्जलिपुटो भगवन्तमेतदवोचत् | को नामायं भगवन् ! धर्मपर्यायः कथं चैनं धारयाम्यहम् | भगवानाह - सर्वबोधिसत्त्वविस्फूर्जनबोधिसत्त्वपिटक इत्यपि धारय | आश्चर्याद्भुतधर्मोपदेशपरिवर्त्त इत्यपि धारय | सर्वमन्त्रकोशचर्यानुप्रविष्टबोधिसत्त्वनिर्देश इत्यपि धारय | महायानवैपुल्यनिर्देशाद्भुत इत्यपि धारय | आर्यमञ्जुश्रियमूलकल्प इत्यपि धारय | सर्वधर्मार्थपूरणनिर्देश इत्यपि धारय इति || सर्वलोकां समग्रां वै धर्माधर्मविचारकाम् | विचेरुः सर्वतो यस्त्वं बोधिसत्त्वो महर्द्धिकः || न पश्यसे परं गुह्यमेतं धर्मवरं वरम् | मन्त्रतन्त्रार्थसूत्राणां गतिदेशनिरत्ययम् || न पश्यसे वरं वीर ! धर्मबोधिपरायणम् | यादृशोऽयं गुह्यसूत्रं नेयार्थभूषितम् || विविधाकारसूत्रार्त्थाः मन्त्रतन्त्रानुवर्तनम् | न भूतं विद्यते कश्चिद् यः कल्पविसरादिह || महाराज्ञां महाभोगां सम्पदांश्च दिवौकसाम् | प्राप्नुयात् पुष्कलां कीर्तिं दिव्यां मानुषिकां तथा || अक्षाणां वर्जयेदष्टां क्षणांश्चैव सम्भावयेत् | बुद्धत्वं नि**(?) तस्य त्रिधा जननतिस्तथा || इदं सूत्रं धारणात् पुण्य अनुशंसा स्यादिमे तथा | न चास्य सर्वकाये वै न विषं न हुताशनम् || प्द्f ११४, प्. ६५९) न वेताडा ग्रहाश्चैव न पूतना मातरा हि ये | तेन चोरराक्षसा || पिशाचा वास्य हिंस्येयुः यस्य सूत्रमिमं पठेत् | धारयेद्वापि पूजयेद् वा न पुनः पुनः विविधा || वाद्य पूज्य पूज इषु पूजयेद् वा विशरदः | स इमां लभते मर्त्यो मनुशंसामिहोदिता || आतुरो मुच्यते रोगान् दुःखितो सुखोनो भवेत् | दरिद्रो लभते अर्थान् बद्धो मुच्यते बन्धनात् || पतितः संसारदुःखेऽस्मिन् गतिं पञ्चकयोजितम् | क्षेमं शिवं च निर्वाणं प्राप्नुयादचलं पदम् || प्रत्येकबोधिबुद्धत्वं श्रावकत्वं च नैष्ठिकम् | इदं सूत्रं वाचयित्वा लभते बुद्धवर्तिताम् || गङ्गासितताप्रख्यानामनन्त्यं जिनवरास्तथा | पूजित्वा लभते पुण्यं तत्सर्वमिदं सूत्रं पठनादिह || यावन्ति केचिल्लोकेऽस्मिन् क्षेत्रकोटिमचिन्तकाः | तावन्तु परमाण्वाख्यां बुद्धानां पूजयेत् सदा || विविधा अन्नपानैश्च ग्लानप्रत्ययभेषजैः | विविधासनशययासु दद्युः सर्वतः सदा || चीवरैर्विविधैश्चापि चूर्णचीवरभूषणैः | छत्रोपानहपटैः सुगन्धमाल्यविलेपनैः || धूपनं विविधैर्वापि दीपैश्चापि समन्ततः | तत् पुण्यं प्राप्नुया जन्तुर्धारणाद् वाचनादिदम् || प्रत्येकबुद्धजे लोके श्रावका सुमहर्द्धिकः | बोधिसत्त्वा महात्मानो दशभूमिस्थिता पराः || तत्प्रमाणाद् भवेत् सर्वे तेषां पूजां तथैव च | तत् **(?) प्राप्नुयान्मर्त्य **(?) पुस्तक पुनः करे || प्द्f ११५, प्. ६६०) यावन्ति लोके कथिता लोकधातुसमाशृता | सर्वसत्त्वा समाख्यातास्ते सर्वे विगतज्वराः || तेषां च पूजा सत्कृत्य कश्चि जन्तु पुनः पुनः | तत् पुण्यं प्राप्नुयाद्धीमां पूजेत्वा धर्मपरमिमम् || न शक्यं कल्पकोट्यैस्ते रत्नै जिनवरैः सदा | पूजये लोकनाथानां धर्मकोश इमं वरम् || चिन्तामणि च रत्नार्थमिमं धर्मवरं भवेत् | पठनाद् धारणान्मन्त्रा कल्पेऽस्मिन् मञ्जुभाणिते || भवेत् कामदुहं तस्य महाभोगार्थसम्पदः | अखिन्नमनसो भूत्वा यो इमां साधयेत् भुवि || मन्त्रान् तत्त्वार्थनेयार्थं सफला मुनिभाषिता | कृयाकालसमायोगात् साधयेद् विद्यधरां भुवि || तस्य सर्वदिशा ख्याता प्रपूर्णा रत्नसम्पदः | सफला गतिमाहात्म्या वर्णिता साधुवर्णिता || योऽस्मान् कल्ववरा ह्येकं मन्त्रं धारये नृप | सफला राजसम्पत्ति दीर्घमायुष्यसम्पदाम् || विविधा भोगचर्या वा प्राप्नुयां नृपवरोपराम् | न चास्य हन्यते शस्त्रैर्न विषैः स्थावरजङ्गमैः || परविद्यकृतैश्चापि मन्त्रं वेताडसाधनम् | दूषितैर्वसुधालोके परकृत्यपरायणे || न हुताशनभयं तस्य ना वैरग्रहापरैः | कायं न हन्यते तस्य नृपतेर्वा जन्तुनोऽपि वा || य इमं सूत्रवराग्रं तु धारयेद् वाचयेत् तथा | रा*(?) च कृतया मूर्ध्ना सङ्ग्रामे समुपस्थिते || छ***(?)सि मा**(?) नमस्कुर्यात् पुनः पुनः | न तस्य दस्यवो हन्******(?)समुद्यताम् || प्द्f ११६, प्. ६६१) हस्तिस्कन्धसमारूढं कुमारकारसम्भवम् | मयूरासनसुस्तं सङ्ग्रामे अवतारयेत् || दृष्ट्वा तं विद्विषः सर्वे निवर्तन्तेयुस्ते परे जनाः | बालरूपं तथा दिव्यकुमारालङ्कारभूषितम् || सौवर्णं राजतं वापि रागत्यध्वजपूजितम् | आरोप्य ध्वजपताकेषु सुन्यस्तं सुसमाहितम् || सङ्ग्रामं रिपुसङ्कीर्णं नानाशास्त्रसमुद्यतम् | युधि प्राप्तं समस्तं वै तस्मिं कालेऽवतारयेत् || नश्यन्ते दृष्टमात्रं वै मुह्यन्ते वा समन्ततः | मानुषामानुषाश्चापि नृपाश्चापि सुरेश्वराः || सिद्धविद्याधराश्चापि मन्त्रतन्त्रसमाश्रिताः | राक्षसा सत्त्ववन्तोऽपि कटपूतनामातरा || क्रव्यादा विविधाश्चापि यक्षकूष्माण्डपूतना | न शक्यन्ते दृष्टमात्रं वै ध्वजमुच्छ्रितसंस्थितम् || कुमारं विश्वकर्माणमनेकाकाररूपिणम् | मञ्जुघोषं महात्मानं दशभूम्याधिपतिं पतिम् || महाराजा क्षत्रियो लोके भूपालो भूनिवासिनः | श्राद्धो विमतिसन्देहः विगतो धर्मवत्सलः || उत्पाद्य सौगतीं शुद्धां करुणाविष्टमानसाम् | प्रक्रमुः सन्धिकामो वै क्रियामेतामिहोदिताम् || निर्दिष्टं प्रवचने ह्येता धर्मधातुगतैर्जिनैः | कल्पं प्रयोगं मन्त्राणां तन्त्रयुक्तिमभूतले || असङ्ख्यैर्जिनवरैः पूर्वं धर्मधातुसमाशृतैः | कथितं धर्मकोशं तु मानुषा तु भूतले || देवासुरे पुरा युद्धे वर्तमाने ****(?) | तदा पुरो ह्यासीत् हतसैन्योऽथ विद्विषैः || प्द्f ११७, प्. ६६२) एकाकिनस्तदा सत्त्वा विरथश्चैव महीतले | मुनिश्रेष्ठे तदा पृच्छेत् काश्यपं तं जिनोत्तमम् || किं कर्तव्यमिति वाक्यमाजहार शचीपतिः | निर्जितोऽसुरैर्घोरैरहमत्र समाशृतः || एवमुक्तः मघवां शतक्रतुर्दिवौकसः | प्रणम्य शिरसा मूर्ध्नि पादयोर्मुनिवरे तदा || निषसेदु पुरा ह्यासीत् कौशिकोऽथ सहस्रदृक् | एवमुक्तो मुनिश्रेष्ठः काश्यपो ब्राह्मण अभूत् || आजहार तदा वाणिं कलविङ्करुतस्वनाम् | पूर्वं जिनवरैर्गीतं कुमारो विश्वसम्भवः || मञ्जुश्री महात्मासौ दुर्लक्षो लक्षमूर्जितः | भूतकोटिसमाख्यातो गम्भीरार्थदेशिकः || निःप्रपञ्चं निराकारं निःस्वभावमनालयम् | धर्मादिदेश सत्त्वेभ्यस्तत् स्मरिष्व सुरेश्वरः || ततस्ते नु स्मर्तो से स्मृत तत्त्वगतो तत.ः | आगतस्तत्क्षणात् तत्र कुमारो विश्वरूपिणः || यत्र सौ भगवां तस्थुः मघवांश्चैव सुरेश्वर | आगता भाषते मन्त्रां वन्दित्वा जिनवरं तदा || प्रणम्य जिनवरां सर्वां काश्यपं च महाद्युतिम् | इमां मन्त्रामभाषेत लब्ध्वानुज्ञां मुने तदा || नमः सर्वबुद्धबोधिसत्त्वेभ्योऽप्रतिहतशासनेभ्यः | ओं हन हन सर्वभयान् सादयोत्सादय त्रासय मोटय छिन्द भिन्द ज्वल ज्वल हुं हुं फट् फट् स्वाहा | समनन्तरभाषितेयं मन्त्रा कुमारभूतेन मञ्जु***(?) बोधिसत्त्वेन महासत्त्वेन | इयं महापृथिवी षड्विकारं प्रका**(?) स***(?) गरपर्यन्ता | सर्वांश्च बुद्धां भगवता क्षेत्रानन्तापर्यन्ता ****** (?) शपर्यन्तां सर्वैश्च बुद्धैर्भगवद्भिरधि****(?) च इमानि मन्त्रपदानि || प्द्f ११८, प्. ६६३) जय शक्रो देवानामिन्द्रः विगतभयरोमकर्षः आश्चर्याद्भुतप्राप्तः उत्फुल्लनयनः उत्थायासनाद् भगवतः पादयोर्निपत्य त्रिः प्रदक्षिणीकृत्य च मञ्जुश्रियं कुमारभूतं सम्मुखं दृष्ट्वा तानि च मन्त्रपदां गृह्य मनसीकृत्य च पुनरेव स्यन्दनमधिरुह्य येन तेऽसुराः प्राद्रवितः सर्वेऽसुरा येन पातालं महासमुद्राश्रयाधरपुरं स्वकं तेनाभिमुखाः प्रययुः | हतविध्वस्तमानसः सैन्यभयाकुलितविह्वलनिषण्णवदनदर्पः विगतशस्त्रा दृष्टा तं सुरेश्वरं ज्वलन्तमिव पावकं पावकं निर्वर्त्य स्वालयं गता अभूत् || अथ शक्रो देवानामिन्द्रः देवां त्रायस्त्रिंशानामन्त्रयते स्म | मा भैष्टत मार्षा ! मा भैष्टत | बुद्धानुभावेन वयमसुरां निर्जितवन्तो गच्छाम्तः स्वपुरम् | आगच्छन्तु भवन्तः क्रीडथ रमथ परिचारयथ स्वं स्वं भवनवरं गत्वा | स्वालयं चेतस्ते देवा हृष्टमनसः पुनरेव निवर्त्य स्वालयं गता || अथ शक्रस्य देवानामिन्द्रस्यैतदभवत् | यन्वहं तं कुमाररूपिणं बिम्बाकारं कृत्वा ध्वजाग्रे स्थापयेअं ततो मे नासुरभयं भवेत् इति || अथ शक्रो देवानामिन्द्रः महता मणिरत्नद्योतिगर्भप्रभोद्योतनं नाम गृहीत्वा कुमाराकारप्रतिबिम्बं कारयित्वा उपरि प्रासादस्य मूर्धनि सुधर्मायां देवसभायां सुदर्शनस्य महानगरस्य मध्ये तं ध्वजोच्छ्रितसुविन्यस्तं कृत्वा स्थापयामास || ततस्ते असुरा प्रह्रादवेमचित्रिप्रभृतयः पातालं नोर्ध्वगच्छति न च तां देवानभिद्रवन्ते न च शेकुः ऋद्धिविकुर्वाणं रणाभिमुखं वा गन्तुम् | एवमनेकानि वर्षकोटिनयुतशतसहस्राणि मानुषिकया गणनया | न चासुरभयं स्यादिति || एवमिदमपरिमितगुणानुशंसं सङ्कीर्तितमायुरारोग्यवर्धनं बुद्धैर्भव्गवद्भिर्बोधिरा महासत्त्वै कथितं पुरा | एवमिदमपरिगितानुशंसगुणविस्तरमनन्ता***(?) पुरादिति | अपरिमाणं या पुण्यप्रसवनं महानरकोपपत्तितिर्यका**********(?)मुपति ये इमं धर्मपर्यायमपतदते विकल्पेत वा **(?)ति ग्रस्तचित्तो वा न वदेयुः न बुद्धवचनेति प्द्f ११९, प्. ६६४) वा वदेयुः न मन्त्रा न चौषधयो बोधिसत्त्वानां पि तेषां माहात्म्यविस्तरमृद्धिविकुर्वणं वा नापि विकल्पविस्तरमनार्यैर्भाषितमिति कृत्वा उत्सृज्य त्यजन्ते अवगच्छन्ति न शक्नुवन्ति वा श्रोतुम् तस्मात् स्थानादपक्रमन्ते महान् तेषामपुण्यं भविष्यतीत्याह || ये नरा मूढचित्तो वै प्रतिक्षेप्स्यन्ति वरमिमम् | धर्मं मुनिवरैर्गीतं जिनपुत्रैश्च धीमतैः || तेनका नरकं यान्ति सोत्सेधं सतिर्यगम् | fकालसूत्रमथ सञ्जीवं क्षुरधारां गूथमृत्तिकाम् || कुणपं क्षारनदी ग्राह्य ज्वरधारा पुनस्ततः | असिपत्रवनं घोरमववंहहवं तथा || अटटं लोकविख्यातं नरकं पापकर्मिणाम् | गच्छते जना तत्र ये नरा धर्मदूषकाः || अवीचिर्नाम तद् घोरं प्रख्यातं लोकविश्रुतम् | कुत्सितमयः प्राकारविक्षिप्तमावासं पापकर्मिणाम् || पच्यन्ते ते जनास्तस्मिन् यो धर्मं लोपयेदिमम् | अवीचिपर्यन्तसर्वां तां सोत्सवां समूलजाम् || अनन्तां नरकभूम्यन्तां गतेऽसौ विगतिः सदा | प्रतिक्षेप्ता धर्मसर्वस्वं इदं सूत्रं सविस्तरम् || लोके कुत्सतां यान्ति * * * * * * * * (?) | अवीच्यन्तां नरकान् यान्ति विवशैर्वशगस्तदा || यो इ संसूत्रकल्पाख्यं मन्त्रतन्त्रभूषितम् | सिद्धिचित्रगतालम्ब्य भूतकोटिमनावृतम् || शरीरं धर्मधात्वर्थमनालम्बनभावनम् | विस्तरं पटलोत्कृष्टं सकल्पं कल्पविस्तरम् || मञ्जुघोषसुविन्यरतं सम्प**(?)पूजितम् | मूलकल्पमनल्पं वै कथितं बहुविस्तरम् || प्द्f १२०, प्. ६६५) शाश्वतोच्छेदमध्यान्तमुभयार्थान्तवर्जितम् | सङ्क्रमं क्रमनिर्दिष्टं मन्त्रमूर्तिसमुच्छ्रितम् || अनिलं निलमाकाशं शून्यत्वसुभावितम् | प्रतिक्षेप्ता सदा गच्छेदधो अधगतां तदा || विसङ्ख्येयार्जितं पुण्यं कल्पैर्बहुविधैस्तदा | समुदानीय तथा बोधिं मयाग्रवरे जिने || भाषितं मन्त्रतन्त्रार्थं गतिदेशनिरत्ययम् | मूलकल्पं पवित्रं वै मङ्गल्यमघनाशनम् || पटलं सविसरं प्रोक्तं नीलसूत्रान्तशोभनम् | नृपतीनां गुणमाहात्म्यं कालदेशप्रयोगितम् || सद्धर्मं जिनपुत्राणां भूतलेऽथ तृजन्मिनाम् | कथितं लोकमुख्यानां मुनिसप्तमतं जिने || बाषितः कल्पविस्तारः श्रीसम्पत्समभिवर्धनः | समूलो विसरपटलाख्यो मन्त्रतन्त्रसमर्चितो || यो हीहिमं सूत्रवरं मुख्यं धर्मकोशं जिनोर्जितम् | प्रतिक्षेप्तारो भुवि मर्त्यां वा अवीचौ नरकान्तकौ || महाकल्पाननेकां वै चोपवर्णिताम् | यदा काले तु मर्त्याः कदाचित् कर्हचिद् भवेत् || दरिद्रो व्याधितो मूर्खो जायते म्लेच्छजन्मिनः | लोके कुत्सतां याति कुष्ठव्याधी भवेत् || दुर्गन्दोऽथ वीभत्स व्यङ्गो अन्ध एव सः | भीमरूपी सदारूपी सदारूक्षः प्रेत व दृश्यते भुवि || कुशलो दीनचित्तश्च कुनखः कुत्सितस्तथा | कृमिभिर्भक्ष्यमाणस्तु दद्रुकण्डूसमाकुलः || अवासी परमवीभासः असम्भाषी चोपपद्यते | क्रमति *****(?) कुमतिर्याति पुनः पुनः || प्द्f १२१, प्. ६६६) प्रतिक्षेप्ता च धर्मकोशस्तु जिनानां धातुपूजितम् | बहुदुःखसमायासां बहुमित्रमनाथवाम् || जायते बहुधा मर्त्यः शोकदुःखसमाकुलः | यत्र यत्र गतिर्याति कुमतिस्तत्र जायते || प्रतिक्षेप्तादिदं सूत्रं तत्र तत्रोपपद्यते || इति | अथ मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य कृताञ्जलिपुटः उत्फुल्लनयनः अनिमिषनयनः सर्वांस्तां शुद्धावासभवनस्तान् देवपुत्राननेकांश्च भूतसङ्घां सन्निपत्रितां धर्मश्रवणाय विदित्वैवं शाक्यमुनिं भगवन्तमेतमाहुः - आश्चर्यं भगवं ! यावत् परमं सुभाषितोऽयं धर्मपर्यायः | तद् भगवं ! भविष्यत्यनागतेऽध्वनि सत्त्वा विषमलोभाभिभूताः सत्त्वाः पञ्चकषायोद्रिक्तमनसोऽश्राद्धाः कुहकाः खटुकाः कुशीलाः ते मन्त्राणां गतिमाहात्म्यपूजित कालदेशनियमं मन्त्रचर्याहोमजपनियमकल्पविशरां न श्रद्धास्यन्ति | अबुद्धवचनमिति कृत्वा प्रतिक्षेप्स्यन्ते | क्लिष्टमनसो भूत्वा कालं करिष्यन्ति | ते दुःखां तीव्रां खरां कटुकां वेदनां वेदयिष्यन्ति | महानरकोपपन्नाश्च ते भविष्यन्ति | तेषां भगवं ! दुःखितानां सत्त्वानां कथं प्रतिपत्तव्यम् ! महाकारुणिकाश्च बुद्धा भगवन्तः || अथ भगवां शाक्यमुनिर्मञ्जुश्रियं कुमारभूतं मूर्ध्नि परामृश्यामन्त्रयते स्म - साधु साधु खलु पुनस्त्वं मञ्जुश्रीः ! यस्त्वं सर्वसत्त्वानामर्थे हिताय प्रतिपन्नः | साधु पुनस्त्वं मञ्जुश्रीः ! यस्त्वं तथागतमेतमर्थं प्रश्नसि | तेन हि त्वं मञ्जुश्रीः ! शृणु | साधु च सुष्ठु च मनसि कुरु | भाषिष्येऽहं ते सर्वसत्त्वानामर्थाय हिताय सुखाय लोकानुकम्पायै देवमनुष्याणां च सर्वमन्त्रचर्यानुप्रविष्टबोधिमार्गनियुञ्जानधर्मधातुपरमूर्त्योपाश्रयलिलिप्स् अयां मरणकालसमये **(?)र्त्तव्योऽयं ***** (?) ***(?)रहस्यं कुमार ! ***(?)मूलकल्पपटल***(?) कतयं च तत् || प्द्f १२२, प्. ६६७) नमः सर्वतथागतेभ्योऽर्हद्भ्यः सम्यक् सम्बुद्धेभ्यः | ओं कुमाररूपिणि विश्वसम्भव आगच्छागच्छ | लहु लहु भ्रूं भ्रूं हूं हूं जिनजित् मञ्जुश्रीय सुश्रिय तारय मां सर्वदुःखेभ्यः फट् फट् शमय शमय | मृतोद्भवोद्भव पापं मे नाशय स्वाहा | एष मञ्जुश्रीः त्वदीयं परमहृदयं सर्वशान्तिकरं सर्वपापक्षयं सर्वदुःखप्रमोचनमायुरारोग्यैश्वर्यपरमसौभाग्यवाक्यसञ्जननं सर्वविद्याराजसत्तेजनं च समनन्तरभाषिते शाक्यमुनिना बुद्धेन भगवता | इयं महापृथिवी सशैलसागरसत्त्वभाजनसन्निचयपर्यन्ता षड्विकारं प्रकम्पति भाभूत | सर्वाश्च गतयः प्रेततिर्यग्यमलोकसर्वसत्त्वदुःखानि प्रतिप्रस्रब्धानि | अयं च विद्याराजा मञ्जुश्रीर्मनसि कर्तव्या | न च तस्मिन् समये सद्धर्मप्र्तिक्षेपेण चित्तं भवेयुः | न च मारा पापीयांसः अवतारं लप्सन्ते | सर्वविघ्नविनायकाश्चापक्रमन्ते | एवं च चित्तमुत्पादयितव्यम् | किं मया शक्यं बुद्धानां भगवतां अचिन्त्यबुद्धा बोधिधर्मा चिन्तयितुं वा प्रतिक्षेप्तुं वा बुद्धा भगवन्तो ज्ञास्यन्तीति || आर्यमञ्जुश्रीमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् पञ्चाशतिमः अनुशंसाविगर्हणप्रभावपटलविसरः परिसमाप्त इति | प्द्f १२३, प्. ६६८) अथ पञ्चपञ्चाशः पटलविसरः | आर्यमञ्जुश्रियः पटस्याग्रतः यस्योद्दिश्य श्वेतसर्षपाणामष्टशतं जुहोति स वशो भवति | स्त्रीवशीकरणे अष्टशतं जुहुयात् | सा वशा भवति | कृष्णचतुर्दश्यां श्वेतपुष्पाणामष्टसहस्रेणार्यमञ्जुश्रीः ललाटे हन्तव्यः राजप्त्नी वशा भवति | अपतितगोमयेन श्वलिङ्गं कृत्वा तस्याग्रतो गोमयेन त्रिशूलेन श्वेतसर्षपाणां दधिमधुघृताक्तानां सप्ताहुतिं जुहुयात् | दिवसत्रयं यस्योद्दिश्य स वशो भवति | कुमारीवश्यार्थं अरङ्गणपुष्पाणां अष्टसहस्रेणार्यमञ्जुश्रीर्हन्तव्यः | सा वशा भवति | मधूच्छिष्टमयीं पुत्तलिकां कृत्वा आत्मन ऊरू स्थाप्य अष्टसहस्रं | यस्योद्दिश्य स वशो भवति | पटस्याग्रतः शुक्लपुष्पाणां अष्टशतं निवेदयेत् | यमिच्छति स वशो भवति | शङ्खनाभिरोचनातगरुमेकीकृत्य पीषयेत् | अष्टसहस्राभिमन्त्रितं कृत्वा अन्नेन वा पानेन वा यस्य दीयते स वशो भवति | ब्राह्मणीवशीकरणे पटस्याग्रतः बिल्वकुसुमानामष्टसहस्रं जुहुयात् सा वशा भवति | भस्मानां सप्तजप्तेन यां स्त्रियं चूर्णयति सा वशा भवति | स्त्रिया पुरुषस्य वाग्रतः स्थित्वाष्टसहस्रं जुहुयात् स वशो भवति | ब्राह्मणीवशीकरणे पटस्याग्रतः बिल्वकुसुमानामष्टसहस्रं जुहुयात् सा वशा भवति | भस्मानां सप्तजप्तेन यां स्त्रियं चूर्णयति सा वशा भवति | स्त्रिया पुरुषस्य वाग्रतः स्थित्वाष्टसहस्रं जुहुयात् वशो भवति | चतुरङ्गुलं काष्ठिकां अष्टसहस्राभिमन्त्रितां तया यमाकर्षति स वशो भवति | श्वेतपुष्पाणां अष्टशतं अष्टसहस्रं निवेदयेत् | तत्रैकं पुष्पं गृह्य स्त्रियं दृष्ट्वा आवर्त्तयेत् | आगच्छति स वशो भवति | क्षीरयावकाहारः पदमेकं वल्मीकमृत्तिकामयं वा प्रतिकृतिं कृत्वा ततोपविष्टस्तावज्जपेद् यावद् वासुकिचलितः सिद्धो भवति | आत्मद्वादशमस्य भक्तं ददाति | अतीतमनागतं प्रत्युत्पन्नं कथयति | क्षीरयावकाहारः शतसहस्रं जपेत् | भोगान् लभति | मासेन भिक्षाहारः शुक्लचतुर्दश्यामेकरात्रोषितः पटस्याग्रतो महतीं पूजां कृत्वा प्रतिमाया पादौ गृह्य तावज्जपेद् यावच्चलिताचलितेवादृश्यो भवति | सर्वसिद्धानां राजा भवति | मनसाहारमुत्पद्यते | पञ्चवर्षसहस्राणि जीवति | गङ्गानदीमवतीर्य लक्षमेकं जपेत् | पश्चात् तत्रैव पटे वालुकामयं चैत्यं कृत्वा मधु क्षीरं वैकतः कृत्वा जुहुयात् | सर्वनागा आगच्छन्ति | यद् ब्रवीति तत् सर्वं कुर्वन्ति | पर्वतशिखरमारुह्य पटं प्रतिष्ठाप्य तैलाक्तं चन्दशकलिकां जुहुयात् | प्द्f १२४, प्. ६६९) यक्षा आगच्छन्ति | यद् ब्रवीति तत् सर्वं कुर्वन्ति | वने पटं प्रतिष्ठाप्य मधुपिप्पलीं चैकतः कृत्वाष्टसहस्रं जुहुयात् | सर्वविद्याधरा आगच्छन्ति | आज्ञाकरा भवन्ति | एकवृक्षे प्रतीत्य समुत्पादगर्भचैत्यप्रतिष्ठाप्य लक्षमेकं जपेत् | लक्षपरिसमाप्तौ पोषधिकेन रूपकारेणाश्वत्थकाष्ठमयं तृशूलं लक्षणोपेतं कृत्वा सपाताभिहूतं कृत्वा पौर्णमास्यां सुगन्धगन्धैः समुपलिप्य यथा विभवतः पटस्याग्रतः पूजां कृत्वा दक्षिणहस्तेन कृत्वा सकलां रात्रिं साधयेत् | यावज्ज्वलतीति | ज्वलिते महादेवो भवति | भूताधिपतिर्भवति | दुर्दान्तदमकः अप्रतिहतः सर्वसत्त्वेषु | समुद्रमवतीर्य लक्षं जपेत् | सागरप्रभृति यमिच्छति नागराजनं तं पश्यति | मणिरत्नं वा ददाति | तेन गृहीतेन विद्याधरो भवति | सर्वनागविद्याधराणां राजा भवति | पोषधिकेन कर्मकारेण ताम्रघटकं कारयेत् | प्रातिहारकपक्षे पूर्णमास्यामुदारां पूजां कृत्वा पटस्याग्रतः प्रतिष्ठाप्य तावज्जपेद् यावज्ज्वलितः | ततः तस्मिं हस्तं प्रक्षिप्य यमिच्छति तत् सर्वं प्रादुर्भवति | भद्रघटसाधनम् | ससुद्रगामिनीं नदीमवतीर्य लक्षं जपेत् | यस्यां मृण्मयं बालुकामयं वा पूर्णमास्यां चैत्यं कृत्वा तत्रैव पटं प्रतिष्ठाप्य महतीं पूजां कृत्वा स्फटिकमणिमृण्मया वा दक्षिणहस्तेन गृहीत्वा पर्यङ्कोपविष्टः तावज्जपेद् यावज्ज्वलतीति | चिन्तामणिधारी विद्याधरो भवति | सधातुके चैत्ये पटं प्रतिष्ठाप्य लक्षं जपेत् | प्रातिहारकपक्षपूर्णमास्यां विधिवत् पूजां कृत्वा प्रदीपमालां च उदारां कृत्वा दक्षिणहस्तेन ध्वजं शुक्लवस्त्रावलम्बितं गृह्य तावज्जपेद् यावज्ज्वलति | ध्वजविद्याधरो भवति | सर्वत्राप्रतिहतः | प्रातिहारकपक्षे पूर्णमास्यां | पटस्याग्रतः महतीं पूजां कृत्वा भगवत्या प्रज्ञापारमितापुस्तकं सुगन्धगन्धैः प्रलिप्य सुगन्धपुष्पमालाभिः वेष्टयित्वा वामहस्तेन गृह्य पर्यङ्कोपविष्टस्तावज्ज्पेद् यावज्ज्वलति | विद्याधरराजा भवति | यत्रेच्छति तत्र गच्छति | बोधिसत्त्वचर्याचारी भवति | कुमारीं प्रासादिकां सुस्नातालङ्कृतं कृत्वा पटस्याग्रतः यथाविभवतः पूजां लब्धा वामहस्तेन गृह्य स्थितस्तावज्जपेद् यावत् तया**(?) ज्वलति | तयैव सार्धं विद्याधरो भवति | एकलिङ्गस्योपरि हस्तं दत्वा तावज्जपेद् यावत् सखाया न पश्यन्ति | प्द्f १२५, प्. ६७०) अदृश्यः सर्वसिद्धानामगम्यः अन्तर्धानिकं भवति | त्रयोदश्यां चन्द्रग्रहे सूर्यग्रहे वा हरितालं बोधिवृक्षपत्रान्तरितं कृत्वा महेश्वरायतने सधातुके चैत्यै तावज्जपेद् यावद् धूमायति | तिलकं कृत्वा अन्तर्हितो भवति | क्षीरयावकाहारः समुद्रतटे वृक्षमूले सहस्रं जपेत् त्रिसन्ध्यं सप्तरात्रम् | समुद्रगानि रत्नानि पश्यति | यथेष्टं गृह्णीयात् | मुद्गाहारः पर्वतशिखरमारुह्य अष्टसहस्रं जपेद् विंशतिरात्रम् | पर्वतगतानि मणिरत्नानि दर्शनं भवति | ततो हस्तशिरसि कृतं तस्योपरि उपविष्ट अष्टसहस्रं जपेत् | एवं दिवसानि सप्त | स वशो भवति || राजानं राजमात्रं वा वशीकर्तुकामः तस्य मधूच्छिष्टकेन प्रतिकृतिं कृत्वा निर्धूमाङ्गारेषु क्षिपेत् सप्तरात्रं स वशो भवति | वस्त्रकामः श्वेतपुष्पाणां अपरिमर्दितानां सकृत् परिजप्य उदके क्षिपेत् सप्तरात्रम् | अष्टसहस्रं वस्त्रयुगं प्रतिलभते | गोघृतं अष्टसहस्रं जप्त्वा स्त्रियामादद्यात् | विशल्या भवति | नवनीताष्टशतजप्तेनाभ्यक्त अग्निं प्रविशति | न च दह्यते | तेनैव चाभ्यक्तो जलं प्रविशति स्तम्भितो भवति | जपमानो यावदुत्साहं भिक्षं भक्षयति | आयसं प्रदेशमात्रं खड्गं कृत्वा सधातुके चैत्ये पटं प्रतिष्ठाप्य उदारां पूजां कृत्वा अश्वत्थपत्रैः प्रदक्षिणावर्त्तैः खड्गं प्रतिष्ठाप्य तावज्जपेद् यावज्ज्वलित इति | तेन गृहीत सपरिवारोत्पतति | विद्याधरसहस्रपरिवृतः अभेद्यः सर्वविद्याधराणां वर्षकोटि जीवति | कृतपुरश्चरणः कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा पटस्योदारां पूजां कृत्वा सङ्घोद्दिष्टकां भिक्षं भोज्य मनःशिलायां भूमौ पद्मं शतपत्रं लेख्य पद्मकर्णिकायां उपविश्य तावज्जपेद् यावद् भूमिं भित्वा पद्ममुत्तिष्ठति | पद्मपत्रेषु चोपविष्टाः विंशतिविद्याधराः प्रादुर्भवन्ति | तैः परिवृतः उत्पति | यावन्तः सत्वां पश्यति यैश्च दृश्यते तैः सार्धं गच्छति | स च पद्मः अनेकरत्नालङ्कृतो भवति | विमातुरकल्पं जीवति | भिन्नदेहे स्वेच्छया उपपति गृह्णाति | ***(?) अष्टसहस्राभिमन्त्रितेन शुष्कवृक्षं विद्येत् | पुष्प्यति फलति च | हृष्कनयोमवतीर्य जपेद् उदकं भवति | नदीप्रतरणे जपेत् | ***(?) स्थलो भवति | प्द्f १२६, प्. ६७१) राजानं राजमात्रं वा वशीकर्तुकामेन पटस्याग्रतः कृष्णाष्टम्यामारभ्य पुष्पाणामष्टसहस्रं निवेदयेत् | लवणाहुतिं चाष्टसहस्रं जुहुयात् | नियतं राजा वशी भवति | तामेवाष्टमीमारभ्य गोरोचना त्रिसन्ध्यं अष्टशतिकेन जपेद् यावदेकादशी | तेन तिलकं कृत्वा यं वीक्ष्यति स वशो भवति | यदिच्छे दारकदारिकां वशीकर्तुकामः पटस्याग्रतः सिद्धार्थकानां अष्टसहस्रं जुहुयात् | तासां पादपासुं गृह्य पुत्तलिकां कृत्वा यस्य नामग्रहणं करोति स वशो भवति | मेघार्थिना गव्यघृतं गृह्य चन्द्रग्रहे सूर्यग्रहे वा ताम्रभाजने प्रक्षिप्य तावज्जपेद् यावत् त्रिविधा सिद्धिः | ऊष्मायमाने श्रुतिधरोऽयं यं शृणोति तं गृह्णाति | धूमायमाने रसरसायनम् | ज्वलितेन जातिस्मरो भवति | अर्कपुष्पाणां लक्षं जुहुयात् | दीनारलक्षं ददाति | पटस्याग्रतः अर्कपुष्पाणामष्टसहस्रं निवेदयेत् | दीनारशतं लभते | पटस्याग्रतः शालितन्दुलानां घृताभ्यक्तानां अष्टसहस्रं जुहुयात् | पञ्च दीनारां लभते | कृतपुरश्चरणः पटस्याग्रतः दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | दीनारशतत्रयं लभते | कृष्णतिलानामष्टसस्रं जुहुयात् | दीनारशताधिकं लभते || कुलपतिं वशीकर्तुकामः पटस्याग्रतः अर्कसमिधानामष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम् | कुलपतिर्वशीभवति | लोकपत्यं वशीकर्तुकामः पटस्याग्रतः दूर्वाप्रवालानामष्टसहस्रं जुहुयात् सप्तरात्रं त्रिसन्ध्यम् | कौलपत्यं करोति यावज्जीवम् | आर्यसङ्घं वशीकर्तुकामेन अर्कपुष्पाणां पटस्याग्रतः अष्टसहस्रं निवेदयेत् सप्तरात्रम् | यदर्थं कुर्यात् तमन्विच्छति | सततजपेनार्थं लभते | गुग्गुलुगुलिकानां पटस्याग्रतः अष्टसहस्रं जुहुयात् | सुवर्ण्सहस्रं लभते | पटस्याग्रतः कुन्दुरुधूपं अष्टसहस्रं जुहुयात् सप्तरात्रम् | निधानं लभते | पटस्याग्रतः अर्ककाष्ठसमिधानां दधिमधुघृताक्तानां त्रिसन्द्य हस्रं जुहुयात् | दीनारसहस्रं लभते | शत्रुवशीकरणे पोषधिकः पटस्याग्रतः त्रिसन्ध्यं राजसर्पपाणां **(?)सहस्रं सप्ताहम् | सर्वशत्रवो वशा भवन्ति | लाक्षाहूताना अष्टसहस्रं जुहुयात् सप्ताहम् | सर्वजनप्रियो भवति | प्द्f १२७, प्. ६७२) शालितन्दुलानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्ताहम् | कार्षावणशतं लभति | कृतपुरश्चरणः कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा मृतकपुरुषं अक्षताङ्गं गृह्य स्नानालङ्कृतं कृत्वा सुगन्धपुष्पधूपैरभ्यर्च्य वामपादेनोरसिमाक्रम्य मस्तके आहन्तव्यः | ततः उत्तिष्ठति | पुष्पलोहमये खड्गे आहन्तव्यः | जातरूपं सुवर्णं लभति | अथ नेच्छति वक्तव्यम् - छर्दस्व इति | ततश्चिन्तामणि निर्गच्छति | तं शिरसि कण्ठे वा कृत्वा अन्यत्र वा बद्ध्वा यं चिन्तयति तं प्रादुर्भवति | शुक्लप्रतिपदमारभ्य अहोरात्रोषितः समुद्रगामिनिं नदीं अंसमात्रमुदकमवतीर्य जातीपुष्पाणां दशसहस्राणि प्रवाहयेत् | दशमाषकं लभते सुवर्णसहस्रं वा | शुक्लप्रतिपदमारभ्य समुद्रगामिन्या नद्या पद्मानां दशसहस्राणि निवेदयेत् सप्तरात्रम् | निधानसङ्घाटकं लभते | कृतपुरश्चरणः तामेव नदीमवतीर्य पुष्पाणां दशसहस्राणि प्रवहयेत् सप्ताहम् | दश ग्रामाण्यालभते | अशोकपुष्पैः चणकमात्रां गुटिकां कृत्वा पटस्याग्रतः दधिमधुघृताक्तानां त्रिसन्ध्यं अष्टसहस्रं जुहुयात् सप्तरात्रम् | यं मृगयति तं लभते | अपामार्गसमिधानामेष विधिः | सुवर्णसहस्रं लभते अशोकगुटिकाव्यतिमिश्रैः अपामार्गतन्दुलैः पटस्याग्रतः त्र्यक्तानां दशसहस्राणि जुहुयात् | नामग्रहणेन राजकन्यं लभति मासमात्रेण | राजानं समन्त्रिणं वशीकर्तुकामः पटस्याग्रतः अशोकसमिद्भिरग्निं प्रज्वाल्य अशोकपुष्पाणामेव दधिमधुघृताक्तानां दश सहस्राणि जुहुयात् | स मन्त्री वशमागच्छति | पटस्याग्रतः अग्निं प्रज्वाल्य अपामार्गसमिद्भिः शतपुष्पां दधिमधुघृताक्तां दशसहस्राणि जुहुयात् | स्वगृहे निधानं पश्यति | समुद्रगामिन्यां नद्यां कटीमात्रमुदकमवतीर्य दशसहस्राणि निवेदयेत् | ये तां जिघ्रन्ति | वामहस्तेन मुष्टिं बध्वा लक्षं जपेत् | ताः सिद्धो भवति | मुक्त्वा दृश्यति | सधातुके चैत्ये नदीतटे वा पर्वते वा पटं प्रतिष्ठाप्य पद्मानां लक्षं जुहुयात् | श्रियं पश्यति | एतेनैव विधिना नीलोत्पलानां लक्षं जुहुयात् | विधानां पश्यति | गुग्गुलुगुलिकानां लक्षं जुहुयात् | दीवारलक्षं लभते | सुगन्धपुष्पाणां लक्षं जुहुयात् | वस्त्राणां कोटिं लभते | गुग्गुलुधूपेन अष्टशक्तिकेव एनोमिलपितां च पूरयति | प्द्f १२८, प्. ६७३) तिलसर्षपाणां पटस्याग्रतः प्रतिदिनमष्टसहस्रं जुहुयात् दिवसत्रयम् | पञ्चविंशतिदीनारां लभते | अनेनैव विधिना सप्तरात्रं जुहुयात् | दीनारशतं लभति | लवणमयीं प्रतिकृतिं छित्वा छित्वा जुहुयात् अष्टसहस्रम् | यमिच्छति स वशो भवति स्त्री वा पुरुषो वा | उभयार्द्रं हस्तसर्षपाणां घृताक्तानां अष्टसहस्रं जुहुयात् दिवसत्रयम् | सर्वविघ्नोपशमनम् | उदके एकपादं प्रक्षिप्य स्थले एक एव तावज्जपेद् यावदुदकस्थं पादं लघुर्भवति | ततः पापान्मुक्तो भवति | अर्ककाष्ठैरग्निं प्रज्वाल्य राजिकानामष्टसहस्रं जुहुयात् सप्ताहम् | कर्मावरणं क्षीयते | ब्राह्मी-गुडूची-पिप्पलीचूर्णं समभागानि कृत्वा मधुना सहार्यमञ्जुश्रियस्याग्रतः एकविंशतिवारान् परिजप्य लिहेत् सप्ताहम् | मेधावी भवति | द्विसप्तरात्रं परममेधावी भवति | द्विमासयोगेन श्रुतिधरो भवति | पटस्याग्रतः प्रतिमाया वा अष्टसहस्रं जपं कृत्वा पश्चात् पिवेत् | एवं दिनेदिने मौनी जपेत् | मेधावी भवति | बद्धो रुद्धो वा जपेनैव मुच्यति | चौरां दृष्ट्वा जपेत् | चोरैर्न मुष्यति | तैलमष्टसहस्राभिमन्त्रितं कृत्वा शिरं म्रक्षयेत् | सर्वजनप्रियो भवति | भगवतो बुद्धस्याग्रतः ये स्पृशन्ति ते सर्वे वश्या भवन्ति | अनेनैव मन्त्रेण शस्त्राहतस्य पुरुषस्य तैलमष्टसहस्राभिमन्त्रितेन म्रक्षयेद् व्रणो नश्यति | न वेदना भवति | अनेन लोष्टं परिजप्य सप्तवारां जले प्रक्षिपेत् | मकरकच्छपादीनां तुण्डबन्धः कृतो भवति | पूर्णमास्यां त्रिरात्रोषितो नाभिमात्रमुदकमवतीर्य शुक्लपुष्पाणामष्टशतं निवेदयेत् | पञ्चदीनारमूल्यं वस्त्रयुगं लभते | चन्द्रग्रहे सधातुके चैत्ये गुञ्जानां श्लक्ष्णचूर्णीकृतानां घृतमधुमिश्रा गुडिकां कारयेत् | सप्ताश्वत्थपत्रान्तरितां हस्तेनावच्छाद्य तावज्जपेद् यावज्ज्वलति | भक्षयेच्छ्रुतिधरो भवति | अनेन सर्वातुराणां कर्माणि कुर्यात् | शूलदाघवस्तस्त्रीमूत्रकृच्छ्राजरगृध्रभिदेयं तैलं परिजप्य निरोगो भवति | शुक्लप्रतिपदमारभ्य त्रिरात्रोपितः अश्वत्थपत्रवृक्षस्याधस्ताद् यूथिकाकलिकानां घृतदधिक्षीराभ्यकानां शतसहस्रं जुहुयात् | रूपक**(?) पिशाचज्वरभूतग्रहविनाशकं सूत्रेण मोक्षयति | प्द्f १२९, प्. ६७४) नार्या अप्रसवमानाया तैलमष्टशतं परिजप्य नाभिं कटिप्रदेशं वा म्रक्षयेत् | विशल्या भवति | कुम्भीरधारणं लोष्टशताभिमन्त्रितेन अनन्ता-वेतसी- ब्राह्मी-वचा-बृहती-मधुसंयुक्ता सधातुके चैत्ये चन्द्रमपश्यता तावज्जपेद् यावन्मुक्त इति | फरफरायते | भक्षयित्वा श्रुतिधरो भवति | सङ्ग्रामे प्रतिसराष्टशताभिमन्त्रितं कृत्वा ग्रन्थिं हस्ते बध्वा अहतबलो भवति | अहोरात्रोषितेन भगवतोऽग्रतः साधयितव्यः | समुद्रगामिनीं नदीमवतीर्यं गत्वा क्षीरयावकाहारेण पक्षमुपोष्य विकसितानां श्वेतपद्मानां उदके निवेदयेत् | निधानं पश्यति | पञ्चगव्येन कायशोधनं कृत्वा शुक्लप्रतिपदमारभ्य यावत् पूर्णमासीति कृतपुरश्चरणः अन्ते त्रिरात्रोषितः कुमारीकर्तितसूत्रं गृह्य सधातुके चैत्ये प्रतिमायां वा गृहे दशसहस्राभिमन्त्रितेन हस्ते बध्वा अदृश्यो भवति | सधातुके चैत्ये पटं प्रतिष्ठाप्य पद्मानां त्रिंशत्सहस्राणि जुहुयात् | खदिराङ्गारैरग्निं प्रज्वाल्य स्वरूपेण पश्यति | यं मृगयति तं लभते | प्रतिपदमारभ्य यावत् पञ्चदशीति | त्रिरात्रोपितः सधातुके चैत्ये उदारां पूजां कृत्वा उदुम्बरीभिः समिधाभिः अग्निं प्रज्याल्य घृताहुतिं जुहुयात् | ग्रामं लभते | समुद्रगामिन्या नदीतीरे स्तूपसहस्रं कारयेत् | प्रतिदिनमेकैकस्य स्तूपस्य गन्धपुष्पधूपादीं दत्वा अष्टसहस्राभिमन्त्रितं कारयेत् | यावत् पश्चिमं स्तूपं ज्वलति | ततो ज्ञातव्यम् भगवां महाबोधिसत्त्वमागच्छति | आगच्छमानस्य पृथिवीप्रकम्पः सुगन्धगन्धवायवो वान्ति | तावज्जपेद् यावत् स्वरूपेण तिष्ठति | स यं वरं याचते तं लभते | भगवतोऽग्रतः खदिरपत्रखण्डिकानां अष्टसहस्रं जुहुयात् | प्रतिदिनं दीनारमेकं लभते | अटर्वी गत्वा भिक्षाहारः दधिमधुघृताक्तानां अरण्यगोमयानां विंशतिसहस्राणि जुहुयात् | यावद् वृक्षदेवता सिंहरूपं कृत्वा आगच्छति | स च निदानं ददाति | न गृहेतव्यम् | स्वयमेवमुपतिष्ठस्वेति | राज्यं धनं वान्यरत्नानि वा ददाति | नित्यं रत्नत्रयोपयोज्यं भोगं दातव्यम् | अरण्यं प्रतिविशित्वा दशसहस्रं जपेत् | शतसहस्रं जपेत् | पुनरपि शतसहस्रं जपेत् | अगरुकाष्ठप्रतिमाग्रतः भगवतः वत्समण्डकानां मधुघृताक्षारां सप्तसहस्राणि जुहुयात् | कपिला कामधेनुसगमच्चह्ति | यदि नागच्छति पुनरपि वत्सलण्डं विंशतिसहस्राणि जुहुयात् | प्द्f १३०, प्. ६७५) आगता च सिद्धा भवति | पुरुषसहस्रस्य क्षीरं ददाति | पटस्याग्रतः घृतमध्वाक्तानां जातीपुष्पाणां अष्टसहस्रं जुहुयात् | षण्मासां दीनारसहस्रं लभते षणसहस्रं वा | विकसितपद्मानां दधिमधुघृताक्तानां शतसहस्रं जुहुयात् सधातुके चैत्ये बुद्धाभिप्रसन्ना देवता वरदा भवति | आर्यमञ्जुश्रियस्य पूजां कृत्वा गौरसर्षपाणां सप्ताभिमन्त्रितानां सङ्ग्रामे प्रकिरे | शान्तिर्भवति | प्रतिहारकपक्षे शुक्लत्रयोदश्यां गन्धपुष्पैः पूजां कृत्वा विकसितानां पद्मानां घृताक्तानां अष्टसहस्रं जुहुयात् | भस्मं च गृहीत्वात्मनः ललाटे तिलकं कृत्वा ग्रामं नगरं प्रविशेत् | सर्वे वशा भवन्ति | कृष्णचतुर्दश्यां प्रभृति यावत् पञ्चदशीति एकरात्रोपितेन वृक्षस्याधस्ताच्चतुर्हस्तमात्रं मण्डलकमुपलिप्य गन्धपुष्पधूपं दत्वा आर्यमञ्जुश्रियस्य पूजां कृत्वा यक्षाणां बलिं दत्वा मानुपास्थिं गृहीत्वा त्रिशूलं कारयेत् | वामहस्तेन प्रक्षिप्य सप्तरात्रत्रिरात्रोपितेन वा जातीपुष्पाणामष्टसहस्रं जुहुयात् | तेन शूलं ज्वलति | ततः सिद्धो भवति | इच्छया यं निर्मिणोति तं लभति | दिव्यं गृहं चन्द्रसूर्यग्रहे सधातुके चैत्ये प्रतिमायां वा गृहे कपिलायाः समानवत्सायाः गोघृतपलं गृह्य सौवर्णभाजने स्थाप्य भगवतः पूजां कृत्वा चन्द्रमपश्यता दर्शनोपरिच्छाद्य तावज्जपेद् यावदूष्मायति | फेनायति | ज्वलति | ऊष्मायमानं पीत्वा सर्वसत्त्ववशीकरणम् | फेनायमानं पीत्वान्तर्धानं भवति | ज्वलमानं पीत्वाकाशेन गच्छति | षण्मासकृतपुरश्चरणगोमूत्रयावकाहारिणा मौनव्रतिना नित्यजापेनायाचितं सुवर्णशतं लभते | प्रतिहारकपक्षमारभ्य संवत्सरं भगवतो आर्यमञ्जुश्रियस्याग्रतः पूजां कृत्वा गन्धपुष्पादीनां ददता अष्टाङ्गपोषधसमन्वागतेन पूर्णे संवत्सरे सिद्धो भवति | भगवानस्य पट्टबन्धं करोति | आर्यमञ्जुश्रियस्य पूजां कृत्वा प्रतिपदमारभ्य यावत् पौर्णमासी दिने दिनेऽधिकपूजा कार्या | भिक्षवश्च भोजयितव्याः | सिद्धोऽस्मीति वाङ्निस्सरति | घृताहुतीनां शतसहस्रं जुहुयात् | परस्य शान्तिर्भवति | प्रतिहारकपक्षे भा**(?)तो बुद्धस्य पूजां कृत्वा उदारां आर्यमञ्जुश्रियस्य गन्धपुष्पदीपधूपादी******(?) शङ्खपुष्पीपुष्पाणां शुद्धतैलाक्तानां शतसहस्रं जुहुयात् | प्द्f १३१, प्. ६७६) ग्रामनगरहस्त्यश्वरथगोमहिषाश्च भवति | सप्तरात्रं क्षीरयावकाहारः पोषधिकेन आमलितघृतेन पात्रं पूरयित्वा शुक्लवर्त्तिना दीपं प्रज्वाल्य कुमारकुमारिकानां दर्शापयेत् | तत्रैवाल्पज्ञानं सम्पन्नं पश्यति | सर्वोपद्रवेभ्यः भयं न भवति | नित्यजापिना बोधिवृक्षसमिधानां नवनीक्तानामष्टसहस्रं जुहुयात् | पटस्याग्रतः तथैव कुशसंस्तरे स्वपेत् | स्वप्ने विंशतिसाहस्रिकं द्रव्यं पश्यति | अर्थभागं रत्नत्रयोपयोज्यम् | पटस्याग्रतः शुक्लप्रतिपदमारभ्य यावत् पौर्णमासीति | अत्रान्तरे दिने दिनेऽष्टमसहस्रं जपेत् | गन्धपुष्पधूपादिभिः पूजां कृत्वा अन्ते त्रिरात्रोपितेन मौनव्रतं कुरुता मन्त्रं जपता प्रातिचारकेभ्यो बलिं हस्ते दत्वा महापथं गत्वा भूतं क्रूरं निवेदये | पतीच्छेति वक्तव्यः | गौरसर्पपाणां द्रोणं गृहीत्वा दश दिशोऽधस्ताच्च क्षिपेत् | एकविंशतिवारानभिमन्त्र्य परं आत्मानं प्रकाशयेत् | तथैव कृष्णाष्टम्यां गन्धकुटिं प्रविश्य भगवतोऽग्रतः सहस्रं जपेत् | गन्धपुष्पादिभिर्बलिविधानं कृत्वा ततः स्वप्ने पश्यति भगवानार्यमञ्जुश्रीः | वैशाखमासे कृष्णपक्षे पोषधिकेन क्षीरयावकाहारः सधातुके चैत्ये गन्धपुष्पदीपादिभिः पूजां कृत्वा भिक्षवश्च दिने दिने भोजयितव्याः | भिक्षवः अकालमूलकलशश्चत्वारः सलिलपूर्णाः स्थापयितव्याः | सर्वौषधिबीजानि प्रक्षिप्य रात्रौ एकैकमष्टसहस्राभिमन्त्रितं कृत्वा अकाकोलीने पुत्रदारदारिकां स्थापयेत् | राज्यम् | पक्षाभ्यन्तरयोः कृष्णाष्टम्यां भगवतः आर्यमञ्जुश्रियस्य च पूजां कृत्वा श्मशानाग्निं प्रज्वाल्य शतपुष्पाणां अष्टसहस्रं जुहुयात् | अन्नपानं अक्षयं भवति | तमेव भस्मं ग्रहाय आत्मनः परस्य वा ललाटे पुण्ड्रकं कृत्वा सङ्गामेऽवतरेत् सर्वे वशा भवन्ति | बन्धनाच्च निगडात् प्रमोचयेत् | अग्निगतां नाशयति | मालतीपुष्पाणां दधिमधुघृताक्तानां शतसहस्रं जुहुयात् | षण्मासं गोमूत्राहारः | दीनारसहस्रं लभते | शुक्लप्रतिपदमारभ्य नीलोत्पलानां अष्टसहस्रं जुहुयात् | यस्य नाम्ना जुहोति स वशो भवति | पञ्चकालकानां त्रिसन्ध्यं अष्टसहस्रं यस्य नाम्ना जुहोति स वशो भवति | प्रातिहारकपक्षे पटस्याग्रतः क्षीरयावकाहारः त्रिसन्ध्यं पञ्चदश्यां तावज्जपेद् यावद् भगवानागच्छति | दीपशिखा वर्द्धते | पृथिवी कम्पते | प्द्f १३२, प्. ६७७) पटं वा प्रचलति | सिद्धेति वाङ् निश्चरति | दीनारसहस्रं लभति | विषयपतिर्भवति | षण्मासकृतपुरश्चरणो सधातुके चैत्ये भगवतः आर्यमञ्जुश्रियस्याग्रतः षण्मासाभ्यन्तरेण दीनाराणां पञ्चसहस्राणि लभति | सधातुके चैत्ये पूजां कृत्वा शतसहस्रं जपेत् | रूपकससहस्रं प्रतिलभति | सधातुके चैत्ये शतसहस्रं जपेत् | सर्वकामग्रदो भवति | सर्वव्याधिषु प्रशमनं कर्तुकामेनाष्टशतसहस्राभिमन्त्रितं कृत्वा कन्याकर्त्रितसूत्रकं बन्धितव्यम् | सौभाग्यं प्रतिलभते | व्याधिश्च प्रशमति | समुद्रगामिनीं नदीमवतीर्य कृष्णतिलानां अष्टसहस्रं निवेदयेत् | धनधान्यं प्रतिलभते | सधातुके चैत्ये शुक्लप्रतिपदमारभ्य पञ्चदश्यां त्रिरात्रोपितेन उदुम्बरकाष्ठैरग्निं प्रज्वाल्य राजसर्षपाणां दधिमधुघृताक्तानां शतसहस्रं जुहुयात् | पञ्चग्रामाणि प्रतिलभते | राजवृक्षसमिद्भिरग्निं प्रज्याल्य श्वेततिलानां दधिमधुघृताक्तानां शतसहस्रं जुहुयात् | पञ्चदश्यां त्रिरात्रोपितः यदि ते तिला दिशि विदिशं गच्छन्ति | ततः सिद्धो भवति | सर्वसत्त्वा वशीकरोति | आर्यमञ्जुश्रियस्याग्रतः पूर्वं शतसहस्रं जपेत् | ततः चन्द्रग्रहे घृतमष्टपलानि दत्वा तावज्जपेद् यावत् फेनायति पीत्वा श्रुथरो भवति | कुन्दुरुकं शतसहस्रं जुहुयात् | अयाचितं पुराणमेकं लभते | आर्यमञ्जुश्रियस्याग्रतः प्रतिदिनमष्टशतं सुगन्धपुष्पाणां निवेदयेत् | श्रीमां भवति | अपामार्गसमिधानां दधिमधुघृताक्तानां प्रतिदिनं अष्टमसहस्रं जुहुयात् | ग्रामं लभते | बहुपुत्रिकासमिद्भिरग्निं प्रज्वाल्य वचाष्टसहस्रं जुहुयात् | तेन भस्मना तिलकं कुर्याद् अन्तर्हितो भवति | यदि न भवति त्रिरपि साधयेत् | चन्द्रग्रहे नदीतीरं गत्वा बिल्वसमिद्भिरग्निं प्रज्याल्य बिल्वपुष्पाणां घृताक्तानां शतसहस्रं जुहुयात् | यक्षकुमारी आगच्छति | अर्धरात्रे पुनरपि अष्टसहस्रं जपित्वा तत एका आगच्छति | यां वाचां उच्यते तं करोति | निधिस्थाने मन्त्रमष्टसहस्रं जपेत् पुष्पधूपगन्धादिभिः पूजां कृत्वा ततः कृष्णचतुर्दश्यां बलिविधानं कृत्वा जपेत् | पिशाचा आगच्छन्ति | ततः खनेत् | निधान उत्तिष्ठति | गृहीत्वात्मना त्रयाणां रत्नानां दातव्यम् | एवं पट्टबन्धमपि कर्म | भगवतोऽग्रतः विभीतककाष्ठैरग्निं प्रज्याल्य तिलतण्डुलानां प्रतिदिवसं अष्टसहस्रं जुहुयात् | प्द्f १३३, प्. ६७८) रण्डा वशा भवति | अमात्यवशीकरणा गौरसर्षपां जुहुयात् वशो भवति | राजवशीकरणे सर्जरसं जुहुयात् | वशो भवति | पुरुषस्त्रीवशीकरणे एतमेव जुहुयात् | अगस्तिकाष्ठैरग्निं प्रज्वाल्य दीपवर्तीनां पटस्याग्रतः दीनारशतं कभते | क्षीराहारेण पलाशसमिधानां जुहुयात् | प्रतिदिनं त्रिः कालम् | सुवर्णशतं लभति | समुद्रगामिनीं नदीं गत्वा शतशतसहस्रं जुहुयात् | यावद् रत्नानि प्रतिलभते ग्रहेतव्यम् | रत्नत्रयोपयोज्यं भागो देयः | वैशाखपूर्णमास्यांसकलां रात्रिं जपेत् | आनन्तर्यान्मुच्यति | बोधिवृक्षमूले भगवतः आर्यमञ्जुश्रियस्य पूजां कृत्वा अपामार्गसमिधानां दधिमधुघृताक्तानां जुहुयात् | आत्मानमुद्दिश्य | सर्वपापैर्मुक्तो भवति | सप्त सप्त मरिचानि अभिमन्त्र्य अकाकोलीने भक्षयेत् | पञ्चाशच्छलोकशतानि गृह्णाति | तच्च यावज्जीवं धारयति भगवतो बुद्धस्याग्रतः शतसहस्रं जपं कृत्वा पन्नगबन्धं करोति | जले वैकङ्कतसमिधानां दधिमधुघृताक्तानामार्यमञ्जुश्रियस्याग्रतः शतसहस्रं जुहुयात् | अर्धरात्रे पञ्च दीनारशतानि प्रतिलभते अर्धं रत्नत्रयोपयोज्यम् | कुमुदानि दिने दिनेऽष्टसहस्रं जुहुयात् | विनायकैर्मुक्तो भवति | कार्त्तिकशुक्लपक्षे क्षीरयावकाहारः शाकाहारो वा पोषधिकः पञ्चदश्यां त्रिरात्रोपितो वैकङ्कतफलानां घृताक्तानां लक्षं जुहुयात् | रूपकसहस्रं प्रतिलभते | ग्रामस्वामी भवति | अर्धं रत्नत्रयोपयोगम् | शुचौ भूप्रदेशे गोचर्ममात्रं मण्डलमुपलिप्य तन्मध्ये पद्माकारां वेदिं कृत्वा गन्धपुष्पधूपविचित्रबलिं कृत्वा वैकङ्कतसमिधाना सुगतवितस्तिप्रमाणानां लक्षं जुहुयात् | अग्न्याकारा नीलवर्णा अर्चिषो निश्चरन्ति | साधकं प्रदक्षिणीकृत्य पुनरप्यग्निकुण्डे प्रविशन्ति | एवं सिद्धो भवति | सर्वसाधनेषु अग्निरावाहितव्यम् | एवं सिद्धो भवति | गङ्गायामंसमात्रमुदकमवतीर्य लक्षं जपेत् यावदाकाशादित्यमण्डलं दृश्यति | ततः भगवां सिद्धो भवति | यदि न पश्यति न सिध्यति एकवाराहिं गत्वा गन्धपुष्पधूपबलिविधानं कृत्वा सकलां रात्रिं जपेत् | यावदुश्वशतिं | ततः सिद्धो भवति | सर्वसाधनेषु मा च वक्तव्या | प्द्f १३४, प्. ६७९) रूपकशतं मे दिने दिने ददाति | सर्वं व्ययीकर्तश्यम् | अन्यथा न ददाति | पलाशकाष्ठैरग्निं प्रज्वाल्य अरण्यगोमयानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | गोशतं लभति | मातुलङ्गफलानां अष्टसहस्रं जुहुयात् पलाशाग्नौ | यावद् गणपतिरागच्छति | स वक्तव्यः - मम दिने दिने दीनारमेकं देहि ददाति | सर्वः व्ययीकर्तव्यः | बह्गवतः पादौ स्पृशेति वक्तव्यः ततः सिद्धो भवति | अथवा न ददाति बिल्वफलानां दधिमधुघृताक्तानां सधातुके चैत्ये पटस्याग्रतः एकरात्रोपितः वैकङ्कतसमिधाग्निं प्रज्वाल्य अष्टसहस्रं जुहुयात् | अनेन कर्मणा श्रीमां भवति | विषयाधिपतिर्भवति | किङ्किराटपुष्पाणि | अनेन कर्मणा श्रीमां भवति | विषयाधिपतिर्भवति | किङ्किराटपुष्पाणि दिने दिने अष्टसहस्रं जुहुयात् | दिनानि सप्त | अष्टौ पणं प्रतिलभते | शान्तिकं कर्तुकामो लाजाहुतीनां अष्टसहस्रं जुहुयात् | शान्तिर्भवति | पुष्टिमिच्छता क्षीरवृक्षसमिधानामग्निं प्रज्वाल्य त्रिसन्ध्यं तिलतण्डुलानामष्टसहस्रं जुहुयात् | दिवसानि त्रीणि | पुष्टिर्भवति | आम्रकाष्ठैरग्निं प्रज्वाल्य दूर्वाङ्कुराणां अष्टसहस्रं जुहुयात् | विवादे उत्तरवादी भवति | अस्तमिते व्रीहितुषाणां नामं गृहीत्वा वामहस्तेन जुहुयात् | सप्तरात्रं वशो भवति | राजसमिद्भिरग्निं प्रज्वाल्य तिलतण्डुलानां अष्टसहस्रं त्रिसन्ध्यं जुहुयात् | दिवसानि त्रीणि अर्थं ददाति | गङ्गायामुसलशब्दरहिते शुचौ प्रदेशे उभयकूलमृत्तिकां गृह्य सचतुरश्रां सप्तहस्तां वेदिकां कृत्वा मध्ये सहस्रपत्रं पद्मं कृत्वा तस्योपरि सुगतवितस्तिप्रमाणं पञ्चलोहितकं चक्रं प्रतिष्ठाप्य मण्डलमध्ये पटस्याग्रतः साधयितव्यः गन्धपुष्पैः श्वेतचन्दनैरर्चयित्वा मन्दारकरक्तपुष्पमालां दत्वा ततो गन्धादिभिः पूजां कृत्वा घृतप्रदीपमाला सप्त देया चतुर्दिशं चत्वारो घृतकुम्भाः प्रज्वालयितव्याः | चतुर्दिशं चत्वारः कलशाः सर्वबीजपूर्णका रत्नानि च प्रक्षिप्य स्थापयितव्या | कुन्दुरु-अगरुश्रीपिष्टक-गुग्गुलु-धूपो देयः | बलिविधानं कृत्वा चतुर्दिशं पूर्वोक्तेन दधिभक्तोऽपूषकं देयम् | दक्षिणभूतक्रूरं उदकमिश्रं देयम् | पश्चिमायां दिशि कुरङ्गुडक्षीरपूर्णकं देयम् | उत्तरायां दिशि पायसपूर्णकं बलिमुपहरेत् | ततः पलाशसमिद्भिरग्निं प्रज्वाल्य अपामार्गसमिधानां प्द्f १३५, प्. ६८०) सप्ताभिमन्त्रितानां घृतानामष्टसहस्रं जुहुयात् | नामं ग्रहाय | वशो भवति | राजवृक्षसमिद्भिरग्निं प्रज्वाल्य लवणमयीं प्रतिकृतिं कृत्वा शिरादारभ्य ऐककामाहुतिं सप्ताभिमन्त्रितां यावच्चरणाविति नामं ग्रहाय अष्टसहस्रं जुहुयात् | राजा वशो भवति | शुक्लपञ्चदश्यामष्टम्यां वा पोषधिकोऽहोरात्रोपितोऽपतितगोमयं गृह्य गोचर्ममात्रस्थण्डिलमुपलिप्य सधातुके चैत्ये आर्यमञ्जुश्रियस्य रजतमये वा भाजने कपिलायाः गोः समानवत्सायाः कुमारीमथितं नवनीतं गृह्य कुशविण्डकोपविष्टः वामहस्तेन भाजनं गृह्य दक्षिणहस्तेनानामिकायामङ्गुह्या आलोडयं तावज्जपेद् यावदूष्मायति | तत् पातव्यम् | मेधावी भवति | सकृदुक्तं गृह्णाति | अथ धूमायति वशीकरणम् | अथ ज्वलति अन्तर्धानं भवति | बहुपुत्रिकां अष्टसहस्रं जुहुयात् | तेन भस्मना उदककुम्भांश्चत्वारः | समिश्रीकृत्वा कारयितव्या | अष्टशताभिमन्त्रितां वाचां दक्षिणहस्ते बध्वा यावत् सर्वत्रोत्तरवादी भवति | अपराजितपुष्पाणामष्टसहस्रं जुहुयात् | सङ्ग्रामेऽपराजितो भवति | कुमारीकर्तितसूत्रेण सप्ताभिमन्त्रितेन ग्रन्थयः कर्तव्याः बन्धितव्याः | स्थावरजङ्गमा विषा नात्र प्रभवन्ति | दारुणेन सर्पेण दष्टस्य नामं ग्रहाय सप्ताभिमन्त्रितमुदकचूर्णकं पानाय देयम् | मृतोऽप्युत्तिष्ठति | तथैव चतुर्दिशाभिमन्त्रितं कृत्वा पानाय देयम् | तक्षकेनापि दष्टो जीवति | स्तनगण्डिकायां सप्ताभिमन्त्रितया मृत्तिकया लेपयेत् | मुच्यति | वेदना न भवति | मार्युपद्रवे नगरमध्ये वा अर्धरात्रौ स्थण्डिलकमुपलिप्य शुक्लं बलिं कृत्वा क्षीरवृक्षसमिद्भिरग्निं प्रज्याल्य क्षीराहुतिसहस्रं जुहुयात् | मार्युपशमयति | अथ नोपशमयति | ततोऽन्यतमस्मिन् दिवसे मध्याह्नवेलायां श्लेष्मातकसमिद्भिरग्निं प्रज्वाल्य सिद्धार्थानामष्टसहस्रं जुहुयात् | सद्यो मारिं प्रशमयति | अनेन विधिना कृतेन विषमबन्धः यावन्तः सत्त्वा ते तस्य वशा भवन्ति | कूष्माण्डवशीकरणे कूष्माण्डसमिधानामष्टसहस्रं जुहुयात् | मारिमुपशमयति | प्रेतवशीकरणे तिलपिष्टकानामष्टसहस्रं जुहुयात् | प्रेता वश्या भवन्ति | पिशाचवशीकरणे श्मशानचेलकानामष्टसहस्रं जुहुयात् | पिशाचा वशा भवन्ति | पक्षवशीकरणे वटवृक्षसमिधानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् | प्द्f १३६, प्. ६८१) यक्षा वशा भवन्ति | अपस्मारोजेहारवशीकरणे ऊर्णाहुतीनामष्टसहस्रं जुहुयात् | यक्षा वशा भवन्ति | अपस्मारोजेहारवशीकरणे ऊर्णाहुतीनामष्टसहस्रं जुहुयात् | वशा भवन्ति | घृताक्तानां गुग्गुलुगुलिकानामष्टसहस्रं जुहुयात् | महादेवानुचरा ग्रहा वशा भवन्ति | वीरक्रयक्रीतां मनःशिलां गृहीत्वाराजवृक्षसमिद्भिरग्निं प्रज्वाल्य तावज्जपेद् यावदग्निवर्णा भवति | ततः समानवत्सायाः गोः कपिलायाः कन्यामथितेन नवनीतेन कृत्वा तस्मिं घृते निर्वापयेत् | एवं दधिपूर्णभाजने मधुपूर्णे च | ततः अनेनैव रक्षां कृत्वा समुद्गके स्थाप्य चन्द्रग्रहे त्रिरात्रोपितेन सधातुके चैत्ये आर्यमञ्जुश्रियस्याग्रतः पूजां कृत्वा उत्तरामुखेनाश्वत्थपत्रचतुष्टये स्थाप्य तावज्जपेद् यावदूष्मायति | धूमायति | प्रज्वलति | वशीकरणान्तर्धानमाकाऽऽअगमनमिति | एवं अञ्जनहरितालरोचनां चेति | रोचनया अयं विशेषः - शुक्लपञ्चदश्यां पद्मपत्रे स्थाप्य आर्यमञ्जुश्रियस्याग्रतः करसम्पुटेन गृहीत्वा तावज्जपेद् यावत् त्रिविधा सिद्धिः | एते च कर्मा मूलपटस्याग्रतः कर्तव्यानि | सप्तरात्रं पञ्चलोहेन पद्मं कृत्वा कुङ्कुमरोचनकर्पूरमुदके पिष्ट्वा पद्मं म्रक्षयित्वा ततः शुक्लाष्टम्यामुपोषधिकेन त्रिःकालस्नायिना शुचिवस्त्रप्रावृतेन सधतुके चैत्ये आर्यमञ्जुश्रियस्याग्रतः दक्षिणेन हस्तेन गृहीतेन तावज्जपेद् यावत् प्रज्वलति | ततस्तेन गृहीतेन विद्याधरो भवति | दशवर्षसहस्राणि जीवति | एवं कटकमकुटशृङ्खला चेति | एवं शैलरक्तचन्दनं गुग्गुलं नन्द्यावर्तमूलं गिरिकर्णिकातुषं व्रीहिकुष्ठतगरं मधु पिप्पली तुरुष्कं चैकतः कृत्वा समभागानि कारयेत् | ततः कपिलायाः समानवत्सायाः गोः क्षीरं गृह्य कन्यामथितेन नवनीतेन मोदयित्वा गुलिकां कारयेत् | अक्षतैलेन दीपो दातव्यः | तत उपोषधिकेन शुक्लचतुर्दश्यामहोरात्रोपितः अश्वत्थपत्रान्तरिता गुलिकां कृत्वा आर्यमञ्जुश्रियस्याग्रतस्तावज्जपेद् यावद् धूमायति | सखायानां दत्वा आत्मना मुखे प्रक्षिपेत् | अन्तर्हितो भवति | अथ ज्वलति आकाशगामी भवति | अपरो विधिः | सधातुके चैत्ये पटस्याग्रतः पोषधिकेनोदारां पूजां कृत्वा अर्कसमिद्भिरग्निं प्रज्वाल्य दधिमधुघृताक्तानां खदिरसमिधानामष्टसहस्रं जुहुयात् | प्द्f १३७, प्. ६८२) शुक्लचतुर्दश्यामारभ्य यावत् पञ्चदशीति | सिद्धा एव सिद्धो भवति | एवं पोषधिकेन लक्षं जप्तव्यम् | परतः कर्माणि भवन्ति | अनया पूर्वसेवया सिद्धो भवति | अथ राजानं राजमात्रं वा वशीकर्तकामो भगवतः पूजां कृत्वा राजवृक्षसमिधानां इङ्गुदतैलाक्तानां अष्टसहस्रं जुहुयात् | चतुर्दशीमारभ्य यावत् पञ्चदशीति | अनेन कर्मणा दुःशीलस्यापि सिद्धिर्भवति | चतुर्वर्णं वशीकर्तुकामः पायसं हविष्यान्नमानीय पेयकृसरा चेति जुहुयात् | वश्या भवन्ति | रात्रौ शुचिरष्टशतं जपेत् | सर्वाबन्धनान्मोचयति | क्रोधमुपशमनं पिण्डकतुषहोमेन वा कन्यावशीकरणे तिलां जुहुयात् | वस्त्रकामेन कर्प्पणं जुहुयात् | अष्टसहस्रं सप्तरात्रं वचां अष्टसहस्राभिमन्त्रितां कृत्वा हस्ते बध्वा यं याचयति तं लभते | नित्यजापेन प्रत्यङ्गिरा पद्मसूत्रादिना अष्टसहस्राभिमन्त्रितेन यस्य हस्ते वध्नाति तस्य रक्षा कृता भवति | धनमिच्छं गुग्गुलुगुलिकानामष्टसहस्रं जुहुयात् | सप्तरात्रम् कुलपतिकामः गन्धां जुहुयात् सप्तरात्रम् घृताक्तां | ग्रामं लभति | पुष्पमष्टशताभिमन्त्रितं यस्य ददाति स वशो भवति | कुङ्कुमतगरतालीसपत्रं समृणालशतपुष्पश्रीवेष्टसमायुक्तं विधिनाभिमन्त्रितं राजद्वारे वस्त्रस मालभं स्त्रीपुरुषप्रयुक्तवशीकरणं युद्धविजयकरणम् | ध्वजमष्टसहस्रवारां परिजप्य गन्धपुष्पधूपं चाभिमन्त्रयित्वा सप्त दधिकुण्डेषु अर्घ्यं विसर्जयेत् | परसैन्यं दर्शनादेव च नश्यति | कृष्णतिलां पटस्याग्रतः अष्टसहस्राभिमन्त्रितं कृत्वा यस्य नामं ग्रहाय भक्षयति सवशो भवति | अष्टसहस्रजप्ता सर्वबीजानि सर्वौषध्यः सर्वगन्धानि च सुरभिपुष्पाणि पद्मं वा सर्वाणि अकालमूलकलशे प्रक्षिप्य बोधिवृक्षे अष्टसहस्रं जपेत् | स्वयं वा स्नापयेत् | अन्यं वा स्नापयेत् | सर्वोपद्रवेभ्यो मुक्तो भवति | पद्मं वा पद्मपत्रं वा निर्धूमेषु अङ्गारेषु यस्य नाम्ना जुहोति स वश्यो भवति | बिल्वपत्रं मधुसंयुक्तं अष्टसहस्रं जुहुयात् | राजपत्नी वा राजमहिषी वा वशीकरोति | सर्वसत्त्ववशीकरणे प्रियङ्गुं जुहुयात् | यस्य नामं ग्रहाय रक्तशालयः जुहोति | स वशो भवति | कुमारीवशीकरणे केसरपुष्पां जुहुयात् | पटस्याग्रतः क्षीरपायसं अष्टसहसां जुहुयात् | प्द्f १३८, प्. ६८३) यस्य नाम्ना स वशो भवति | सधातुके चैत्ये पूर्वाभिमुखं पटं प्रतिष्ठाप्य शुक्लप्रतिपदमारभ्य वेदिः पूर्वोत्तराग्रैर्दर्भैर्विस्तार्य बिल्वसमिधाभिरग्निं प्रज्वाल्य विकसितानां पद्मानां दधिमधुघृताक्तानां त्रिसन्ध्यमष्टसहस्रं जुहुयात् | अगरुतुरुष्क-कुन्दुरुक-श्रीपिष्टकेन च धूपो देयः | क्षीरदधिभक्तं बलिं दद्यात् | विघ्नानां सर्वभौतिकं बलिं देया | ततोऽष्टम्यां प्रभृति विकसितानां श्वेतपद्मानां दधिमधुघृताक्तानां त्रिसन्ध्यमष्टसहस्रं जुहुयात् | महानिधानं विषयं वा लभते | दधिमधुघृताक्तानां पीतपुष्पाणां दिने दिनेऽष्टसहस्रं जुहुयात् | देशं लभति | त्रिरात्रोपितः सक्तवाहारेण वा होमः कर्तव्यः | एवं सप्ततिः शतसहस्रैरानन्तर्यकारिणस्यापि सिद्ध्यति | तदेव समिधानां दधिमधुघृताक्तानां लक्षं जुहुयात् | सुवर्णकोटि लभते | प्रातरुत्थाय प्रयतः स्नातो ब्रह्मचार्यग्निं प्रज्वाल्य नागकेसरप्रियङ्गुराजानं राजमात्रं वा वशीकर्तुकामोऽष्टसहस्रं जुहुयात् | त्रिसन्ध्यम् | त्रिमासाभ्यन्तरेण विशिष्टफलं प्राप्नोति | द्रव्यं प्रभूतं च | गोवत्सलण्डानां शतसहस्रं जुहुयात् | गोशतं लभते | प्रियङ्गुनागकेसरसमिधानां यस्य नाम्ना जुहोति स वश्यो भवति | खदिरसमिधानां दधिमधुघृताक्तानां पटस्याग्रतोऽष्टसहस्रं त्रिसन्ध्यं जुहुयात् | महानिधानं लभति | तद् दीयमानमक्षयं भवति | समुद्रगामिनीं नदीमवतीर्य पद्मानां रक्तचन्दनाक्तानां शतसहस्रं प्रवाहयेत् | पद्मराशितुल्यं निधानं पश्यति | पटस्याग्रतो बिल्वाहुतीनामष्टसहस्रं जुहुयात् त्रिसन्ध्यम् | भोगानुत्पादयति | तिलतण्डुलानेकीकृत्य पटस्याग्रतोऽष्टसहस्रं त्रिसन्ध्यं जुहुयात् सप्तरात्रम् | अक्षयमन्नमुत्पद्यते | नागानां नागपुष्पाणि जुहुयात् | वशा भवन्ति | यक्षाणां पटस्याग्रतो गुग्गुलुगुलिकानामष्टसहस्रं जुहुयात् | त्रिसन्ध्यं सप्तरात्रमशोकसमिद्भिः | यक्षिणी वशा भवति | श्रीवासकं पटस्याग्रतो जुहुयात् | किन्नरा वशा भवन्ति | देवानां वशीकर्तुकामः मूलपटस्याग्रतोऽगरुसमिधानां घृताक्तानामष्टसहस्रं जुहुयात् त्रिसन्ध्यमेकविंशतिरात्रम् | वशा भवन्ति | पटस्याग्रतः कुन्दुरुकं जुहुयात् | प्रेतावशा भवन्ति | सर्जरसं जुहुयात् | विनायका वशा भवन्ति | पिण्याकहोमेन सर्वां वशीकरोति | प्द्f १३९, प्. ६८४) राजानं राजमात्रं वा वशीकर्तुकामः पटस्याग्रतो राजसर्षपां तैलाक्तामष्टसहस्रं जुहुयात् | सप्तरात्रम् | वशा भवन्ति | यदुच्यन्ति तत् करोति | राजकन्यावश्यार्थे पटस्याग्रतो राजिकां जुहुयात् | पुरोहितं वशीकर्तुकामः पटस्याग्रतः घृतं जुहुयात् | क्षत्रियं वाहुतिभिः | वैश्यवशीकरणे क्षीरं जुहुयात् | शूद्रवशीकरणे कृसरां जुहुयात् | सर्वस्त्रियो वशीकरणे लवणहोमेन | रण्डा माषहोमेन | सर्वसत्त्वां तिलतैलाक्ते वशीकरोति | सर्वेषामष्टसहस्रिको होमः सप्तरात्रम् | शुचिर्भूत्वा चतुर्भक्तोषितः विल्वसमिधाभिरग्निं प्रज्वाल्य बिल्वानां जुहुयात् | शतसहस्रं निधानं पश्यति | विंशतिरात्रं क्षीरयावकाहारेण श्वेतसर्षपाणां लक्षं जुहुयात् | अर्थं लभते | कृतपुरश्चरणः गौरसर्षपाणां घृताक्तानां पटस्याग्रतः रात्रौ दिवसं जुहुयात् | मासेन व सुवृष्टिर्यत्रेच्छति | चतुर्भक्तोपितो दशसहस्राणि एतदेव जुहुयात् | अर्थं लभते | सधातुके चैत्ये पटं प्रतिष्टाप्य पलाशकाष्ठैरग्निं प्रज्वाल्य उत्पलानां लक्षं जुहुयात् | ग्रामं लभति | पटस्याग्रतः गन्धपुष्पधूपं वा क्षीरयावकाहारः पद्मं जुहुयात् | सुवर्णसहस्रं प्रतिलभते | कुमुदानां पटस्याग्रतो लक्षं जुहुयात् | यं मनसा चिन्तयति तं लभते | पटस्याग्रतो बिल्वानां सहस्रं जुहुयात् | निधानं पश्यति | पटस्याग्रतो दधिमधुघृताक्तानां पद्मानां शतसहस्रं जुहुयात् क्षीरयावकाहारः | सुवर्णसहस्रं प्रतिलभे | त्रिरात्रोपितोऽगरुसमिधानामष्टसहस्रं जुहुयात् | ततः सर्वरात्रिको जापो देयः | पटः प्रकम्पते | स्रग्दामचलनं वा | ततः सिद्धो भवति | यं मनसा चिन्तयति तं ददाति | महापुरुषवशीकरणे पटस्याग्रतः जातीपुष्पाणि जुहुयात् | विषमार्थं करवीरपुष्पाणां जुहुयात् | कर्णिकारपुष्पाणां जुहुयात् | दीनारशतं लभते | सेनापतिकामः कुन्दपुष्पाणि जुहुयात् | सैनापत्यं लभते | तारावर्त्तपुष्पं जुहुयात् | दीनारसहस्रं लभते | मुचुलिन्दलक्षं जुहुयात् | सुवर्णसहस्रं लभति | श्वेतकरवीरपुष्पहोमेन त्रिपदे बद्धो भवति | विषयमपि लभते पटस्याग्रत आधारकोऽग्निमुपसमाधाय प्रतिदिनं वर्द्धमाना पूजा कार्या | गन्धतैलाक्तानां कनकस्य तुटिमात्रं सहस्रं जुहुयात् | यावद् भगवां वरदः | प्द्f १४०, प्. ६८५) ततः विद्याधरचक्रवर्त्ती भवति | यं प्रार्थयति | रजतचूर्णं जुहुयात् | राज्यं ददाति | आयसं चूर्णं जुहुयात् | दीनारसहस्रं लभति | कुङ्कुमाहुतिं गन्धतैलाक्तां शतसहस्रं जुहुयात् | यावतः प्रार्थयति तं लभति | सर्वगन्धाहुतीनां लक्षं जुहुयात् | यथाभिप्रेतं विषयं लभति | कर्पूराहुतीनां लक्षं जुहुयात् | दीनारलक्षं लभति | चन्दनसमिधानां गन्धतैलाक्तानां लक्षं जुहुयात् | दीनारसहस्रं लभति | सुवर्णचेलाहुतिलक्षं जुहुयात् | दीनारसहस्रं लभति | अगरुसमिधानां लक्षं जुहुयात् | श्रुतिधरो भवति | धासकसमिधानां गन्धतैलाक्तानां लक्षं जुहुयात् | महाव्याध्युपशमो भवति | निम्बफलानां गन्धतैलाक्तानां लक्षं जुहुयात् सर्वबन्धनान्मोचयति | समानवत्साया गोः घृतं गृह्य लक्षाभिमन्त्रितं पिबेत् | मेधावी भवति | अर्कपुष्पाणां लक्षं जुहुयात् | सर्वसत्त्ववल्लभो भवति | पुष्पफलं सप्ताभिमन्त्रितं कृत्वा यस्य दीयते स वशो भवति | पोषधिकः शुक्लपञ्चदश्यां सधातुके चैत्येऽपतितगोमयेन मण्डलकमुपलिप्य गन्धपुष्पघृतप्रदीपाभिः पूजां कृत्वा उदुम्बरकाष्ठैरग्निं प्रज्वाल्य ब्रह्मीसमिधानामष्टसहस्रं जुहुयात् | हविष्याहारो मेधावी भवति | ब्राह्मणवशीकरणे क्षीरं जुहुयात् | स वशो भवति | क्षत्रियस्य हविष्यं जुहुयात् | वशो भवति | वैश्यवशीकरणे यवदधिमिश्रं हविष्यं चैकीकृत्य जुहुयात् | वशो भवति | शत्रुं दृष्ट्वा जपेत् | स्तम्भितो भवति | उदकेन सप्ताभिमन्त्रितेन सर्वाशा पूरयति | सर्वरोगेषु उमार्जनम् | लोध्रगुलिकाया सप्ताभिमन्त्रितयाक्षीण्यञ्जयेत् | अक्षिरोगमपनयति | ग्लानस्य सूत्रकं सप्ताभिमन्त्रितं बन्धितव्यम् | सर्वग्रहा न प्रभवन्ति | भस्मना सप्तजप्तेन मण्डलबन्धः शिखाबन्धेनात्मरक्षा भवति | सप्तजप्तेन लोष्टकेन दिशाबन्धः | दुःप्रसवाद्या तैलं परिजप्य दातव्यम् | सुखं प्रसवति | मूढगर्भया ऋतुकालसमये क्रान्तस्नाताया गोक्षीरमष्टशताभिमन्त्रितं कृत्वा सर्वबुद्धबोधिसत्त्वानां प्रणामं कारयित्वा पानाय देयम् | परमान्नं च घृतमिश्रं भोजयितव्यः | ततः पुत्रं प्रसवति | प्रासादिकं शुक्लप्रतिपदमारभ्य पूर्वाभिमुखं पटं प्रतिष्ठाप्यः प्रतिदिनं गुग्गुलुगुडिकानामष्टसहस्रं जुहुयात् | प्द्f १४१, प्. ६८६) त्रिसन्ध्यम् | यमिच्छति तं ददाति | कृतपुरश्चरणः सधातुके चैत्ये पटं प्रतिष्ठाप्य गन्धपुष्पधूपबलिं दत्वा पटस्याग्रतोऽगरुसमिधानामङ्गुष्ठपर्वमात्राणां तुरुष्कतैलाक्तानां जुहुयात् सप्तरात्रं त्रिसन्ध्यम् | राज्यं ददाति | विद्याधरमन्तर्धानं वा पादप्रचारिकं वा श्रुतिधरत्वं ददाति | अथ गुलिकां साधयितुकामेन कर्णिकारकेसरं नागकेसरं श्वेतचन्दनं गजमदं चेकीकृत्य छायाशुष्कां गुडिकां कृत्वा शुचिवस्त्राद्याः कन्यायाः पीषयेत् | पुष्यनक्षत्रे करणीयम् | शुचिर्भूत्वा सप्तगुटिकां त्रिलोहवेष्टितां कृष्णागरुसमुद्गके प्रक्षिप्य पटस्याग्रतो जपेद् यावत् खटखटायति | तां गृह्य भगवतो एकं दत्वा मुखे प्रक्षिप्यान्तर्हितो भवति | पटस्याग्रतः लक्षानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् | निधानं लभति | कदम्बपुष्पाणां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् | सर्वसत्त्वा वशाः | समुद्रगामिनीं नदीमवतीर्य उपवसित केसरपुष्पाणामष्टसहस्रं जुहुयात् | दशवस्त्रयुगानि लभति | पटस्याग्रतः जातीपुष्पाणां दधिमधुघृताक्तानां त्रिसन्ध्यमष्टसहस्रं जुहुयात् | दिवसानि सप्त | सर्वसत्त्वानां प्रियो भवति | विषयं ददाति लभति | कुमुदपुष्पाणां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् | दिवसानि सप्त पञ्चविषयाणि लभन्ते | राजवशीकरणे राजसर्षपां जुहुयात् | सप्तरात्रम् | ब्राह्मणवशीकरणे करण्टकपुष्पाणामष्टसहस्रं जुहुयात् | सप्तरात्रम् | वैश्यवशीकरणे सौगन्धिकपुष्पाणामष्टसहस्रं जुहुयात् सप्तरात्रम् | शूद्रवशीकरणेऽष्टसहस्रेणाग्नौ जुहुयात् सप्तरात्रम् | रण्डा वैकङ्कतसमिधानामष्टसहस्रं जुहुयात् सप्तरात्रम् | सधातुके चैत्ये रोचनामष्टसहस्राभिमन्त्रितां कृत्वा राजकुले गच्छेत् | सर्वे वशा भवन्ति | दूर्वाङ्कुराणामष्टसहस्रं जुहुयात् | शान्तिर्भवति परस्य | आत्मनः शान्तिं कर्त्तुकामेन त्रिसन्ध्यं क्षीरं जुहुयात् | शान्तिर्भवति | महादेवस्य दक्षिणां मूर्त्तिं ताम्रभाजने घृतं स्थाप्य सहस्रं जपेत् | सर्वभूतिकं बलिं निवेद्या च | घृतं चलति | ततः सिद्धो भवति | ललाटे तिलकं कृत्वा सर्वजनप्रियो भवति | मेधावीकरणे भगवतश्चापिताभस्यार्यमञ्जुश्रियस्य च पूजां प्द्f १४२, प्. ६८७) कृत्वा रजते वा ताम्रे वा घृतं स्थाप्य तावज्जपेद् यावत् त्रिविधा सिद्धिः | तं पीत्वा मेधावी भवति | धूमायमानेऽन्तर्धानम् | ज्वलितेनाकाशगमनम् | मनःशिलां साधयितुकामेन क्षीरयावकाहारो लक्षं जपेत् | महादेवस्याग्रतस्त्रिरात्रोषितः सप्तभिरश्वत्थपत्रैः प्रतिष्ठाप्य त्रिभिराच्छाद्य सर्वभूतिकां बलिं निवेद्यम् | अयन्त्रित आत्मनः सखायानां च रक्षां कृत्वा तावज्जपेद् यावत् त्रिविधा सिद्धिः | ज्वलितेन दशवर्षसहस्राणि जीवति | अयोमयं चक्रं कृत्वा त्रिशूलं वा उदारां पूजां कृत्वा दक्षिणहस्तेन गृहीत्वा पटस्याग्रतः पर्यङ्कोपविष्टस्तावज्जपेत् यावद् चिटचिटायति | ज्वलति | तं गृहीत्वा विद्याधरो भवति | सर्वदेवमनुष्या वशा भवन्ति | अङ्गुलिसाधनं कर्तुकामः नद्या उभयकूलमृत्तिकां गृह्य तयाङ्गुलिं कारयेत् | तमङ्गुलिं पटस्याग्रतः स्थापयित्वा तावदाकर्षयेत् | यावदागच्छेति | सिद्धा भवति | तया यमाकार्षयति स आगच्छति | रोचनां साधयितुकामः कृतपुरश्चरणः पटस्याग्रतः प्रतिष्ठाप्य गन्धपुष्पधूपं दत्वा तावज्जपेद् यावज्ज्वलितमिति | तया च सिद्धया पञ्चवर्षसहस्राणि जीवति | पद्मं साधयितुकामेन रक्तचन्दनमयं पद्मं कृत्वा पटं सधातुके चैत्ये प्रतिष्ठाप्य तस्याग्रतो गृहीत्वा कृतपुरश्चरणस्तावज्जपेद् यावज्ज्वलतीति गृहीत्वा सर्वविद्याधरचक्रवर्ती भवति | कैलासानुचरा देवाः वशा भवन्ति | सर्वविद्याधराणामधृष्यः | उदकेन विषचिकित्सा | ज्वरादेशनं स्वस्थावेशिनं सकृज्जप्तेनात्मरक्षा | सूत्रकेनोदकेन जप्तेन सखायरक्षा | त्रिजप्तेन दिशाबन्धः | चतुर्जप्तेन मण्डलबन्धः | कृष्णाष्टम्यामहोरात्रोपितेन कपिलाया गोः समानवत्साया अपतितगोमयेनार्यमञ्जुश्रियं कृत्वा पूर्वाभिमुखं स्थाप्य महतीं पूजां कृत्वा तस्याग्रतो लक्षं जपेत् | ततो भगवां शिरः कम्पयति | अन्यं वा सिद्धिनिमित्तं दर्शयति | ततः सिद्धो भवति | यं चिन्तयति तं सर्वं करोति | भगवां वरदो भवति | सर्वेच्छां सम्पादयति | स्वप्ने च शुभाशुभं कथयति | यथेष्टं प्रयुञ्जीत | पूर्वाह्णे सहस्रजप्तेन मृष्टमन्नमुत्पद्यते | पोषधिकः क्षीरयावकाहारः पर्वतशिखरमारुह्य शतसहस्रं जपेत् | दर्शनं भवति | ईप्सां सम्पादयति | प्द्f १४३, प्. ६८८) पटस्याग्रतः सप्तरात्रं कुन्दुरुकमष्टसहस्रं जुहुयात् | कृतपुरश्चरणः | एकप्रदेशे राजा भवति | त्रिसन्ध्यं कणानामष्टसहस्रं जुहुयात् | सर्वरात्रम् | दीनारशतं लभति | आटरुषककाष्ठैरग्निं प्रज्वाल्य आटरुषकपुष्पाणां घृताक्तानामष्टसहस्रं जुहुयात् | सुवर्णं लभति | कृष्णचतुर्दश्यामहोरात्रोषितेन घृताक्तानां राजिकामष्टसहस्रं जुहुयात् | रूपकसहस्रं लभति | अथवा ग्रामं भवति | पटस्याग्रतः श्लेष्मातककाष्ठैरग्निं प्रज्वाल्य त्रिरात्रं दूर्वप्रवालानां लक्षं जुहुयात् | गोसहस्रं लभति | सुरसीपत्राणामष्टसहस्रं जुहुयात् | दिव्यं गृहं लभति | मनसा लक्षजप्तेन पुराणसहस्रं लभति | श्रीपिष्टकसहस्रं जुहूयात् सप्तरात्रं त्रिसन्ध्यम् | दीनारसहस्रं लभति | यथाभिप्रेतं सर्वं सम्पादयति | श्रीमांश्च भवति | सुभगश्चे भवति | नद्यायां रक्तपुष्पाणि होमयेत् | रक्तानि वस्त्राणि लभते | शुक्लाष्टम्यां शुक्लपञ्चदश्यां वा विविक्तभूप्रदेशे श्वेतार्कस्याधस्तादार्यमञ्जुश्रियस्य गन्धपुष्पधूपं च दत्वा माल्यं चाष्टसहस्रं जपेत् | पश्चादङ्गुष्ठपर्वमात्रमार्यामञ्जुश्रियं कारयेत् | शुक्लाष्टम्यां विविक्ते प्रदेशे वल्मीके शुक्लगन्धबलिमाल्यधूपनिवेद्यमष्टसहस्रं जपेत् | ततो वल्मीकमृत्तिकां गृह्य गन्धोदकेन मर्दयेत् | तस्या मृत्तिकया पूर्वकृतं प्रतिमामुद्रमर्कक्षीरेण प्रतिमुद्रां कृत्वा ततः शुक्लप्रतिपदमारभ्य यावदष्टमीति त्रिः कालं भगवतः पूजां कृत्वा बलिं दद्यात् | ततो जातीपुष्पाणामष्टसहस्रेण हन्तव्यः | पोषधिकेन क्षीरयावकाहारेण दर्भसंस्तरशायिना साधयितव्यम् | दीनारसहस्रं लभति | सततजापेन यात्रासिद्दिमवाप्नोति | यदि दिवसानि सप्ताष्टसहस्रं जपेत् | ग्रामं लभते | श्रीमां भवति | अर्थमुत्पादयितुकामेन गोष्टं गत्वा कृष्णाष्टम्यां परेभ्यः क्षीरयावकाहारो लक्षं जपेत् | अपरस्मिं कृष्णचतुर्दश्यां ते ततोऽहोरात्रोषितेन तत्रैव शतसहस्रं जप्तव्यम् | दीनाराणामष्टशतानि लभति | यमिच्छति | सुवर्णं वा ग्रामं वा लभति | कृष्णचतुर्दश्यामहोरात्रोपितः पटस्याग्रतः बोधिवृक्षकाष्ठैरग्निं प्रज्वाल्य वचामष्टसहस्रं जपेद् दीनारशतं लभति | कृष्णाष्टम्यां पलाशकाष्ठैरग्निं प्रज्वाल्य दधिमधुघृताक्तानां गुग्गुलुगुडिकानां पटस्याग्रतः शतसहस्रं जुहुयात् | प्द्f १४४, प्. ६८९) दीनारशतं लभते | शतपुष्पाणां लक्षं जुहुयात् | दीनारशतं लभति | बिल्वसमिधानां शतसहस्रं जुहुयात् | यमिच्छति तं सम्पादयति | गङ्गानदीतीरे समुद्रपुलिने वा अनुपहते मानुपवर्जिते | बालुकायां सुगतवितस्तिप्रमाणं स्तूपं कृत्वा यथाविभवतो गन्धपुष्पधूपं दत्वा अष्टसहस्राभिमन्त्रितं कुर्यात् | एवं दिने दिने गन्धादीन् दत्त्वा यावदष्टोत्तरं स्तूपसहस्रं पूर्णमिति पट्टबन्धमवाप्नोति तिलानामष्टसहस्रं जुहुयात् | यस्येच्छति सवशो भवति | सधातुके चैत्ये पूजां कृत्वाष्टसहस्रं जपेत् | शुभाशुभं कथयति | आप्यायनं कर्त्तुकामो भगवतोऽग्रतः क्षीरवृक्षसमिधानां घृताक्तानामष्टसहस्रं जुहुयात् | ततः सा विद्या आप्यायिता भवति | सप्तमे साधने प्रयोक्तव्यः | यत्र ब्रह्मराक्षसोऽन्यां वा सत्त्वः कृतपुरश्चरणः तत्र गत्वा दशसहस्राणि जपेत् | महानिधानं प्रयच्छति | क्षीरयावकाहारः सधातुके चैत्ये संवत्सरं जपेत् | तत्रैव पटं प्रतिष्ठाप्य कृष्णाष्टम्यां त्रिरात्रोषितः उदारां पूजां कृत्वा बलिं निवेद्यं पटस्याग्रतः अग्निं प्रज्वाल्य वटवृक्षसमिधानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् | कुबेराद्या यक्षाः आगच्छन्ति | न भेतव्यं च स्थाप्य तस्योपरि सुपिण्डं पर्यङ्कं बध्वा हस्तेनावष्टभ्य तावज्जपेत् तावज्ज्वलितमिति | अत्रान्तरे सर्वनरकतिर्यग्योनिकानां दुःखं व्युपशमयति | विद्याधरनिकायाश्च सन्निपतन्ति | ततः सर्वबुद्धबोधिसत्त्वानां नमस्कारं कृत्वा गृहीतव्यम् | विद्याधरैरनुगम्यमानो विद्यापुरीं गच्छति | विद्याधरराजा भवति | सर्वविद्याधरा पूजयन्ति | महाकल्पस्थायी भवति | अनेन विधिना चक्रखड्गमुद्गरादयः प्रहरणविशेषाः साध्याः | सा चेद् विद्या साध्यमाना न सिद्ध्यति तामनेन मन्त्रेण समेतं भगवतो बुद्धस्याग्रतः पटस्य च पूजां कृत्वा अष्टसहस्रं जपेत् | तत्र कुशसंस्तरे स्वप्तव्यम् | ऊनातिरिक्तं यं वा मृगयति तत्र स्थाने यक्षयक्षिणीसहिता पूर्वसेवा | तत्र मण्डलकमुपलिप्य गौरसर्षपाणामष्टसहस्रं जुहुयात् | आगच्छति | यथेष्टं वक्तव्या | अध्येष्यतां प्रयच्छति | तां भक्ष्य कल्पायुर्भवति | अथ नागच्छति सप्तरात्रं कुर्यात् | आगच्छति | अथ शान्तिं कर्तुकामः भगवतोऽग्रतः क्षीराहुत्याष्टसहस्रं गन्धोदकेन वाभ्युक्षयेत् | प्द्f १४५, प्. ६९०) शान्तिर्भवति | पल्लघेन मयूरचन्द्रकेन वा सर्पदष्टं उमार्जयेत् | निर्विषो भवति | वल्मीकशिखरमारुह्य निराहार एकपाद पूर्वाह्नाद् यावदपराह्णं जपेत् | नियदवेदनीयं क्षीयते | तत्र स्थाने यत्र तिष्ठति | तत्र पूर्वसेवः | तत्र गत्वा मण्डलकमुपलिप्य गौरसर्षपाणामष्टसहस्रं जुहुयात् | यक्षा आगच्छन्ति | पूर्वस्थापितेन गन्धोदकेन कलशेनार्घ्यो देयः | यक्षा ब्रुवन्ति किं कर्तव्यम् | आहूताः स्म | वक्तव्यम् यक्षा वै आज्ञाकरा भवन्तु | तथास्त्वित्युक्त्वान्तर्धीयन्ते यक्षाः | सिद्धा भवन्ति | यं मृगयति तं ददाति | दिव्या रसरसायनान्योषधविधानानि प्रयच्छन्ति | ततः सहस्रपरिवृतस्यापि षड्रसमाहारं प्रयच्छति | यन्मृगयति तत् सर्वं प्रयच्छति | एवं वशीकरणे कृष्णयोरेकतरेण त्रिरात्रोषितः कृतरक्षः सुयन्त्रितः पटस्याग्रतो निर्धूमाङ्गारैर्गुग्गुलुगुलिकानामष्टसहस्रं जुहुयात् | घृताक्तानाम् | अर्धरात्रौ देवतागच्छति | वक्तव्या | ओषधीं प्रयच्छन्ति | यं वा मृगयति | वस्त्रार्थीं दूर्वकाण्डानां घृताक्तानामष्टसहस्रं जुहुयाद् वस्त्राणि लभति | वचामष्टसहस्राभिमन्त्रिते कृत्वा मुखे प्रक्षिप्य सर्वव्यवहारेषूत्तरवादी भवति | सुगन्धतैलं परिजप्य मुखं म्रक्षयेत् | राजकुलेपूत्तरवादी भवति | अञ्जनमष्टसहस्राभिमन्त्रितं कृत्वाक्षीण्यञ्जयेत् | व्यवहार उत्तरवादी भवति | चन्द्रसूर्यग्रहे वा श्रोताञ्जने मुखे प्रक्षिप्य तावज्जपेद् यावन्मुक्त इति | पीषयित्वा रक्षां कृत्वाञ्जनमष्टसहस्राभिमन्त्रितं कृत्वा अक्षीण्यञ्जयेत् | अदृश्यो भवति | सर्वगन्धानां पटस्याग्रतो लक्षं जुहुयात् | श्रियं पश्यति | यं वरं मृगयति | तं लभति | मौनी भिक्षाहारो लक्षं जपेत् | अन्तर्हितो भवति | पटस्याग्रतो मण्डलकमुपलिप्य पुष्पावकीर्णं कृत्वा उदकचूलकाः सप्ताभिमन्त्रिताः पातव्याः दिवसानि सप्त | मेधावी भवति | पूर्वाधीतं च न नश्यति | ब्रह्मीरसकर्षं क्षीरकर्षमष्टशतं परिजप्य पातव्यम् | दिनेदिने मेधा वर्द्धते | यावदेकविंशतिरात्रं पञ्चशतानि धारयति गृह्णाति | रक्षा उदकेन सप्तजप्तेन शिरसि दातव्यम् | मण्डलबन्धः | खदिरकीलकैरेकविंशतिजप्तैर्गुग्गुलुधूपेनावेशयति | विषच्छुरिकया चिकित्सा पल्लवेन वा ग्रहनाशनम् | प्द्f १४६, प्. ६९१) सप्तजप्तेन श्वेतपुष्पेण गुग्गुलुधूपेन वा ग्रहगृहीतानां स्नापयेत् | सूत्रकं बन्धितव्यम् | श्वेतसर्षपां तिलमिश्रां घृताक्तां जुहुयात् | वरदौ भवति | रात्रौ होमः | सधातुके चैत्ये पूर्णमस्यां सगौरवेण मण्डलकमुपलिप्याष्टौ पूर्णकलशा अष्टौ च पुष्पमालागरुतुरुष्कचन्दनकुन्दुरुधूपं दहता तावज्जपेत् | ततः शरीरसिद्धिं प्रयच्छति | सधातुके चैत्ये क्षीरयावकाहारः यथाविभवत्ः पूजां कृत्वा शतसहस्रं जपेत् | जम्भनमोहनादिषु कर्मसु समर्थो भवति | सक्तुभक्षः नद्यामंसमात्रमुदकमवतीर्य लक्षं जपेत् | वशीकरणे अन्तर्धानः शिलादिस्.उ प्रयोगेषु सुसमर्थो भवति | नागस्थाने कर्पासास्थिं जुहुयात् | नागा वश्या भवन्ति | यं मृगयति तं लभते | दक्षिणहस्तादङ्गुलिमष्टाभिमन्त्रितं कृत्वा राजानं तर्जयेद् वश्यो भवति | अनेनैव विधिना गजव्याघ्रमहिषादींस्तम्भयति | तिलहोमेन नरनारीवशीकरणं विशितविक्रयेन रक्षा आत्मरक्षा पररक्षा सप्ताभिमन्त्रितेन शिखाबन्धः | युद्धे राजकुले विवादे जपमानस्य विजयो भवति | आत्मना अभिषेकं कर्त्तुकामश्चत्वारः कलशा अकालनदीपल्वलप्रस्रवणोदके वा सर्वगन्धबीजानि प्रक्षिप्य अष्टसहस्राभिमन्त्रितानि कृत्वा तेनोदकेनात्मानमभिषिञ्चेत् | सर्वविघ्नविनायकालक्ष्मीविनिर्मुक्तो भवति | पिशाचज्वरे गन्धोदकेनाष्टशताभिमन्त्रितेनाभ्युक्षयेत् | स्वस्थो भवति | वेताडं पूर्वाभिमुखखदिरकीलकैः वालाशल्लकैः सुमन्त्रितं कृत्वा सुप्रयत्नतश्चतुर्दिक्षु दिशासु खड्गहस्तान् पुरुषांस्थाप्य वेताडस्य हृदये उपविश्य आयसेन स्रुवेण लोहचूर्णं जुहुयात् | तस्या मुखाज्जिह्वा निःसरति | तां तीक्ष्णेन शस्त्रेण च्छिद्य नीलोत्पलसन्निकाशं खड्गं भवति | तेन गृहीतेन सपरिवार उत्पतति | विद्याधरराजा भवति | एकादश पर्षकोटीं जीवति | कालं गतश्च देवेषूपपद्यते | पुष्पलोहमयीं मुण्डिं लक्षणोपेतां कृत्वा पटस्याग्रतः कृतपुरश्चरणः सप्तरात्राधिवासितां कृत्वा सहस्रसम्पाताहुतिं भगवतोऽग्रतः कृष्णचतुर्दश्यां त्रिरात्रोषितः उदारां पूजां कृत्वा बलिविधानं रक्षामण्डल*(?)सीमावन्धादिकं कृत्वा आर्यसङ्घं यथाशक्तितः भोजयित्वा पादयोः प्रणिपत्य आर्यसङ्गं अनुज्ञाप्य म्रियेत् | प्द्f १४७, प्. ६९२) पटस्याग्राः सिद्धार्थकपुञ्जकं स्थाप्य पुञ्जस्योपरि जप्य दातव्यम् | सर्वग्रहावेशनम् | गुग्गुलुधूपेन सर्वाकालमृत्युप्रशमनं सर्ववातमेघस्तम्भनम् | जापेन सर्षपान् क्षिपित्वा सावष्टम्भेनाकाशे क्षिपितव्यम् | सर्वमेघस्तम्भनम् | खदिरकीलकं सप्तजप्तं दातव्यम् | निर्विषो भवति | सर्वकलिकलहविग्रहविवादेषु पञ्जरङ्गिकं सूत्रमष्टशताभिमन्त्रितं कृत्वा गुह्यस्थाने धारयितव्यम् | सर्वकलिकलहविग्रहविवादाः स्तम्भिता भवन्ति | सर्वविषयं मन्त्रेषु पानीयं सप्तजप्तं दातव्यम् | निर्विषो भवति | अर्थकामः शुचिना शुचिवस्त्रप्रावृतेनाहोरात्रोषितः पटस्याग्रतः कुन्दुरुकधूपो देयः | स्वप्ने कथयति शुभं वाशुभं वा | सप्तसहस्राणि रूपकं लभति | सर्वमुद्रा भेदभस्मना भोगार्थी नदीसङ्गमे तडागानामेकतमेऽन्यत्र वा शुचिप्रदेशे पटं प्रतिष्ठाप्य जापहोमं समारभेत् | पद्मानां दधिमधुघृताक्तानां लक्षं जुहुयात् | द्विलक्षं वा | ततः सर्वकाममवाप्नोति | लक्षत्रयहोमेन राज्यं ददाति | एकविंशतिहोमेन महाधनपतिर्भवति | गुग्गुलुगुडिकानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् | एकविंशतिरात्रम् | पुष्टिर्भवति | दीनारसहस्रं लभते | कुड्ये प्रक्षेप्तव्यः | सर्वशत्रवः स्तम्भिता भवन्ति | गोमयमण्डलकं कृत्वा सूत्रकं गृह्य मण्डलमध्ये स्थाप्य गुग्गुलुधूपं दत्वा मन्त्रं जपेत् | यदि जीवति सूत्रकं नर्तति | न जीवति न नर्तति | गोमयेन मण्डलकमुपलिप्य चतुर्हस्तप्रमाणं पुष्पधूपं दत्वा तस्मिन्नेव स्थितो जपेत् | शत्रूणां स्तम्भनम् | शस्त्रं सप्तवारं परिजप्य धरण्याः स्थाने निखनितव्यम् | सर्वकार्खोटाश्छिन्ना भवन्ति | परचक्रदण्डं सप्तवारां परिजप्य निक्षेप्तव्यम् | अवध्यो भवति | अपस्मारनाशनम् | अपामार्गसमिद्भिरग्निं प्रज्वाल्य कृष्णतिलां श्वेतकरवीरमिश्रां जुहुयात् | अपस्मारग्रहा नश्यति | सर्वज्वरेषु कृष्णसूत्रकं बन्धितव्यम् | सर्वग्रहडाकिनीषु नीलसूत्रकं बन्धितव्यम् | उत्पातगन्धपिटकलूतलोहलिप्तच्छेदनं गौरमृत्तिकाश्या भवति | सर्वसत्त्वानां चन्द्रसूर्योपरागे उपवासं कृत्वा तैलं जपेत् | तेन तैलेन मुखं म्रक्षयेत् | अरिकुलं प्रविशेत् | मैत्रचित्तमुत्पद्यते | अनेनैव विधानेन प्रतिस्राष्टस क्षाभिमन्त्रितं कृत्वा हस्ते बध्वा सङ्ग्रामेऽवतरेत् | अपराजितो भवति | काल्यमुत्थाय सधातुके प्द्f १४८, प्. ६९३) चैत्ये गोमयमण्डलकं कृत्वा उदकचुलुकद्वयमेकैकं सप्तवारां परिजप्य मितितव्यम् | अनालपतः पिबितव्यम् | प्रातर्वेलाकाले ततो भोजने प्रथममालापं त्रयो वारां परिजप्य भोक्तव्यम् | विकालेऽष्टशतं जप्य स्वप्तव्यम् | सर्वकर्माणि विशुध्यति | वाक्यपरिशुद्धिर्भवति | दिनेदिने श्लोकशतं गृह्णाति | एवं दिवसानि सप्त उदकं सप्तवारां परिजप्य ततोऽङ्गुलिसिद्धा भवति | ततोऽङ्गुल्यामाकर्षति | यं स्पृशति स वश्यो भवति | मृत्तिकां परिजप्य बन्धो देयः | छिन्दिता भवति बद्धः | उदरशूले हस्तं सप्तवारां परिजप्य प्रमार्जयेत् | स्वस्थो भवति | त्रयो वारां चीवरकर्णकं परिजप्य चीवरकर्णिकं बन्धितव्यम् | चोरा बद्धा भवन्ति | तैलं परिजप्य शरीरे देयम् | यं ददाति तं लभते | गोमयमण्डलकं कृत्वा पुष्पावतीर्णं लोहभाजनं भस्मना परिपूरयित्वा मण्डलमध्ये स्थाप्य तूलिकाष्टशतवारां परिजप्य तस्योपरि स्थातव्यम् | गुग्गुलुधूपं दत्वा मन्त्रं जपता अच्छोटिका दातव्या | यत्र चोरस्तत्रगच्छति भस्मना मण्डलकं कृत्वा स वश्यो भवति | सर्वसत्त्वा स्तम्भनं मनसीकरणे शुक्लपूर्णमाभ्यां पटस्याग्रतो बोधिवृक्षकाष्ठैरग्निं प्रज्वाल्य तिलानामष्टसहस्रं जुहुयात् | वश्यो भवति | खदिरकीलकमष्टशतजप्तां कृत्वा चतुर्षु दिशासु निखनेत् | सीमाबन्धः कृतो भवति | मण्डलबन्धः | उदकेनैकविंशतिजप्तेन सत्त्वानामुत्सारणं | सर्षपैः क्रुद्धस्याग्रतो जपेत् प्रसीदति | अथ राजानं वशीकर्तुकामः पटस्याग्रतोऽर्ककाष्ठसमिधानां दधिमधुघृताक्तानां दशसहस्राणि जुहुयात् | वशो भवति | अङ्गुलिसाधनम् | पटस्याग्रतो गन्धपुष्पधूपं दत्वा दक्षिणप्रदेशिनीमङ्गुलीं सप्तभिरश्वत्थपत्रैः स्थाप्य दश सहस्राणि जपेत् | दीनारवस्त्रान्यात्मना तृतीयस्य प्रयच्छति | घृताहुतीनामष्टसहस्रं जुहुयात् | मेधावी भवति | नागकेसराणामष्टसहस्रं जुहुयात् | कन्या भवति | जातीपुष्पाणामष्टसहस्रं जुहुयात् | वस्त्राणि लभति | लक्षजापेन जातिस्मरोभवति | सप्त व्याधिशतानि भवन्ति | लक्षमेकं क्षीरयावकाहारः कृतपुरश्चरणो भवति | शुक्लाष्टम्यां त्रिरात्रोपितः पटस्योदारां पूजां कृत्वा तावज्जपेद् यावद् रश्मिर्निश्चरति | ततः सिद्धो भवति | राज्यं विद्याधरत्वं यन्मनसा चिन्तयति तं लभते | पठितमात्रेण सर्वपापमित्राः स्तम्भिता भवन्ति | प्द्f १४९, प्. ६९४) सर्वविघ्नविनायका हता | रक्तसूत्रेण परिवेष्ट्य शरावसम्पुटं सधातुके चैत्ये प्रतिमायाग्रतः पूजां कृत्वा तावज्जपेद् यावत् त्रिविधा सिद्धिर्भवतीति | ऊष्मायमाने पादप्रचारिकं पञ्चयोजनशतानि गच्छति | सर्वे चास्य पादप्रचारिका वश्या भवन्ति | धूमायमानेऽन्तर्धानम् | चतुरङ्गुलेन भूमिं न स्पृशेत् | वर्षसहस्रं जीवति | योजनसहस्रं गच्छति | दशपुरुषबलो भवति | ज्वलिते कल्पत्रयं जीवति | विद्याधरो भवति | अधर्षणीयश्च भवति | पूर्णपूर्णपञ्चदश्यां पोषधिकः पटस्याग्रतः दधिमधुघृताक्तानां पद्मानां दशसहस्राणि जुहुयात् | ततोऽग्निकुण्डाद् दिव्या स्त्री उत्तिष्ठति | वरं ददाति | माता वा भगिनी वा ग्रहेतव्या | ततः प्रभृति क्षीरयावकाहारो लक्षद्वयं जपेत् | अन्ते त्रिरात्रोषितः पञ्चदश्यां सधातुके चैत्ये प्रतिमाया पूजां कृत्वा भगवतोऽग्रतः अश्वत्थसंस्तरे तावज्जपेद् यावद् दिव्यरूपा स्त्री आगच्छति | तस्यार्घं दत्वा वरं याचिन्तव्यम् | भक्तालङ्कारवस्त्रां प्रयच्छति | वर्षसहस्रं जीवति | चन्द्रग्रहे समानवत्साया गोर्नवनीतं गृह्य षडङ्गुलिमात्रां पुत्तलिकां कृत्वा चतुर्भक्तोषितः अश्वत्थसंस्तरं कृत्वाष्टसहस्रं परिजप्य ग्रसितव्यम् | सर्वराजानो वशा भवन्ति | कनकवीचिकामनःशिलापलं गृह्य पूर्णपञ्चदश्यां पोषधिकेनोदारां पूजां कृत्वा सुगन्धपुष्पाणामष्टसहस्रेण हृदये ताडयितव्या | शेषं कालं सर्वं जपेत् | पञ्च दीनारशतानि लभते | पोषधिकेन पूजां कृत्वा सहस्रं जप्तव्यम् | स्वप्ने शुभाशुभं कथयति | घृताक्तानां जुहुयात् सप्ताहं त्रिसन्ध्यम् | अष्टसहस्रं जपेत् | राजानं वशमानयति | मदनपुत्तलिकां सर्वालङ्कारोपेतां राजवृक्षकाष्ठैरग्निं प्रज्वाल्य शलाकया विद्धा तापयेत् | यथा न गलति | अष्टशतिकेन जापेन त्रिसन्ध्यं पातालादप्याकर्षयति | अशोककाष्ठमयीं षडङ्गुलां सालभञ्जिज्कां कृत्वा तां गृह्य पर्वतशिखरमारुह्य शतसहस्रं जपेत् | क्षीरयावकाहारः लक्षजापेन ग्रामं लभते | द्विलक्षजापेन यथेष्टं कर्माणि करोति | त्रिलक्षजापेन कर्मावरणं क्षपयति | चतुर्लक्षजापेनार्यमन्त्रश्रीदर्शनं ददाति पञ्चलक्षजापेन बुद्धक्षेत्रपरिशुद्धिर्भवति | षड्लक्षजापेन यत्रेच्छति तत्र लोकधातावुपपद्यते | सप्तलक्षजापेन धारणीं प्रतिलभते | अग्निं स्तम्भयितुकामः प्द्f १५०, प्. ६९५) पट्टिका सप्तवारां परिजप्य मुखे प्रक्षिपितव्यम् | उदके एषैव सिद्धिः | विवादे सूत्रकं अष्टशताभिमन्त्रितं कृत्वा त्रयो ग्रन्थयः कार्याः | उत्तरवादी भवति | गव्यघृतपलं पञ्चदश्यां भाजने कृत्वा आर्यमञ्जुश्रियस्य पुरतो गोमयमण्डलकमगरुधूपं दत्वा अष्टोत्तरवारां परिजप्य पिबे | पीत्वा च न स्वप्तव्यम् | मेधावी भवति | दिवसानि सप्त ज्वरप्रेषणं भूतप्रेषणं आत्मरक्षा वेताडोत्थापनं बिलप्रवेशं वनप्रवेशं रक्षा सीमाबन्धः दिशाबन्धः चोरव्याघ्रडाकिनीनां जापेन स्तम्भिता भवतीति | अन्तर्धातुकामेन शतावरिमूलं सहस्राभिमन्त्रितं कृत्वा बध्नीयात् | अन्तर्हितो भवति | पटस्याग्रतो लक्षं जपेत् | ततः शतपुष्पाया वीरक्रये क्रीत्वा दधिमधुघृताक्तानां जुहुयात् | यावन्तकेन मूल्येन क्रीतानि भवन्ति तच्छतगुणमूलं भवति | दिवसानि सप्त होमं कार्यम् | सुमनसमिधानामष्टसहस्रं जुहुयाद् दिवसानि सप्त | अर्थं लभति | पटस्याग्रतो मासं जपेत् | दीनारचतुष्टयं लभते | मरीचफलं सप्तवारानभिमन्त्र्य मुखे प्रक्षिप्य यस्य अलापं ददाति | स पुत्रवन्मन्यते | सधातुके चैत्ये बुद्धप्रतिमाया अग्रतः कृत्वा उदके क्षिपेत् | कैवर्तानां मत्स्या न भवन्ति | शेफालिकापुष्पाणामष्टसहस्रं जुहुयात् | अश्वलण्डेन सप्त जप्तेन धूपो देयः | मत्कुणा न भवन्ति | पुष्पेण फलेन वा लक्षजप्तेन मशका न भवन्ति | वशीकरणम् | राजद्वारिकं दन्तकाष्ठभक्षणं फलदानं गन्धदानं भूमिबन्धं चोरबन्धं सर्वदंष्ट्रास्तम्भनं उपजम्भनं निगडस्फोटनं उदकस्तम्भनं अग्निस्तम्भनं विषोमार्जनं विषसङ्क्रमणं विषबन्धः भूतवशीकरणं डाकिनीग्रहमोक्षणं नष्टविद्याया गोरोचनया भूर्जपत्रे लिखित्वा भगवतोऽग्रतः सधातुके चैत्ये शतवारां जपेत् | प्रभाते पूर्णा भवति | सप्तजप्त्वा सिद्धार्थकां ग्रामे वा नगरे वा क्षिपेत् | ये तत्र वसन्ति ते मृता इव स्वपन्ते | यावत् सूर्योदयम् | स्त्रियं पुरुषं वा वशीकर्तुकामो यस्य यतो भागे गृहम् तां दिशाभिमुखं विकालेऽ**(?)हस्रं जप्य स्वपेत् | दर्शनं देयम् | एव दिवसानि सप्त वशो भवति ***(?) सप्तजप्तेन सर्वदंष्ट्राणां तुण्डबन्धः | ओषधबन्धं मनसा निधानबन्धं खदिरकीलकैरेकविंशतिसप्तनिधानस्थानेषु चतुर्षु कोणेषु निखनेत् | कल्पस्थायी प्द्f १५१, प्. ६९६) सर्वसिद्धनमस्कृतः पात्रखड्गकरकादयोऽनेनैव विधिना | चन्द्रग्रहे भिक्षुणा श्रावयितव्याः सर्वैरेतैः कल्पस्थायी ब्रह्मचार्यप्रतिहतगतिर्यथेष्टं विचरति | गोमूत्रयावकाहारो लक्षद्वयं जपेद् ग्रामाष्टकं लभति | यमिच्छति तत्रैव तिष्ठति | समुद्रतटे पटं प्रतिष्ठाप्य लक्षं जपेत् | सागरनागराजा स्वभवनमनुप्रवेशयति | चिन्तामणिर्मृगयति | तया गृहीतया सर्वकर्मचारी भवति | तथागतक्षेत्रमपि गच्छति | कल्पस्थायी अप्रतिहतः | कुमारीकर्त्तितसूत्रेणाष्टसहस्राभिमन्त्रितेन ग्रन्थयः कर्तव्याः | सर्वविघ्नविनायका हता भवन्ति | नद्याः पुलिने भिक्षाहारो लक्षत्रयं जपेत् | हविष्याशी नदीसङ्गमे लक्षं जपेत् | अन्तर्हितो भवति | सर्वान्तर्धानिकानां प्रभुर्भवति | विनये प्रमाणोपेतं पात्रं गृह्य पटस्याग्रतः पर्यङ्कोपविष्टो दक्षिणहस्तेन पात्रं गृह्य तावज्जपेद् यावज्ज्वलति | विद्याधरो भवति | एवं यत्र स्थास्यति तत्र वृद्धिर्भवति | एवमप्रमेयानि गुणानि भवन्तिं | अथ शान्तिं कर्तुकामः दधिमधुघृताक्तानां सुगन्धिकुसुमानां वाष्टसहस्रं जपेत् | परमशान्तिर्भवति | पौष्टिकम् | तिलतण्डुलमुद्गमाषप्रभृतीनां स्त्रीणां दधिमधुघृताक्तानां क्षीरवृक्षसमिद्भिरग्निं प्रज्वाल्य अष्टसहस्रं जुहुयात् | परमपुष्टिर्भवति | पटेन वा विना पटेन | पोषधिकस्त्रिशरणपरिगृहीतबोधिचितो दशसहस्राणि जपेत् | ततः पौर्णमास्यां चन्द्रग्रहे वा सर्वकामिकां बलिं दत्वा अहोरात्रोषितः सकलां रात्रिं जपेत् | ततः सर्वकर्मसमर्थो भवति | सर्वदिशेष्वप्रतिहतो भवति | आकारितमात्रेण जीवापयति | सप्तजप्तमुदकं प्रेषयेत् | आतुरः पीत्वा स्वस्थो भवति | ग्रहप्रपलायनम् - सर्षपहोमेन साहस्रिकेन | असुरविवरद्वारे पटं प्रतिष्ठाप्य नियमस्थो लक्षं जपेत् | असुरकन्या निर्गत्य प्रवेशयति | वचामुखे प्रक्षिप्य तावज्जपेद् यावत् त्रिविधा सिद्धिः | ऊष्मायमाने वशीकरणम् | ***(?)मानेऽन्तर्धानम् ज्वलमानेनाकाशगमनम् | सधातुके चैत्ये पटं प्रतिष्ठाप्य शुक्लाष्टम्यामारभ्य पद्यानां लक्षं जुहुयात् राजा भ**(?) | रक्तचन्दनमयं षोडशाङ्गुलं द्वादशाङ्गुलं वा पोषधिकेन कर्मका************* (?) | ततः पटरगात्रतो लक्षत्रयं जपेत् | ********* (?) पूर्णमारयामुदारां पूजां कृत्वा दण्डकाष्ठं दक्षिणेन प्द्f १५२, प्. ६९७) हस्तेन गृह्य तावज्जपेद् यावत् त्रिविधा सिद्धिः | ऊष्मायमाने सर्ववादिषूत्तरवादी भवति | धूमायमानेनान्तर्धानम् | ज्वलितेनाकाशगमनम् | शुक्लपटं समन्तात् प्रावृतं कृत्वा तावज्जपेद् यावज्ज्वलितमिति | सहस्रपरिवारं उत्पतति | पटस्याग्रतस्तावज्जपेद् यावत् त्रिविधा सिद्धिः | पटस्याग्रतोऽपामार्गसमिधानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् | राजा वा राज्मात्रो वा वशी भवति | क्षीराहारः शाकाहारो वा पोषधिकः सधातुके चैत्ये लक्षत्रयं जपेत् | ततः कृष्णाष्टम्यां कृष्णचतुर्दश्यां कृष्णतिलानामष्टसहस्रं जुहुयात् | कार्षापणसहस्रं लभति | गुग्गुलुगुलिकानां पटस्याग्रतः अष्टसहस्रं जुहुयात् | स्त्रीपुरुषयोर्यमिच्छति तं वशमानयति | गुग्गुलुगुलिकानामष्टसहस्रं जुहुयात् | यमिच्छति | सर्वजनस्य प्रियो भवति | राजकुले चोत्तरवादी भवति | अष्टसहस्राभिमन्त्रितेन समालभेत् | सुभगो भवति | पटस्याग्रतः शुक्लप्रतिपदमारभ्य क्षीरयावकाहारस्त्रिःकालस्नायी त्रिचेलपरिवर्त्ती अगरुतुरुष्कचन्दनं दहता त्रिशुक्लं निवेद्यम् | बहिः सर्वभूतिकां बलिं निवेद्य सुरभिपुष्पां जलजानि वा स्थलजानि वा सुगन्धी निवेद्यं वा गाव्यघृतप्रदीपत्रयं च | अन्ते त्रिरात्रोषितः सर्वरात्रिको जपो देयः | यं प्रार्थयति तं लभते | सङ्घभक्तश्च यथाशक्त्या कार्यः | सधातुके चैत्ये पठं प्रतिष्ठाप्य त्रिरात्रोषितोऽरिष्टसमिधानां दधिमधुघृताक्तानां त्रीणि अष्टसहस्राणि जुहुयात् | ततः पटादर्चिषो निःसरति भूमिकम्पः प्रदीपज्वाला च निश्चरति | पुष्पमाला चलति | एतैर्निमित्तैः सिद्धो भवति | श्रोताञ्जनमश्वत्थपत्रान्तरितं सहस्रसम्पाताभिहुतं कृत्वा सकृदुच्चारितेन षड्भिर्मासैर्महारोगान्मुच्यते | मासमेकं जपेत् | चीर्णव्रतो भवति | गुग्गुलुधूपेन दष्टमावेशयति | एकाहिकद्व्याहिकत्र्याहिकचातुर्थकादिषु | स्त्रीवश्यार्थं पटस्याग्रतः ललाटां मध्वाक्तानामेकविंशति आहुती जुहुयात् त्रिसन्ध्यं सप्तरात्रम् | वश्या भवन्ति | एवमेव रण्डायाः पुरुषस्य | पटस्याग्रतो राजार्कसमिधानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् | वश्या भवति | राजप्त्यादीनां **(?)णमेकविंशतिरात्रं त्रिसन्ध्यं जुहुयात् | ततो भवति | राजहारे त्रीणि वाराणि सप्तवारां शिरमभिमन्त्र्य प्रविशेत् | राजवल्लभो भवति | मयूरचन्द्रकं शताभिमन्त्र्य | प्द्f १५३, प्. ६९८) विषं प्रमार्जयेत् | नश्यति | मनःशिलाप्रश्वत्थपत्रान्तरितां कृत्वा लक्षत्रयं जपेत् | गृध्रसी अपनयति | ज्वरितस्य कुशैरपमार्जनं कन्याकर्तितसूत्रं वध्नीयात् | सुभगो भवति | कर्णिकारपुष्पाणां शतसहस्रं जुहुयात् | द्वादशकोटी वस्त्राणि लभते | पुष्पलोहमयं चक्रं कृत्वा सधातुके चैत्ये पटं प्रतिष्ठाप्य अहोरात्रोपितः उदारां पूजां कृत्वा चक्रं ग्रहाय तावज्जपेद् यावन्निमित्तानि भवति | चक्रस्फुलिङ्गा निःसरन्ति | तावद् यावत् प्रज्वलितमिति | ततः सिद्धो भवति | सर्वविद्याधरगणाः सन्निपतन्ति | सपरिवार उत्पतति | विद्याधरराजा कल्पस्थायी अप्रतिहतगतिः | प्रातरुत्थाय संवत्सरं जपेत् | वरदो भवति | पटस्याग्रतः एकविंशतिलक्षं जपेत् | विद्याधरो भवति | एकादशलक्षं जपेत् | आर्यमञ्जुश्रियं पश्यति | पटस्याग्रतः सप्तलक्षं जपेत् | अन्तर्हितो भवति | व्याधितः पटस्याग्रतः एकविंशतिलक्षं जपेत् | व्याधिर्नश्यति | कृतपुरश्चरणः द्वादशलक्षं जपेत् | रसरसायनं वा लभति | तं भक्षयित्वा बलीपलितवर्जितो भवति | लक्षद्वयं जप्त्वा राजसर्षपामष्टसहस्रं जुहुयात् | राजमहिषी वशा भवति | सप्तरात्रेणास्यार्थप्रदा भवति | वर्जयित्वा कामोपसंहितम् | पटस्याग्रतः अर्कसमिधानां लक्षं जुहुयात् | सुवर्णपलशतं लभते | लाजानामष्टसहस्रं जुहुयात् सप्तरात्रम् | विघ्ना न भवन्ति | पिण्याकाष्टसहस्रं जुहुयात् | सर्वजनप्रियो भवति | त्रयाणां वाराणां यमिच्छति तं लभति | विद्याधरत्वं राज्यमथवा यादृशो भगवान् तादृशो भवामि | एषा सिद्धिः कारुणिकेन सर्वसत्त्वानां निरामिषचित्तेन दानं ददता सिध्यति | अहोरात्रोषितः पटस्योदारां पूजां कृत्वा अर्कसमिधानामष्टसहस्रं जुहुयात् | यं यमिच्छति तं तं क्षणादेवागच्छति | अगरुप्रियङ्गुनागकेसरं समभागानि चूर्णीकृत्य शरावसम्पुटे कृत्वा महेश्वरस्य दक्षिणायां मूर्तौ अष्टसहस्राभिमन्त्रितं कृत्वा तेन समालब्धगा*(?) सङ्ग्रामे दूते अष्टसहस्रं जुहुयात् | अपराजितो भवति | अपट्टत्वर्त भवति | पटस्***(?) नगपुष्पाणामष्टसहसेन नरपतिर्वशो भवति | सर्वव्याधिभ्यः विचर्चिकदुष्टव्रणमृतिकां सप्ताभिमन्त्रितं कृत्वा दद्यात् | व्यूपसमं मन्त्रति | कृतपुरश्चरणः पञ्चागव्येन कायशोधनं कृत्वा त्रिः कालस्नायि **** (?) मूलपटस्याग्रतः ***(?)तिको जपो देयः | प्द्f १५४, प्. ६९९) पश्चादष्टम्यां कृष्णायां यथाशक्त्य पूजां कृत्वा पटस्याग्रतः कुशविण्डकोपविष्टः बिल्वसमिधानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | आर्यमञ्जुश्रियस्य शिरसि रश्मि निश्चरति | सा साधकं प्रदक्षिणीकृत्य भगवत्प्रतिमाया अन्तर्धीयते | ततः आर्यमञ्जुश्रियं पश्यति | यदि चक्रवर्ती भवति | ततः साधककुटी प्रज्वलति | स्रग्दामचलितेन माण्डलिको राजा भवति | पटस्याग्रतः श्वेतचन्दनेन मण्डलकं कृत्वा गन्धधूपपुष्पबलिविलेपनं च दत्वा केशरपुष्पाणां शतत्रयं गृहीत्वा अष्टशताभिमन्त्रितं घृतप्रदीपत्रयं प्रज्वाल्य उदुम्बरसमिद्भिरग्निं प्रज्वाल्य एकैकं पुष्पमष्टशताभिमन्त्रितं कृत्वा घृताभ्यक्तानां जुहुयात् | यमिच्छति स वशो भवति सप्तरात्रेण | यः त्रिकालं परिवर्तयति तस्य पञ्चानन्तर्याणि तन्वीभवन्ति | अष्टशतजापेन प्रतिदिवसं ब्रह्महत्या तन्त्रीभवति | सततजापेन यमिच्छति तं ग्रामं लभति | चक्षुषा यं पश्यति स वशो भवति | वादे जपेनोत्तरवादी भवति | तिलमाषां जुहुयादर्त्थमुत्पादयति | वटशृङ्गानामष्टसहस्रं जुहुयात् | कृत्वा सर्वबुद्धबोधिसत्त्वानां नमस्कारं दशवारां परिवर्तयेत् | श्रौत्रं प्रतिलभते | आर्यमञ्जुश्रियं पूर्वोक्तेन विधानेन पटके फलेक वा अश्लेषकैर्वर्णैश्चित्रापयितव्यः | तस्याग्रतो पूजां कृत्वा शतसहस्रं जपेत् | कुशसंस्तरशायी क्षीरयावकाहारः त्रिःकालस्नायी शुचिवस्त्रप्रावृतेनाष्टाङ्गपोषधिकेन प्रतिपदमारभ्य जपो देयः यावत् पञ्चदशीति | ततः | व्याधिं प्रशमयति | कृतपुरश्चरणः क्षीरगोमूत्राहारः यावकाहारो वा त्रिःकालस्नायी पोषधिकः सधातुके चैत्ये पटं प्रतिष्ठाप्य प्रतिदिनं घृतप्रदीपो प्रज्वालयितव्यः | पद्मसहस्रेण च पूजा कर्तव्या | कृष्णपक्षे जपो देयः | शुक्लप्रतिपदे साधनारब्धव्या | पौर्णमास्यां त्रिरात्रोषितेन उदारां पूजां कृत्वा सर्वरात्रिको जापो देयः | ज्वलितमात्रेण गगनमुत्पतति | विद्याधरो भवति | विद्याधरसहस्रपरिवृतः द्विरष्टवर्षाकृतिः आकुञ्चितकुण्डलकेशः *(?)बध्यः सर्वविद्याधराणात् | आवेशनं धूपेन विषनाशनं पल्लवेन आत्मरक्षा जापेन शुक्लचतुर्दश्यामारभ्य यावत् पञ्चदशीति शुचिना शु********* (?) अष्टाङ्गपोषधिकेन पटस्याग्रतो यं मृगयति तं लभते | प्द्f १५५, प्. ७००) घृतमष्टशताभिमन्त्रितं कृत्वा पिवेत् | दिवसानि सप्त | मेधावी भवति | पटस्याग्रतः मल्लिकपुष्पाणामष्टसहस्रं जुहुयात् सप्तरात्रम् | द्रव्यमुत्पद्यते | शुक्लचतुर्दश्यां त्रिरात्रोषितः उदुम्बरकाष्ठैः अग्निं प्रज्वाल्य उदुम्बरसमिधानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | पञ्च दीनारशतानि लबह्ते | अंध्रः पोषधिको कृष्णचतुर्दश्यां दीपानामष्टसहस्रं प्रज्वाल्य दीपवर्तीनामष्टशतं जुहुयात् | पश्चाज्जापो देयः | ततः चक्षुः प्रतिलभति | बधिरः पुस्तकं गन्धकुटिं प्रवेशयित्वा अष्टसहस्राभिमन्त्रितानां पद्मानामष्टसहस्रं जुहुयात् | शान्तिर्भवति | पटस्याग्रतः मालतीपुष्पाणां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | शान्तिर्भवति | कृतपुरश्चरणः कृष्णपञ्चम्यां सधातुके चैत्ये पटं प्रतिष्ठाप्य महतीं पूजां कृत्वा उदारां बलिं निवेद्य वाह्या सर्वभौतिकां बलिं निवेद्य प्रियङ्गुचूर्णेन पुत्तलिकां कृत्वा लिखेत् | मण्डलबन्धं दिशाबन्धं कृत्वा कुशविण्डकोपविष्टः तावज्जपेद् यावदुल्कापातं भवति | पुनरपि तावज्जपेद् यावत् पटः प्रकम्पते | अन्यानि च सिद्धिनिमित्तानि भवन्ति | ततः सर्वबुद्धबोधिसत्त्वेभ्यो नमस्कारं कृत्वा उत्पतते | विद्याधरो भवति | कामरूपी योजनसहस्रात्तु शृणोति | सर्वविद्याधरावध्यः | कृतपुरश्चरणः कृष्णचतुर्दश्यामहोरात्रोपितः उदारां पूजां कृत्वा अक्षतं सवं गृह्य गन्धपुष्पैरलङ्कृत्य धूपेन च दक्षिणहस्तेन गृह्य तावज्जपेद् यावज्ज्वलितमिति | पटस्याग्रतः आर्यमञ्जुश्रियस्य रोचनां स्थाप्य तावज्जपेद् यावज्जलितमिति | ततः ग्रहेतव्यम् | गृहतिमात्रेण च नागबलो भवति | परप्रहरणा न प्रभवन्ति | यं मन्त्रो पयति स वशो भवति | त्रीणि च वर्षशतानि जीवति | कृष्णचतुर्दश्यामहोरात्रोपितः पटस्याग्रतो बिल्वकाष्ठैरग्निं प्रज्वाल्य वैकङ्कतसमिधानां कटुतैलाक्तानामष्टसहस्रं जुहुयात् | सप्ताहं कन्यां यामिच्छति सा वशा भवति | कृष्णचतुर्दश्यां एकरात्रोपितः श्मशानं गत्वा अपतितगोमयेन मण्डल**(?)लिप्य अक्षतकपालं गृह्य रक्तचन्दनेन प्रक्षाल्य रक्तपुष्पधूपैश्चामार्च्य तत उपविश्य तं कपालं मन्त्रं जपता कर्षयेत् | यावत् कपालश्चलति तदा सिद्दो भवति | यमङ्गुल्यामाकर्षति स आगच्छति तत् सर्वं करोति शान्तिं कर्तुकामेन पटस्याग्रतः लक्षं जपेत् | प्द्f १५६, प्. ७०१) ततो पटचलनं भवति | तथागतप्रतिमाचलनं वा | कल्पसिद्धिर्भवति | अष्टशताभिमन्त्रितं नीलशाटके ग्रन्थिं कुर्यात् | मल्लस्य जयो भवति | एकविंशतिजप्तं भस्मं मल्लस्य शिरसि दापयेत् | युद्धे जयो भवति | शुक्लप्रतिपदमारभ्य पटस्याग्रतः घृतक्षीरसहितां ताम्रभाजने स्थाप्य अष्टशतजप्तं कृत्वा पिबेद् दिवसानि सप्त | श्रुतिधरो भवति | यद्यार्यमञ्जुश्रियस्य मुद्रा रश्मिर्निश्चरति | सधातुकं प्रदक्षिणीकृत्य ऊर्ध्वं गच्छति | विद्याधरो भवति | कामरूपी अप्रतिहतः त्रीणि वर्षसहस्राणि जीवति | कृष्णाष्टम्यामहोरात्रोपितः निर्भयेन भूत्वा ततो विद्याधरेण सप्ताभिमन्त्रितेन सिंहस्ताडयितव्यः | ततः सिंहः सिंहनादं मुञ्चति | साधकस्य निश्चेष्टो भवति | नालिकान्तरं विज्ञो भवति | ततः साधकेन सप्तवारां मन्त्रमुच्चारयितव्यः | ततः सिंहमभिरुहितव्य | सर्वविद्याधराश्च सन्निपतन्ति | सिंहवाहनः सपरिवार उत्पतति | मनपवनगतिरनेकविद्याधरपरिवृतः कल्पस्थायी | यदा म्रियति तदा यत्रेच्छति तत्र उत्पद्यति | सिंहसाधनम् | पुनः सिंहसाधनं कर्तुकामेन शुक्लपूर्णमास्यां अत्यन्तमौनी क्षीरयावकाहारो यावदपरा पौर्णमासीति लक्षं जपेत् | मौनी पौषधिको वज्रहतं काष्ठं गृह्य क्षीरे सप्तदिवसां स्थापयेत् | ततोधृत्य श्वेतमृत्तिकया चन्दनोदकपरिवर्तितया वज्रहतं काष्ठं स्नापयेत् | ततः साधकः पोषधिकेन रूपकारेण सिंहः कारयितव्यः | ततः पुष्यनक्षत्रे रत्नत्रयस्योदारां पूजां कृत्वा सङ्घोद्दिष्टकभिक्षवो भोजयितव्या | पटस्याग्रतः उदारां पूजां कृत्वा नानाबलि निवेद्य ततः साधकेन शुचिना शुचिवस्त्रप्रावृतेन कुशविण्डकोपविष्टः दक्षिणहस्तेन सिंहमवष्टभ्य तावज्जपेत् यावत् सिंअहवच्चलति | चलिते विविधप्रकारा निमित्ता जायन्ते | ततः अर्घो देयः | पुनरप्यष्टशतं जप्तव्यम् | सर्षपा आगच्छन्ति | मन्त्रं जपता सिंहः स्पष्टव्यः | स्त्री भवति | सा ब्रवीति | किं करोमीति | सा वक्तव्या शरीरान्तर्गता ***** (?) | ततः साधकस्य ह*******(?)र्धीयते | तत्क्षणादेवाकुहित*****(?) द्विरष्टवर्षाकृतिः उदि******(?)समप्रभः | शाकटस्तः अप्रतिहतगतिः | यां दृष्ट्वावलोकयति तैः *******(?)ति | इति विद्याधराश्चास्य वध्या भवन्ति | कल्पस्थायी | यदा मृयति तदा देवेषूपपद्यते | प्द्f १५७, प्. ७०२) कृतपुरश्चरणः सधातुके चैत्य पटं प्रतिष्ठाप्य पश्चमाना मुखे प्रतिष्ठाप्य अदृश्यो भवति | वर्षसहस्रं जीवति | कृतपुरश्चरणः क्षीरयावकाहारः पर्वतशिखरे पटं प्रतिष्ठाप्य गन्धपुष्पैर्धूपैरभ्यर्च्य लक्षत्रयं जपेत् | ततः भस्म वल्मीकमृत्तिकया च पोषधिको गृह्य क्षीरेणालोड्य मर्दयित्वा सुगतवितस्तिप्रमाणां मयूरः पोषधिकेन चित्रकरेण अश्लेषकैर्वर्णैश्चित्रापयितव्यः | विविक्ते प्रदेशे गत्वा पटं प्रतिष्ठाप्य गन्धपुष्पधूपैरभ्यर्च्य सर्वभूतिकां बलिं दत्वा ततः शुचिना शुचिवस्त्रप्रावृतेन पटस्याग्रतः मयूरं स्थाप्य तावज्जपेद् यावन्मयूरश्चलति | ततो विद्याधरेण अपराजितपुष्पैः पूर्वपरिजप्तया मूर्ता शरावसम्पुटां दक्षिणहस्तेनावष्टभ्य तावज्जपेत् यावत् शिवारुतशब्दः श्रूयते | मन्त्रं जपता सखायेभ्यो सत्त्वा आत्मनो मुखे प्रक्षिप्य अदृश्यो भवति | सर्वसिद्धानां आगम्य वर्षसहस्रद्वयं जीअवति | पद्मकेसरसौवीरमञ्जनः शिलां समां कृत्वा पीषधिककन्याहस्ते पीषयेत् | त्रिलोहपरिवेष्टितं कृत्वा कृतपुरश्चरणह् पुष्ययोगेन महेश्वरस्य मूर्त्तौ सर्वभूतिकं बलिं गन्धपुष्पधूपैश्च पूजां कृत्वा शरावसम्पुटे स्थाप्य दक्षिणहस्तेन अवष्टभ्य तावज्जपेद् यावत् खटखटायति | भगवत एका निवेद्य सखायेभ्यो विभज्य अत्मनश्च अपामार्गसमिधानां दधिमधुघृताक्तानां दशसहस्राणि जुहुयात् | दशसुवर्णसहस्राणि लभति | वंशरोचनां गृह्य तृलोहपरिवेष्टितानां गुडिकानां कृत्वा ततः शुचिशुक्लवासो श्मशानं गत्वा गन्धपुष्पधूपैः पूजां कृत्वा सार्वभौतिकं बलिं कृत्वा पुलिका कपालसम्पुटा प्रतिष्ठाप्य तावज्जपेद् यावत् किलकिलाशब्दः श्रूयते | न भेतव्यम् | सहायेभ्योऽपि विभज्य आत्मनो मुखे प्रक्षिप्य अदृश्यो भवति | दशवर्षसहस्राणि जीवति | उलूकनेत्रं गृह्य अञ्जनेन सह कुमारीहस्ते पीषयेत् तृलोहपरिवेष्टितां कृत्वा गुटिकां शरावसम्पुटे स्थाप्य महेश्वरस्य दक्षिणीयां मूर्त्तौ सप्तरात्रं यक्षिणीमाकर्षयति | काष्ठमौनी षण्मासां जपेत् | अ*(?)लपितं द्रव्यं भवति | राजार्कमयीं प्रतिमां षडङ्गुलं कृत्वा अश्लेषकैर्वार्कश्रित्रापयित्वा *****(?)विभूषिता ****(?) षण्मासां जपेत् | मण्डलिकं राज्यं लभते | विद्याधरत्वं वा ******** (?) मौनी षण्मासां नागकरतलमभिमन्त्र्य अयुतं परिजप्य सुनिहितं निधानं लभति | प्द्f १५८, प्. ७०३) राजार्कानां दधिमधुघृताक्तानां दशसहस्राणि समुद्रगामिनीं नदीमवतीर्य अर्कपुटे जुहुयात् | आदित्यो वरदो भवति | तामेव नदीं कटिमात्रमुदकमवतीर्य तिलपुष्पां प्रवाहयेत् | पितामहो वरदो भवति | मन्दारपुष्पां जुहुयात् | शक्रो वरदो भवति | तत्रैव जले मन्दारपुष्पैर्धनदो वरदो भवति | द्विलक्षजापेन राजानमाकर्षयति | त्रिलक्षजापेन सर्वसत्त्वानाकर्षयति | समुद्रगामिनीं नदीमवतीर्य अशोकपुष्पाणां दशसहस्राणि जुहुयात् | मूलपटस्याग्रतः उदारां पूजां कृत्वा चक्रं स्वस्तिकमश्वत्थपत्रे स्थाप्य पर्यङ्कोपविष्टः तावज्जपेद् यावज्वलितमिति | तेन गृहीतमात्रेण आकुञ्चितकुण्डलकेशः उदितादित्यवर्णः विद्याधरचक्रवर्ती भवति | यैश्च दृश्यते यांश्च पश्यति तैः सहोत्पतति | सुदर्शनमूलिकां गृह्य हस्तेनावष्टभ्य ताव सहस्रजप्तां कृत्वा हस्ते बध्वा यं स्पृशति स वशो भवति | कुशमयं चक्रं गृहीत्वा सहस्रं जप्त्वा जले प्रक्षिप्य नागमुत्तिष्ठति | किं करोमीति ब्रवीति | लक्षं मे देहीति वक्तव्यम् | भिक्षाहारः पर्वतशिखरमारुह्य शतसहस्रं जपेत् | तथागतविग्रहा आमुखीभवन्ति | तां दृष्ट्वा यत् साधयति तत् सिध्यति | सर्वालङ्कारविभूषिताः स्त्रियश्च भवन्ति | पुरुषाश्च बुद्धमाराधका हास्यलास्यादिभिः समानकालमुपतिष्ठन्ते | यच्चिन्तयति तत् सर्वं भवति | प्रभाते उद्धृत्य सर्वं नश्यति | शुक्लप्रतिपदमारभ्य अहोरात्रोपितः पटस्याग्रतः ब्रह्मीसकर्पगाव्यघृतकर्षं क्षीरकषं अष्टशतं परिजप्य पिबेद् दिवसानि सप्त | श्रुतिधरो भवति | पटस्याग्रतः नानाप्रकारस्य भक्षमोज्यपिटकं स्थाप्य तावज्जपेद् यावद् भक्तमन्तर्हितं भवति | पश्चाद् भक्तं सङ्क्रामति | व्रीहिजातयश्च | कृतपुरश्चरणस्त्रिलोहमयं षोडशारं चक्रं कृत्वा कृष्णचतुर्दश्यां अहोरात्रोपितः त्रिपथे पूजां कृत्वा उपविष्टः कलापमात्रां मनःशिलां मुखे प्रक्षिप्य तावज्जपेद् यावन्मुखं स्फुटति | मनःशिलां सिद्धा भवति | तिलकं कृत्वा अदृश्यः कामरूपी पञ्चवर्णशतानि जीवति | कृष्णाष्टम्यां स्रष्ट्वां पणिकां त्रिशूलं कारयेत् **(?)वरे कृष्णा***(?) अहोरात्रोपितः *(?)शानं गत्वा त्रिशूलस्य मन्त्रौ पूजां कृत्वा पर्यङ्गोप**(?) दक्षिणहस्तेन तृशूलं गृह्य तावज्जपेद् प्द्f १५९, प्. ७०४) यावत् तृशूलाद् रश्मिर्निश्चरति | ततः सिद्धो भवति | रात्रौ निखनेद् दिव्यं गृहं भवति | शुचौ देशे मुद्रे प्र्तिष्ठाप्य अहोरात्रोपितः पटस्याग्रतः पुत्तलिकां कृत्वा विधिवत् पूजयित्वा बिल्वसमिधानां दधिमधुवृताक्तानां अष्टसहस्रं जुहुयात् | भगवतो मञ्जुश्रियस्य ललाटाद् रश्मिर्निश्चरति | ततः सिद्धो भवति | अपरिमितं सुवर्णं द्रव्यं लभति | अहोरात्रोपितः पटस्याग्रतः करवीरपुष्पाणामेकं गृह्य नागस्थानं गत्वा पुष्पं नागह्रदे प्रक्षिप्य मन्त्रमावर्तयेत् | नागा नागिन्यश्च वश्या भवन्ति | यं प्रार्त्थयति तं लभते | कृतपुरश्चरणः अहोरात्रोषितः कृष्णचतुर्दश्यां ज्वरंनाशयितुकामो गिरिकर्णिकापुष्पाणामष्टसहस्रं जुहुयात् | पिशाचज्वरा नश्यन्ति | खदिरसमिधानामष्टशतहोमेन सर्वग्रहां मुञ्चापयति | भस्मना सप्तजप्तेन परमन्त्रां मन्त्रपतिर्बन्धयति | सकृज्जप्तेनोदकेन मोक्षः | वस्त्रे भूर्जपत्रे वा लिखित्वा ध्वजाग्रे बध्नीयात् | परसेना स्तम्भिता भवति | उदकसक्तवाहारः कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा त्रिरात्रोपित एकलिङ्गं गत्वा लिङ्गोपरि दक्षिणायां मूर्तिं पादं स्थाप्य वालशोल्लकेन बन्धयेत् मुष्टिं बध्वा तावज्जपेद् यावद् रावो निश्चरति मरामीति | तृतीये रावे मुष्टिः सिद्धा भवति | मुष्टिं बध्वा सप्तवर्षशतानि जीवति | महेश्वरगणश्च | गोरोचनया सहस्राभिमन्त्रितया विशेषकं यं पश्यति | सर्वे वशा भवन्ति | प्रातरुत्थायोदकं सप्ताभिमन्त्रितं कृत्वा मुखं प्रक्षाल्य यस्य दर्शनं ददाति स वशो भवति | एवं तैलेनाहारकाम उदकचूलके सप्ताभिमन्त्रितं कृत्वा पिबेत् | अप्रार्थितमन्नं लभते | राजकुलं प्रविशता चीवरात्तं गृह्य एकविंशतिवारां परिजप्य वामहस्तेन ग्रन्थिं कृत्वा अप्रतिहतवाक्यो भवति | चोरमध्ये स्मर्त्तव्यम् | बद्धं च मोक्ष्यति | च्छिन्नभिन्नाधिकानां मन्त्राणां शालिव्रीहिश्वेतकरवीर**(?)र्यकैः प्रतिकृतिं कृत्वा पटस्याग्रतः वामहस्तेनाव.ष्तभ्याष्टसहस्रं जपेत् | मन्त्राणामुत्थापनं कृतां भवति | गोसहस्रं लभति | अनेनैव ****(?) घृतसर्जरसं दहवा शतसहस्रं जपेत् | द्वादश ग्रामवरां लभते | अनेनैव विधानेन स्तूपं कृत्वा *****(?)क्तानां पद्मानां शतसह निवेदयेत् | देशाधिपत्यं ***(?) | ********(?)स्तिप्रमाणं स्तूपं *******(?) च दहता चम्पकपुष्पाणां शतसहस्रं निवेदयेत् | सुवर्णसहस्रं लभति | प्द्f १६०, प्. ७०५) सुगतवितस्तिप्रमाणं स्तूपं कृत्वा प्रतिकृतिमालिख्य वामपादेनावष्टभ्य अष्टसहस्रं जपेत् | गोत्रेण वशमागच्छति | सुगतवितस्तिप्रमाणं स्तूपं कृत्वा विवाहलाजानां दधिमधुघृताक्तानामग्नावष्टसहस्रं जुहुयात् | भस्मना च मण्डलबन्धः | प्रभाते स्नात्वा अनेनैव मन्त्रेण निर्मथ्य नवनीतं ग्रहाय उदारां पूजां कृत्वा धूपं दहताष्टसहस्राभिमन्त्रितं दन्तैरस्पृश्य ग्रसेत् | यस्य नाम्ना स वाशो भवति | मुक्त्वा कामोपसंहितम् | सर्वगन्धानां वीरविक्रयक्रीतानां त्रिरात्रोपितः पटस्योदारां पूजां कृत्वा घृतप्रदीपं प्रज्वाल्य स्वयमेव मन्त्रं जपेत् | तेन पुत्तलिकां कृत्वा सप्तानामुपर्यश्वत्थपत्राणामुपरि स्थाप्य तावज्जपेद् यावत् प्रसन्धिता इति | तं चूर्णं कृत्वा यं स्पृश्यति स वशो भवति | अनेनैव विधिना नागकेसर चूर्णस्य प्रतिकृतिं कृत्वा धूपशरावेषु अष्टशतं जुहुयात् | यमनुचिन्त्य स वशः | अनेनैव विधिना अपामार्गसमिधानां जुहुयात् | अर्त्थकामः | गोष्ठं गत्वा पटस्याग्रतः अपतितगोमयेन हस्तोच्छ्रितं स्तूपं कृत्वा विधिवत् पूजयित्वा गुग्गुलुं दहता शतसहस्रं जप्तव्यम् | सरविद्याधरापरिभूतः सप्तवायुपथविचारी | असंवत्सरजातस्य प्रदेशिनीमङ्गुलीं गृह्य हस्तप्रमाणं चैत्यं कृत्वा श्मशाने विधिवत् पूजां कृत्वा प्राङ्मुखोपविष्टः कुशसंस्तरे तामङ्गुलिं निवेद्य प्रदेशिन्याऽऽगुल्यावष्टभ्य तावज्जपेद् यावद् रश्मिर्निश्चरति | दीपशिखा वर्धते | कृतरक्षास्ता राज्यं गृह्य प्रभाते तयाङ्गुल्या यमाकर्षयति स वशः | त्रिरात्रोपितः समानवत्साया गोः पयस्विन्याः क्षीरं गृह्य पटस्याग्रतः मण्डलकं कृत्वा घृतप्रदीपं प्रज्वाल्य कुशसंस्तरस्थमष्टसहस्राभिमन्त्रितं कृत्वा मृद्भाजने क्षीरं कुर्यात् | दधिमधुघृतैर्विनायकहोमः | ततो मण्डलकं कृत्वा चतुर्षु दिशापलान् स्थाप्य द्वितीयमण्डले प्रबोधको सर्षपहस्तः तृतीयमण्डले सुसहायो वा महतीं पूजां कृत्वा कृतरक्षः प्राङ्मुखोपविष्टः हस्तेनावष्टभ्य तावज्जपेद् यावदूष्मायति धूमायनि प्रज्वलति | प्रथमेनाञ्जिताक्षः यं पश्यति ये च पश्यन्ति सर्वे **(?)शा भवन्ति | द्वितीयेन सिद्धेन नवनागसहस्रवलोऽनिलवधः पञ्चापसहस्राणि जीवति | अपरिभूतः सर्वविद्याधरो भवति | अन्तर्धानिकानां अष्टसहस्राभिमन्त्रिता प्द्f १६१, प्. ७०६) ज्वलित उदितादित्ववणः रत्नालङ्कृतशरीरः कल्पान्तरस्थायी | अष्टसहस्राभिमन्त्रितं कृत्वा शत्रुमध्ये प्रविशेद् भयं न भवति | अवध्यः सर्वशत्रून् आवेशनं श्वेतपुष्पेण नृत्यापनमुदकेन त्रिजप्तेन करवीरपुष्पेण त्रिजप्तेनाहरेत् | अतीतानागते कथयति | बन्धनं छोटिकया विच्छेदन | अञ्जनं साधयितुकामः वीरक्रयक्रीतं सौवीराञ्जनं गृह्य प्रापाकान्यपनीय पञ्चगव्येनोत्तरमुखया पीषयेत् | अनामिकयाङ्गुल्या चतस्रो गुलिका कृत्वा पद्मपत्रेणाच्छाद्य शोषयेत् | पटस्याग्रतः विधिवदग्निं प्रज्वाल्य सहस्रसम्पाताहुतिं कृत्वा सधातुके चैत्ये उदारां पूजां कृत्वा अष्टभिर्दिग्भिः पलाशकाष्ठैरग्निं प्रज्वाल्य शिक्ककटिप्र्देशे स्थापयेत् | शुक्रबन्धः कृतो भवति | चीवरकर्णकेनसप्तजप्तेन ग्रन्थिं कृत्वा विषबन्धः | विषचिकित्सा | पल्लवेन मुद्राभेदत उदकेनावेशनम् | गुग्गुलुधूपेन उदकेन वा ग्रहबन्धः | अङ्गुलिं परिजप्य यं तर्जयति स वशो भवति | पटस्याग्रतः अष्टशतं जपेत् | स्वप्ने यथाभूतं दर्शयति | सधातुके चैत्ये पटं प्रतिष्ठाप्य तस्याग्रत उदारां पूजां कृत्वा श्वेतपद्मानां दधिमधुघृताक्तानां विल्वकाष्ठैरग्निं प्रज्वाल्य लक्षं जुहुयात् | राज्यं लभति | असिद्धे सहस्रपिण्डं ग्रामं लभति | गोरोचना मनःशिलां वा पटस्याग्रतः सहस्रं जपेत् | तेन तिलकं कृत्वा यं मृगयति तं लभति | कृष्णचतुर्दश्यामेकरात्रोपित रात्रौ पटकमूलकांसकाराग्नौ अष्टसहस्रं जुहुयात् | रूपकसहस्रं लभते | शुक्लाष्टम्या अहोरात्रोपितः समुद्रगामिनीं नदीमवतीर्य पद्मानां दशसहस्राणि निवेदयेत् | राज्यं लभति | पुरुषवशीकरणे कृष्णाष्टययां र्करात्रोपितः बोधिवृक्षकाष्ठैरग्निं प्रज्वल्य कुमुदानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | वशो भवति | स्त्रीवशीकरणे कृष्णद्वादश्यां सौगन्धिकपुष्पैः आर्यमञ्जुश्रियं हनेत् | ओषधीबन्धमनसा द्विपदचतुःपदानामुत्सारणी | दिनेदिने पञ्च दीनाराणां प्रयच्छति | निरन**(?) व्ययीकर्तव्या | अर्धं रत्नत्रयोपयोगाय | पटस्याग्रतः मासमेकं **(?) | द्वादश दानारसहस्रामि ***(?) शुक्लाष्टम्या****************** (?) जपेत् | राज्यं ददाति कृष्णाष्टम्यां ******** (?) स्याग्रतः *******(?)तकं कलिकं *******(?)सूत्रकेन वेष्टयेत् | ततः ****(?)शकाष्ठैरग्निं प्रज्वाल्य प्द्f १६२, प्. ७०७) कीलकं अष्टसहस्राभिमन्त्रितं कृत्वा एकैकं खण्डमेकविंशतिवारां परिजप्याग्नौ प्रक्षिप्य प्रभाते दीनारशतानि लभति | शुक्लाष्टम्यामेकरात्रोपितेनातिमुक्तकपुष्पाणां अष्टसहस्रं निवेदयेत् सप्ताहम् | दीनारशतं लभति | सप्तानिमन्त्रितेनाक्षीण्य जपेत् | सर्वजनप्रियो भवति | सामान्यमञ्जनमभिमन्त्र्य यं प्रथं पश्यति स वशो भवति | पटस्याग्रतः यमुद्दिश्य दशसहस्राणि जपति | विवरद्वारे लक्षं जपेत् | यथा नियतं पर्वतशिखरे वा गोष्ठे प्रतीत्यसमुत्पाअगर्भचैत्यं प्रतिष्ठाप्य लक्षं जपेद् दीनारलक्षं लभति | नागस्थाने पटं प्रतिष्ठाप्य सुकृतरक्षाविधानं जम्बुकाष्ठैरग्निं प्रज्वल्य त्रिमधुरां बलिं दत्वा नागपुष्पाणामष्टसहस्रं जुहुयात् | ततः ब्राह्मणरूपी नागराजागच्छति | स च ब्रवीति | वक्तव्यं च दिने दिने सप्त दीनारां प्रयच्छ | तथास्त्विति कृत्वादृश्यो भवति | शेनापतिवशीकरणे बृहन्मण्डलक प्रलिप्य तस्य पदपांसुमानीय वामहस्तेनाहुतिसहस्रं जुहुयात् | वश्यो भवति | सामान्यस्त्रीवशीकरणे लवणेन प्रतिकृतिं कृत्वा छित्वा छित्वा वामहस्तेन जुहुयात् | वश्यो भवति | दाशीवशीकरणे पुन्नागकेसरयवगोधूमानेकीकृत्य अष्टसहस्रं जुहुयात् | वश्यो भवति | शालिपिष्टमयीं प्रतिकृतिं कृत्वा छित्वा छित्वा जुहुयात् | वशो भवति | रण्डावशीकरणे माषजम्बूलिकां जुहुयात् | वशो भवति | श्रोताञ्जनं एकचैत्ये अश्वत्थपत्रान्तरितां कृत्वा अष्टसहस्राभिमन्त्रितं यदि पुनरपि साधयति द्विगुणायुर्भवति | धान्यागारं प्रविश्य शुचौ प्रदेशे पटं प्रतिष्ठाप्य मौनी क्षीरयावकाहारः पक्षमेकं जपेत् | ततः पटस्योदारां पूजां कृत्वा उदारतरीं च बलिं निवेद्य पर्यङ्कं बध्वा तावज्जपेत् यावद् रश्मिर्निश्चरन्ति | तां दृष्ट्वा पञ्चानन्तर्याण्यपि क्षयमुपति | ततः सिद्धो भवति | महाराज्यं लभति | अमत्यर्थिको भवति | रोचनामष्टसहस्राभिमन्त्रितं कृत्वा धूपेन धूपयित्वा दन्तान्तरे स्थापयेत् | *(?)तवादी भवति | सर्वे चास्य वश्या भवन्ति | शुक्लाष्टम्यां त्रिरात्रोपितः पटस्याग्रतः ********(?)ष्टसहस्रं जपेत् | ******** (?) लभति पटस्याग्रतः त्रिरात्रा***(?) ****(?)चतुर्दश्यां गुग्गुलुधूपं ******(?)ग्निं ******(?) दधिमधुघृताक्ता********(?) पुष्पाणां अष्टसहस्रं जुहुयात् | प्द्f १६३, प्. ७०८) ततोऽग्निकुण्डं यत् पद्मप्रमाणं करवीरसदृशो मनःशिलां दृश्यति | मन्त्रं जपता ग्रहेतव्यम् | तथा गृहीतया उदितादित्यवर्णो द्विरष्टवर्षाकृतिः विद्याधरो भवति | वायुसमभावेन ईप्सिततवानि चाहाराणि उत्पद्यन्ते | अशीतिवर्षसहस्राणि जीवति | सर्वसत्त्वानामगम्यश्च मृत्युं जनयति | पटस्याग्रतः साधयेत् मुखे प्रक्षिप्यान्तर्हितो भवति | प्रथमं वन्धनमोक्षः कर्तव्यः | मधुसिक्थमयी. प्रतिकृतिं कृत्वा स्त्रिया वा पुरुषो वा विविक्ते प्रदेशे अग्निं प्रज्वाल्य अभिमन्त्र्य दापयेत् | अष्टशतं मदनकण्टकेन विध्वा दापयेत् | वश्या भवन्ति | यं प्रार्थयति तं लभते | शुक्लपौर्णमास्यां अहोरात्रोपितः सुरभिपुष्पाणां अष्टशतं निवेदयेत् | पञ्चकार्षापणानि लभति | कृष्णचतुर्दश्यां अहोरात्रोपितः पटस्याग्रतः प्रियङ्गुकाष्ठैरग्निं प्रज्वाल्य वैकङ्कतसमिधानामष्टसहस्रं जुहुयात् | शताभिमन्त्रितेन सर्वशूलं प्रशमयति | दुःखप्रसवायाः स्त्रिया उदकं अष्टशताभिमन्त्रितं कृत्वा देयम् | सुखेन प्रसवयति | शुक्लप्रतिपदमारभ्य दिनेदिने सहस्रवृद्ध्या जपेत् | यावत् पञ्चदशीति | अवसाने त्रिरात्रोपितः गुडिकायोगेन गुलिकां कृत्वा साधयित्वा मुखे प्रक्षिप्य अन्तर्हितो भवति | नीलाशोककुसुमं कृष्णसारपित्तं चक्रवाकहृदयं श्रोत्रियारसहितं समभागानि पुष्पलोहेन वेष्टयेत् | पुनः त्रिलोहवेष्टितं कृत्वा साधयितुकामः सधातुप्रतिमाया अग्रतः तत्रैव पटं पतिष्ठाप्य शुक्लाष्टम्यां पूजां कृत्वा सप्ताश्वत्थपत्रेषु स्थाप्य मण्डलकं कृत्वा तस्य मध्ये अक्षताङ्गं पुरुषं स्थाप्य वामपादेन उरसि माक्रम्य कृतरक्षः मन्त्रमावर्तयेत् | यावदुत्तिष्ठति पूर्ववत् | ततः मधुपायसं भोजयेत् | सप्ताभिमन्त्रितं मुष्टिं बध्वा शिरसि ताडयितव्यः | ततः छर्दयति | तं पीत्वान्तर्हितो भवति | त्रिरात्रोपितः सोमग्रहे नाभिमात्रमुदकमवतीर्य तावज्जपेद् याव**(?)क इति | दीनारशतं लभति | आवर्तयेच्छोभनं लभति | लवणमि**(?)णोदकेनाष्टशतं स्नात्वोद्वर्त्तितं कृत्वा गन्धमाल्यैश्च पूजयित्वा दूर्व**(?)तं *********** (?) | सप्तजप्तेन मुष्टिं कृत्वा शिरसि हन्तव्यः | तत *********** (?) महाकल्पस्थायी विद्याधन भवति | शर********* (?) ************(?)यित्वा हनेत् | सहस्रवेधं सुवर्णं *****(?) | काय***(?) *********** (?) कुर्यात् | पञ्चानन्तर्य***(?)णोऽपि सिध्यति | प्द्f १६४, प्. ७०९) चैत्यलक्षेण विद्याधरचक्रवर्ती भवति | सर्वशास्त्राभिज्ञः सर्वविज्ञानोपेतः कल्पस्थायी च्युतश्च पञ्चजातिशतान्यपायगामी न भवति | उदितोदितमध्यदेशः सर्वेन्द्रियसमन्वागतः श्रुतिधरो जातिस्मरः | अयाचितो लब्धमनःशिलां गृह्य सप्तभिरश्वत्थपत्रेषु स्थाप्य साधयेत् | सन्ध्यायां ये शृणोति जिघ्रति सर्वे वशा भवन्ति | निरः शैलं तिरः कुड्यं तिरः समुद्रं भित्वाभ्युद्गच्छति | श्मशाने षोडशहस्तं अष्टहस्तं वा मण्डलकमुपलिप्य मृतकमुत्तराशिरं स्थाप्य मुखे वामङ्गुलिकां प्रक्षिप्य दक्षिणेन पादेनोरसि माक्रम्य तावज्जपेद् यावन्मृतकश्चलितः | तं चाङ्गुलिं हस्तेन गृहीत्वा ददाति | तमनामिकायामङ्गुल्यां प्रक्षिप्य यमाकारयति स आगच्छति | प्रतिनिवर्त्तस्वेति प्रतिनिवर्त्तयति | मृतकमक्षताङ्गमानीय मृतकस्योपरि पादं दत्वा तावज्जपेद् यावदत्तिष्ठति | कृत्वा तत्र मन्त्रं कुङ्कुमेनालिख्य कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा पोषधिकः नियमस्थः न केनचित् सार्धमेकाकी पर्वतशिखरमारुह्य वर्जयित्वा दिशपालां अष्टहस्तं वा मण्डलकमुपलिप्य वालुकामयं चैत्यं कृत्वा यथाशक्तितः पूजां कृत्वा प्राङ्मुखो दक्षिणकहस्तेन खड्गं गृहीत्वा ऊर्ध्वबाहुः चैत्यस्याग्रतो मन्त्रमावर्तयेत् | यावदक्षराण्यन्तर्हितानि | तत् पत्रं खड्गभूतं प्रज्वलितं गृहीत्वा यथेष्टगामी विद्याधरो भवति | सर्वविद्याधराणां अवध्यः सर्वसत्त्वानां अधृष्यः कामरूपी कल्पस्थायी योजनसहस्रान् पश्यति | वेतसपत्रैः कटुकतैलाक्तैः गामुपशमः शालितन्दुलेन पर्वतसम्पत्तिः लक्षजप्तैः सर्षपैः आसुराणि मन्त्राणि घातयति | अशनिवज्रोपलादीनि अष्टशतजप्तेन शरेण यत्रेच्छति तत्र पातयति | सप्तजप्तेन भस्मना यस्यां क्षिपति दिशा तत्र काण्डवारणकृतं भवति | अष्टशतजप्तेन सर्वशल्याहरणम् | कृतपुरश्चरणस्य पटस्याग्रतः पञ्चविंशतिलक्षं जपेत् | ततः नखच्छेद्यं तालपत्रं खड्गं सर्वसस्यसंरक्षणं द्विपदचतुष्पदकीटमूषिकादीनां **(?) अष्टसहस्राभिमन्त्रितं कृत्वा **(?) क्षिपेत् | सर्वनागानां अवध्यो भवति | लक्षजापेन य*************(?)न्मोचयति | आदित्यग्रहे समानवत्सायाः गोर्घृतं ताम्रभाजने स्या******(?)ज्जपेद् या*(?)मुक्तः | तं पीत्वा सर्वव्याधिभ्यो मुच्यते | पूर्वोक्तेन विधिना सधातुके प्द्f १६५, प्. ७१०) चैत्ये पोषधिक. श्रीपिष्टसर्जरससंमिश्राणां शतसहस्रं जुहुयात् | दीनारसहस्रं लभति | श्वेतसर्षपाणां घृताक्तानां अष्टसहस्रं जुहुयात् | ततः सा निधिदर्शनं ददाति | ग्रहेतव्यम् | साधतुके चैत्ये समुद्रगामिन्यां नद्यां वालुकया वा प्रतीत्य समुत्पादगर्भं सुगतवितस्तिप्रमाणं चैत्यं कृत्वा पोषधिकः शुचिः यथाशक्तितः पूजां कृत्वा भिक्षाहारः हविष्याहारो वा शतसहस्रं जपेत् | सर्वकर्मसमर्थो भवति | महाश्मशानप्रचेनेन मण्डलादिदिशि विदिशाबन्धः सर्वविषचिकित्सा उमार्जनग्रहज्वरनाशनः | महानदीप्रतरणे जपेत् | सुखेन तरति | जपेनैव तरिकशौल्किकगौल्मिकादीनां पूज्यो भवति | विवादे चोत्तरवादी भवति | निद्राशुक्रबन्धमूत्रकेन सहस्रजप्तेन खदिरकीलकैः अष्टसहस्रजप्तैः न मन्त्रवशीकरणे यवानां दधिमधुघृताक्तानां नवनीतमयीं अङ्गुष्ठपर्वमात्रां पुत्तलिकां कृत्वा अश्वत्थपत्रे स्थाप्य हस्तेनावष्टभ्य तावज्जपेत् | यावत् स्फुरति | तां दन्तैरस्पृश्य ग्रहेत् | तत्क्षणादेव अभिरूपा आगच्छति | सर्वकामप्रदा भवति | विल्वकाष्ठैरग्निं प्रज्वाल्य बिल्वसमिधानां दशसहस्राणि जुहुयात् | भोगान् लभति | सर्वसाधनेषु रक्षचोरव्याघ्रनक्रमकरकुम्भीरेषु मण्डलबन्धः सीमाबन्धः तुण्डबन्धः | निधानग्रहणम् | यत्र स्थाने विधानः तत्र गत्वा उपवसितः मण्डलकमुपलिप्य बिल्वकाष्ठैरग्निं प्रज्वाल्य राजसर्षपां जुहुयात् | निधानमवाप्नोति | राजमहिषीं सपरिवारं वशीकर्तुकामः कुशमयीं प्रतिकृतिं कृत्वा वामहस्तेनावष्टभ्य सहस्रं जपेत् | सपरिवारा वशा भवति | ब्राह्मणवशीकरणे तिलानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् सपरिवारः | क्षत्रियवशीकरणे यवां दधिमधुघृतानामष्टसहस्रं जुहुयात् | वशो भवति सपरिवारः | वैश्यवशीकरणे कृष्णसर्षपाणां अष्टसहस्रं जुहुयात् | वशो भवति सपरिवारः | शूद्रवशीकरणे कृष्णव्रीहितुषाणामष्टसः जुहुयात् | वशो भवति | दिवसत्रयं एकाकिना होम. | तस्यैव कपिलाया घृतं मालती***(?) एकीकृत्य सप्ताहुतिं जुहुयात् | श्वेतसर्षपां सप्ताभिमन्त्रितं ***(?) शिरसि ददाति स वशो भवति | राजा ********************* (?) जपेत् | सप************(?) भवति | *********(?)यमभिमन्त्र्य समानं धारयेत् | प्द्f १६६, प्. ७११) ततो गोपालके कृतरक्षेण गो दोहयेत् | ततस्तं क्षीरं च विविक्ते प्रदेशे कलशे जपेत् | ततो विरोलयित्वा ब्राह्मणकन्यया पद्मबीजं तगरं पद्मकेसरं चन्दनं मधुना सह पीषयेत् | गुटिकां कृत्वा ताम्बूलेन सार्धं अभिमन्त्र्य यस्य ददाति स वशो भवति | पुष्पमालां परिजप्य यस्य शिरसा ददाति स वशो भवति | रक्तचन्दनं चम्पककुसुमं पद्मकेसरं रक्तशालितुषागिरिकर्णिकाकोरण्डकबीजं व्रीहिमाषां कुष्ठतगरं तुरुष्कतैलं चैकतः कृत्वा समभागानि कारयेत् | जातिकाष्ठैरग्निं प्रज्वाल्य जातीपुष्पाणां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | पञ्च दीनारशतानि लभते | आम्रकाष्ठैरग्निं प्रज्वाल्य नदीतटे दधिमधुघृताक्तानां अर्कसमिधानां अष्टसहस्रं जुहुयात् | पञ्चमे दिवसे पञ्च दीनारां लभते | अशोकसमिधानां शुक्लचतुर्दश्यां आरभ्य यावत् पञ्चदशीति दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | दीनारशतं लभति | करवीरकाष्ठैरग्निं प्रज्वाल्य करवीरलतिकानामष्टसहस्रं जुहुयात् | शुक्लाष्टम्यां आरभ्य यावच्छुक्लचतुर्दशीति दीनाराणां सहस्रं लभते दिने दिने अष्टहसस्रं जुहुयात् | यावच्चतुर्दशीति | अनेककर्मणा कुपितं राजकुलं कुपितं मित्रवत् प्रसादयति | कृतपुरश्चरणः विद्युहतवृक्षस्य षडङ्गुलप्रमाणं काष्ठं गृह्य तावज्जपेत् त्रिरात्रोपितः सधातुके चैत्ये पटं प्रतिष्ठाप्य तं कीलकं तृलोहबन्धनं कृत्वा सर्वौषधिपरिपूर्णं चत्वारो कलशां पद्मसंस्तरे संस्थापयेत् | तत् कीलकं वामपादेनाक्रम्य वामहस्तेन गृह्य च तावज्जपेद् यावन्नश्यति | हस्तेति न च हस्तं मुञ्चति | ततो दद्यान्महाबलिम् | प्रभाते दाडिमं भक्षयेत् | तत् कीलं सिद्धं भवति | अरण्यं निखनेद् गृहं भवति कामदम् | सर्वोपकरणानि चोपतिष्ठन्ति | उद्धृतेन सर्वे तं पीत्वा स्नात्वा च पुनरपि स एषोपचारः | यावत् सकला रात्रिः | प्रभाते सङ्घोद्दिष्टका भिक्षवो भोजयितव्या | भोजयित्वा च घृतसद्यानि दाडिमानि भक्षयितव्यानि | मागच्छति | चतुर्दशविद्यास्थानानि मुखं प्रविशन्ति | श्रुतिधरः | समुद्रगामिनीं नदीमवतीर्य दक्षिणहस्तेन मुष्टिं कृत्वा त्रयोदशदिवसां जपेत् | सर्वविषदष्टकानि चोत्थापयति | मुष्टिना सर्व**(?) नाशयति | प्द्f १६७, प्. ७१२) इच्छया मुच्यमानः | अशोकवृक्षस्याधस्तात् त्रिरात्रोपितः मरीचानां अष्टसहस्रं जुहुयात् | मरिचमेकं मुखे प्रक्षिप्य यमनिमिषं व्यवलोकयति स वशो भवति | अनुस्मरणमात्रेण सर्वोपद्रवान् नाशयति | या स्त्री न रोचते तस्या नामं गृहीत्वा घृतं परिजप्य दापयेत् | सुभगो भवति | वज्रसाधनम् | पुष्पलोहमयं वज्रं कृत्वा षोडशाङ्गुलिकं त्रिसूचिकं समुद्रगामिनीं नदीमवतीर्य सुगन्धपुष्पाणां लक्षं निवेदयेत् | पश्चिमपुष्पं प्रतिस्रोतं भित्वा आगच्छति | दन्तैरस्पृश्य ग्रसेत् | दिने दिने पञ्चग्रन्थशतानि गृह्णाति | कृतपुरश्चरणः पटस्याग्रतः लक्षं जपेत् | ततो यत्र निधानं तिष्ठति तत्र गत्वा कालमूलकं कलशं सर्वगन्धैर्लिप्य च श्वेतचन्दनोदकेन पूरयेत् | अष्टसहस्राभिमन्त्रितं कृत्वा निधानस्थाने स्थापयेत् | सर्वभूमिः स्फुटति | निधानं पुरुषमात्रे तिष्ठति | ग्रहेतव्यम् | पलाशसमिधानां लक्षं जुहुयात् | गोसहस्रं लभति | शेफालिकाकुसुमानां लक्षं जुहुयात् | विषयं लभति | अर्कसमिधानां लक्षं जुहुयात् | दीनारसहस्रं लभते | नवनीताहुतीनां जुहुयात् | पञ्च ग्रामां लभते | पिण्डारकपुष्पाणां लक्षं जुहुयात् | फट्टकानां चतस्रं कोटिं परिलभते | क्षीराहुतीनां लक्षं जुहुयात् | वितर्कवस्त्राणां शतं लभते | कुमुदानां लक्षं जुहुयात् | पत्नी सहिरण्यं लभते | पिण्डारकपुष्पाणां लक्षं जुहुयात् | पर्वतशिखरमारुह्य लक्षं जपेत् | यस्मिन् देशे जपति तस्मिं देशे यो राजा स पुत्रत्वेनोपतिष्ठति | श्रीकारपद्मं जुहुयात् | पद्यश्रिय आगच्छति | जपकामो नित्यं दधिं जुहुयात् | नित्यं जपो भवति | पुष्टिकामो घृतं जुहुयात् | अर्थावाप्तिर्भवति | शुचिना नित्यकालं पञ्चरात्रेण राजानं सप्तरात्रेण पिशाचां न****(?) यक्षराक्षसां द्वादशरात्रेण नागराजानं अर्धमासेन ****(?) अप्सरसां एकविंशतिदिवसेन देवदानवासुरगरुडकिन्नरदिव्य ***** (?) *****(?)रात्रेण सर्वगणां मासेन राजपत्नीवशीकरणासुरम********(?) अष्टसहस्रं जुहुयात् | वशा भवति | रक्तकरतो*********(?)यात् | राजकन्यां लभते | ****(?)नां बिल्वाक्तानां **************(?) उत्पद्यते | शतपुष्पाणां ******(?)क्तानां लक्षं जुहुयात् | *****(?)शतं लभते | सौवर्चलिकाष्टसहस्राणि******(?) कृत्वाञ्जिताक्षः सर्वसत्त्वां वशीकरोति | प्द्f १६८, प्. ७१३) गन्धां जप्य मालभेत् | सर्वसत्त्ववशीकरणम् | रूपं जप्यात्मानं धूपयेत् सर्वसत्त्ववशीकरणम् | शिखां जप्य वन्धयेत् | सर्वत्र रक्षा | सर्वसत्त्वस्तम्भनम् | रण्डां वशीकर्तुकामः | माषां जुहुयात् | सव वशीभवन्ति | यक्षिणीं वशीकर्तुकामः पद्मानामष्टसहस्रं जुहुयात् | त्रिरात्रेणागच्छति | अथ नागच्छति सप्तरात्रेणागच्छति | सा च वरदा भवति | यथेप्सितं मृगयेत् | कन्याकामः लक्षं जुहुयात् | ईप्सितां कन्यां लभते | अथ वेताडं साधयितुकामः अक्षताङ्गं मृतकं गृह्य श्मशाने एकवृक्षे वा चतुःपथे वा एकलिङ्गे वा सर्वभूतिकां बलिमुपहृत्य महादेवस्य दक्षिणमूर्तौ मण्डलकमुपलिप्य बलिं दत्वा स्नानाभ्यलङ्कृतं कृत्वा भस्मना मण्डलकं लिख्य तस्य मध्ये पूर्वशिरं स्थाप्य शुक्लपटप्रच्छादितसाधकः शुक्लवासससखायः दिशापालां स्थापयेत् | कृतक्षस्योपरि उपविश्य तस्य मुखे तिलसर्षपां जुहुयात् | तावद् यावत् तस्य मुखा मणिर्निर्गच्छति | तां गृह्यात्मनो मुखे प्रक्षिप्य सर्वभूतिकबलिमुपाहृत्य दक्षिणमूर्तौ स्थितः हरितालमनःशिलाञ्जनमञ्जिष्ठारोचनामेकत्रयं गृह्य अश्वत्थपत्रान्तरितां कृत्वा तावज्जपेद् यावत् त्रिविधा सिद्धिरिति ऊष्मायति धूमायति ज्वलति | ऊष्मायमाने पादप्रचारिकां पञ्चवर्षसहस्रायुर्भवति | सर्वसत्त्ववशीकरणम् | धूमायमानेऽन्तर्धानं दशवर्षसहस्रायुर्भवति | ज्वलितेन सर्वविद्याधरो भवति | सर्वविद्याधराणां प्रभुः कल्पस्थायी उपमुपरि लक्षं जपमानः पञ्चाभिज्ञो भवति | बन्ध ऊर्ध्वमधश्च दिशापालानां च | राजकुले परमवल्लभो भवति | गृहीतवाक्यश्च भवति | कन्याकामः जातीकुसुमानां अष्टसहस्रं जुहुयात् | कन्यां लभते | तैरेव विकसितैः स्त्रीलाभः | सर्वग्रहमुद्रया वाचया सन्देशेन रोचनया अग्निं स्तम्भयति | नावां स्तम्भयति | आकर्षयति च दष्टमदष्टं वावेशयति | मृतकमुत्थापयति | वाचया ज्वरं प्रेषयति | श्रीरयावकाहारः लक्षं जपेत् त्रिरारोपितेन शुचिवाससा साधकगर्भलिङ्गे स्थाप्य महति पूजां कृत्वा अपरिमितं जपेत् | सर्ववाल्य**(?) वश्या भवन्ति | *************** (?) च कुर्यात् | सर्व**********(?) पानीयमष्टशतजप्तं गोषु दापयेत् | व्याधिमुपशमयति | अहोरात्रोपितः खड्गं खदिरं कृत्वा कृष्णचतुर्दश्यां ***(?)शाने तावज्जपेद् यावत् प्रज्वलितम् प्द्f १६९, प्. ७१४) तेन गृहीतेन अप्रतिहतगतिः खड्गविद्याधरो भवति | अकुञ्चितकुण्डलकेशः कल्पस्थायी सर्वविद्याधराणां बहुमतः | अथवा चन्द्रसूर्योपरागे कृतपुरश्चरणः प्रभाते उत्थाय पटस्य पूजां कृत्वा भिक्षवो भोजयितव्या | सदक्षिणं सिद्धिं मृगयेत् | ततो वाधिकेषु कर्मसु सिद्धो भवति | दूर्वाप्रवालानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | बन्धनान्मोचयति परमात्मानं च खड्गमष्टसहस्राभिमन्त्रितं कृत्वा विवरदेवकुलनगरद्वारेण वा स्थापयेत् | कपाटं भञ्जयित्वा द्वारमुत्पाटयति | सकृज्जप्तेनात्मरक्षा | क्षीराहुतिभिः स्त्रियो वशा भवन्ति | मनसा द्विमन्त्रां स्थापयति | सर्वमुद्रां स्तम्भयति | सर्वमन्त्रां चूर्णयति | असुरकन्यां वशीकरोति | सर्वगन्धाभिहुताभिशतेन कुलस्त्रियो वश्या भवन्ति | देवनिर्माल्यहोमेन देवतटिकप्रव्रजिता च वश्या भवन्ति | हृदये हस्तं दत्वा जपेत् | सर्वपापप्रनाशनं सर्वसत्त्वाकर्षणं च | शिरसि हस्तं दत्वा जपेत् अष्टशतम् | सर्वसत्त्वस्तम्भनं पापप्रणाशनं च | बिल्वं परिजप्य सर्वसत्त्वाकर्षणः | शिखासाधने शुक्लप्रतिपदमारभ्य तावज्जपेद् यावत् सन्ध्या | ततः शिखां अष्टसहस्राभिमन्त्रितां कृत्वा भिक्षामटेत् | ब्राह्मणगृहेषु | यदा भिक्षादायिका न पश्यति तदा सिद्धो भवति | प्रथमदिवसे एकभिक्षा | यावदेवं सप्ताहम् | एकविंशतिमे दिवसेऽपुण्यवतस्यापि सिध्यति | चन्द्रग्रहे क्षीरं परिजप्य पिबेन्महारसायनं भवति | उदकचुलुकमेकविंशतिवारां परिजप्य यस्य गृहस्याभिमुखं क्षिपति दिवसानि सप्त स वशो भवति | उदकचुलुकं सप्ताभिमन्त्रितं कृत्वा यस्य नाम्ना पिवति स वशो भवति | दृष्ट्या परिजप्तया एकविंशतिवारां यं पश्यति स वशो भवति | गुग्गुलुहोमेन लक्षेण राज्यं लभति | उत्पलकुमुदपुण्डरीकादिभिः निवेद्यमानैर्हूयमानैर्वा यमिच्छति तं वशमानयति | भग्नेनान्निप्राकारः उदके शर्कराभिर्वा शिखाबन्धः | स्वाभाविकमञ्जनं गृहीत्वा एकविंशतिजप्तेनाञ्जयेत् | सर्वजनप्रियो भवति | अञ्जनं तगरं कुष्ठं वचा पद्मकेसरं रोचना मनमदश्च अष्टसस्राभि****(?) **(?)लभेत् | सर्वेषां प्रियो भवति | *****(?)यिं प्रतिकृतिं कृत्वा ****(?) विधिना किङ्कुर्वाणा **************(?) मयिं च मणिं कृत्वा चतुर्भिरश्वत्थपलः प्रतिष्ठाप्य तावज्जपेद् *****(?)यति | प्द्f १७०, प्. ७१५) दन्तैरस्पृश्य ग्रसेत् | ग्रसितमात्रे यं चिन्तयति तत् सर्वमुत्पद्यति | कामरूपी दशपुरुषबलो भवति | अशीतिवर्षसहस्राणि कृतपुरश्चरणः पौर्णमाल्यां पटस्याग्रतः त्रिरात्रोषितः सधातुके चैत्ये गन्धपुष्पादिभिः पूजां कृत्वा कुशमयं खड्गं रश्वत्थपत्रे स्थाप्य मुष्टिप्रदेशे गृह्णीयात् | पेद् यावत् स्फुरितम् | गृहीत्वा विद्याधरो भवति | पटस्याग्रतः प्रातिहारकपक्षे त्रिःकालस्नायी त्रिचैलपरिवर्त्ती त्रिसन्ध्यं अष्टसहस्रिको जापः | यावत् पौर्णमासीति | अन्ते त्रिरात्रोषितः सङ्घाटिकां साधयेत् सर्वगन्धैः प्रलिप्य अष्टसहस्रघृतप्रदीपां प्रज्वाल्य पर्यङ्कोपविष्टः गन्धैर्मण्डलकमुपलिप्य तस्योपरि सङ्घाटिं प्रतिष्ठाप्य वामहस्तेनाक्रम्य तावज्जपेद् यावदुत्पतति | सप्ततालमात्रे तिष्ठति | अनेनैव मन्त्रेण सर्वबुद्धबोधिसत्त्वेभ्यो नमस्कृत्वा ग्रहीतव्यः | गृहीतमात्रेण विद्याधरो भवति | सर्वदेवनागयक्षगरुडकिन्नरमहोरगादयः प्रणामं कुर्वन्ति | पटस्याग्रतः विविधा बलिं निवेद्य उदारां पूजां कृत्वा पद्मपत्रे रोचनां स्थाप्य पर्यङ्कोपविष्टस्तावज्जपेद् यावत् त्रिविधा सिद्धिः | ऊष्मायमाने सर्वसत्त्ववशीकरणं वर्षसहस्रं जीवति | धूमायमाने वर्षकोटीसहस्राणि जीवति | योजनसहस्रं गच्छति | तामेवागच्छति | अश्रान्तः सर्वसिद्धानां मनसान्तर्धीयते | मनसाहारमुत्पादयति | अथ ज्वलति उदितादित्यवर्णतः द्विरष्टवर्षः आकुञ्चितकुञ्चितकुण्डकेशः कल्पस्थायी अनेकविद्याधरशतसहस्रपरीवारः यत्रेच्छति तत्र गच्छति | कृतपुरश्चरणः स्रग्दामचलनं दीपशिखावर्धनं रश्मिनिश्चरणं पटप्रकम्पऽऽच | एतां दृष्ट्वा यं साधयति तं सिध्यति | पापक्षयं च भवति | देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगां वशीकर्तुकामः पटस्याग्रतः खदिराङ्गारैरग्निं प्रज्वाल्य लवणतिलसिद्धार्थकां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम् | वश्या भवन्ति | उदकभस्मसर्षपान्यतमं अष्टसहस्राभिमन्त्रितं कृत्वा चतुर्दिशं क्षिपेत् | मण्डलबन्धः कृतो भवति | क्षीराहुतीनामष्टसहस्रं जुहुयात् | व्याधिना प्रमुच्यते | अन्नार्थी अन्नं जुहुयात् | पर्वतशिखरमारुह्य भिक्षाहारः लक्षत्रयं जपेत् | अन्ते त्रिरात्रोषितः अश्वत्थ**(?)रग्निं प्रज्वाल्य दिलानां दधिमधुघृताक्तानां कृत्स्नां रात्रिं जुहुयात् | प्द्f १७१, प्. ७१६) राजा भवति | तिलघृतहोमेन सर्वार्था सिध्यन्ति | मधुं जुहुयात् | सर्वजनप्रियो भवति | घृतं जुहुयात् | तेजस्वी भवति | क्षीरं जुहुयात् | शान्तिर्भवति | दधिं जुहुयात् | पुष्टिर्भवति | सिन्दुवारकाष्ठैरग्निं प्रज्वाल्य सर्वषाकस्याग्रं जुहुयात् | यथासिद्धमन्नमक्षयं भवति | यमिच्छति पट्टबन्धं लभति | निम्बपुष्पाणां लक्षं जुहुयात् | सर्वजनप्रियो भवति | अक्षतशालितन्दुलानां लक्षं जुहुयात् | ग्रामं लभति | अशोककाष्ठैरग्निं प्रज्वाल्य शतसहस्रं जुहुयात् | एकप्रदेशे राज्यं लभते | पटस्याग्रतः अगरुधूपं दहता लक्षमेकं जपेत् | ततस्तस्य राजगृहं स्वाधीनं भवति | भिक्षाहारो हविष्याहारो वा एकूनपञ्चाशलक्षाणि जपेत् | पृथिवीराज्यं लभते | क्षीरयावकाहारो भूत्वा अष्टलक्षं जपेत् | श्वेतसर्षपाणां लक्षं निवेदयेत् | सामन्तराज्यं लभति | दूर्वाप्रवालानां शतसहस्रं जुहुयात् | दीर्घायुर्भवति | अम्रपत्राणां क्षीराक्तानां शतसहस्रं जुहुयात् | सर्वव्याधिभ्यो मुच्यते | सर्वव्रीहिमेकस्थं कृत्वा शतसहस्रं जुहुयात् | सर्वव्रीहयः अक्षया भवन्ति | मधूककाष्ठानां शतसहस्रं जुहुयात् | अर्थमुत्पद्यते | मनःशिला हरितालं दंशरोचना समीकृत्य पटस्याग्रतः अष्टसहास्राभिमन्त्रितं कृत्वा बोधिवृक्षकाष्ठपत्रै स्थाप्य जपेत् | सिद्धो भवति | यस्य स्त्रिया पुरुषस्य वा दीयते | स वश्यो भवति | घृताहुतीनां शतसहस्रं जुहुयात् | ग्रामत्रयं लभते | कोटिं जपेत् | शतपरिवारः विद्याधरो भवति | लक्षमेकं जपेत् | मृष्टान्नपानमयाचितं लभते | सप्तद्वीपाधिपो वशमागच्छति | अर्कसमिधानां लक्षं जुहुयात् | पट्टबन्धो भवति | अपामार्जनेनाक्षिरोगमपनयति | ज्वरितस्य कुशैरपामार्जनम् | कन्याकर्तृतसूत्रकं शतजप्तं बध्नीयात् | सुभगो भवति | अञ्जनं साधयितुकामाः सौवीराञ्जनं पलं गृह्य अग्निना सगन्धं कृत्वा अञ्जनापरिकम शोधयित्वा चन्द्रग्रहे उदकं प्रविश्य तावज्जपेद् यावत् कूश्माण्डो भवति | तत्क्षणात् स्फुटति | स्फुटितमात्रेणास्त्र वर्णस्य तेजस्वी भवति | कुण्डलमन्त्रेश्वरः सर्वविद्याराणां अवध्या प्रतिहतगति. *****(?) उत्पतति | ******(?)वति | पद्मानामुत्पलानां वा लक्ष जुहुयात् | सुवर्णसहस्रं लभति | पलाशाभिधानां शतसहस्रं जुहुयात् | सुवर्णसहस्रं लभते | त्रिरात्रोषितः क्षीरयावकाहारः साधयेत् | प्द्f १७२, प्. ७१०) मनःशिलां पलमेकं गृह्य सप्ताश्वत्थपत्राणां उपरि स्थाप्य तावज्जपेत् यावत् प्रज्वलति | कायं विदारयित्वा प्रक्षिपेत् | तत्क्षणादेव स उद्गच्छति | स विद्याधरो भवति | सर्वदेवनागयक्षाप्रतिहतदिव्यविमलश्रोत्रमनोजवः उदितादित्यवर्णः सर्वविद्याधरबहुमतः दिव्यगतिः विद्याधरः शतपरिवारः | पटस्याग्रतः गन्धपुष्पैः उदारां पूजां कृत्वा क्षीरयावकाहारः शुचिवस्त्रनीवसनः यं यं प्रार्थयते तं लभन्ते | चन्द्रग्रहे बोधिवृक्षस्याधस्तात् गन्धपुष्पधूपैश्च पूजां कृत्वा मनःशिलां रोचनां एकविंशतिवारां परिजप्य शिरस्योपरि मार्जयेत् | ललाटे तिलकं कुर्यात् | राजकुलं प्रविशेत् | राजवल्लभो भवति | पद्मबीजानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | यस्य नामं ग्रहाय स वशो भवति | ब्रह्मचारी जितेन्द्रियः अगुरुतुरुष्कहोमं कुर्यात् | पूर्णमास्यां चतुर्भिः कलशैरुदकपरिपूर्णैरष्टसहस्राभिमन्त्रितै राजानं राजमात्रं वा स्नापयेत् | श्रीमां भवति | असाध्यमानायाः क्षीरसमिद्भिरग्निं प्रज्वाल्य विद्यानां दधिमधुघृतानां शतसहस्रं जुहुयात् | रक्तोत्पलनीलोत्पलानां वा जातीपुष्पैर्वा होमः | पटस्याग्रतः क्षीरयावकाहारः वर्धमानाः पूजा कार्या | भिक्षवो भोजयितव्या | अनेन कर्मणा असाध्यमानापि सिध्यति | अर्थकामः अपामार्गसमिधाभिर्होमं धनं लभते | घृतहोमेन शान्तिकपौष्टिकम् | दधिमधुघृताक्तैः पद्मैः घृतगुग्गुलुहोमो वा अष्टसहस्रम् | एवं सर्वार्थाः सिध्यन्ति | कृष्णव्रीइ यस्योद्दिश्य परिजप्य हूयते स वश्यो भवति | अपामार्गसमिधाभिर्वशीकरणम् | पटस्याग्रतः बिल्वकाष्ठैरग्निं प्रज्वाल्य अगरुसमिधानां शतसहस्रं जुहुयात् | सर्वार्थां ददाति | सधातुके चैत्ये दशसहस्राणि जुहुयात् | राज्यं लभति | पद्मलक्षहोमेन महाभोगो भवति | सर्वेषां होमानां गन्धपुष्पधूपनैः पूजां कृत्वा होममारभेत् | बिल्वसमिधानामष्टशतेनाग्निं प्रज्वाल्य दधिमधुघृताक्तानां बिल्वसमिधानामष्टसहस्रं जुहुयात् | ******* (?) भवति | *********(?) प्रज्वाल्य अगरुसमिधानां ********* (?) जुहुयात् | सर्व*********(?) | सधातुके चैत्ये गन्धपुष्पधूपैः ******(?) | प्रागुत्विता शुचिभूत्वा अग्निं प्रज्वाल्य आगकेसरप्रियङ्गु *****(?) जुहुयात् | प्राणाभ्यन्तरेण द्रव्यं लभति | प्द्f १७३, प्. ७१८) वैकङ्गनसमिधानां दधिमधुघृताक्तानां पलाशकाष्ठैरग्निं प्रज्वाल्य जुहुयात् | सुवर्णसहस्रं लभति | उदुम्बरकाष्ठैरग्निं प्रज्वाल्य वामकसमिधानां दधिमधुघृताक्तानां शतसहस्रं जुहुयात् | शतसहस्राभिमन्त्रितं कृत्वा हस्ते बद्ध्वा युद्धेऽपराजितो भवति | शिरसि बद्धेनादृश्यो भवति | कृष्णप्रपञ्चम्यां नदीं गत्वा श्वेतपुष्पाणां अष्टसहस्रं प्रवाहयेत् | यावदष्टाशीतिदीनारसहस्रं लभते | कुन्दुरुकश्चाप्येषं कर्मः | बिल्वश्चाप्येष कर्म | भोगांश्च ददाति | कृष्णपञ्चम्यां पटस्याग्रतः अहोरात्रोषितेन शुक्लनन्तके गोरोचनां स्थाप्य तावज्जपेद् यावत् त्रिविधा सिद्धिः | पादप्रचारिके सप्तवर्षसहस्राणि जीवति | ज्वलिते कल्पस्थायी भवति | सर्वरोगचिकित्सनम् | मृत्तिकया बन्धनमोक्षणं मण्डलबन्धः | पद्मानां पटस्याग्रतः अष्टसहस्रं जुहुयात् त्रिसन्ध्यं दिवसानि सप्त | निधानं पश्यति | पटस्याग्रतः दधिमधुघृताक्तानां शतपुष्पाणां शतसहस्रं जुहुयात् | विषयं लभति | घृताहुतीनां शतसहस्रं जुहुयात् | पञ्चग्रामां लभति | अर्कपुष्पाणां अष्टसहस्रं जुहुयात् | रूपकसहस्रं लभति | जप्यमानस्य सर्वं प्रयच्छति | वर्जयित्वा कामोपसंहितम् | कृष्णचतुर्दश्यां रात्रोषितः रात्रौ आर्यमञ्जुश्रियस्याग्रत. निर्माल्य दधिमधुघृताक्तानां दशसहस्राणि जुहुयात् | महतीं श्रियं लभते | बोधिवृक्षस्याधस्ताद् बोधिवृक्षसमिधानामष्टसहस्रं जुहुयात् | रूपकसहस्रं लभते | जातीपुष्पाणामष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम् | सुवर्णसहस्रं लभते | एते कर्म त्रिरात्रोपितेन बोधिवृक्षस्याधस्तात् क्षीरसमिद्भि अग्निं प्रज्वाल्य गुग्गुलुगुलिकानां कर्पासास्थिप्रमाणानां अष्टसहस्रं जुहुयात् | दीनारसहस्रं लभति | अक्षिरोगज्वरगुल्मशिरोगृध्रसीनां परिजप्य दातव्यम् | वृकव्याघ्रमहिषद्वीपहस्तिरिक्षचोरसर्पपिशाचभूतब्रह्मराक्षसानां ज**(?)राणां सर्वभयोपद्रवेभ्यः अनेनैव रक्षा कर्त्तव्या | पद्मसरं गत्वा ***(?) लक्षं निवेदयेत् | सामान्यराज्यं लभति | कृतपुरश्चरणः म***(?) गृह्य मानुषक्षीरेण पीषयित्वा सहस्र*********(?) कृत्वा पोषयित्वा पञ्चगुलिकां हुत्वा **(?)गरुमये समुद्गके ******(?) निसिद्धार्थकसहितानां चन्द्र**(?) ***(?) वा बलिविधानं कृत्वा पटस्याग्रतः प्द्f १७४, प्. ७१९) समुद्गके स्थाप्य तावज्जपेत् यावत् सर्षपा चिटिचिटायन्ति | तदा सर्वसत्त्ववशीकरणं करोति | यदि धूमायति सर्वान्तर्धानिकानां राजा भवति | अनन्तकल्पं जीवति | अथ प्रज्वलति तदा देवकुमारः उअदितादित्यसमप्रभः महाकल्पस्थायी विद्याधरराजा भवति | रोचनहरितालादीनि एतेनैव विधानेन साधयितव्यानि | सर्वेषां त्रिविधा सिद्धिः | शान्तिं कर्तुकामेन याज्ञिकैः समिद्भिरग्निं प्रज्वाल्य परमान्नमष्टसहस्रं जुहुयात् त्रिरात्रम् | शान्तिर्भवति | आत्मनः परस्य वा सप्तरात्रेण ग्रामस्य नगरस्यानावृष्टौ त्रिमधुरं जुहुयात् | शङ्खध्वजादीनि अभिमन्त्र्य कर्मं क्षपयति | सप्ताहेन पञ्चानन्तर्याणि क्षपयति | सर्वकर्मसमर्थश्च भवति | विद्याबन्धः सूत्रकेणैकविंशतिजप्तेन ग्रन्थिः कर्तव्यः | सर्षपैर्मण्डलबन्धः | चन्द्रग्रहे सूर्यग्रहे वा चन्दनेन मण्डलकमुपलिप्य घृतमधु आमलकीरसं समभागानि ताम्रभाजने स्थाप्य पर्यङ्कं बद्ध्वा तावज्जपेद् यावदूष्मायति | तं पीत्वा श्रुतिधरो भवति | पोषधिको विकाले उदकचुलकं सप्तवारां परिजप्य पातव्यम् | यं चिन्तयित्वा करोति स्वप्नान्तरे कथयति | श्वेतवचां सप्तवारां परिजप्य मुखे दन्तान्तरे प्रक्षिप्य यं याचति तं लभते | उत्तरवादी भवति | यं यमेव भावं मनसि कृत्वा जपति तं तथागतस्य पुरतः पुष्पगन्धादीन् दत्त्वा दिशाबलिं च चतुर्दिशं क्षिपेत् | ततः कुशविण्डकोपविष्टः अष्टसहस्रं जपेत् | सर्वाशां परिपूरयति | वल्मीकमृत्तिकया सिंहं कृत्वा गोरोचनया समालभ्य पटस्याग्रतः कृतपुरश्चरणः पिण्डकां कृत्वा स्थाप्य लक्षत्रयं जपेत् ततश्चलति | चलितमात्रे च सिद्धो भवति | तत्क्षणादेव मन्त्रं जपता सिंहमभिरुह्यतव्यम् | आकुञ्चितकुण्डलकेशः द्विरष्टवर्षाकृति आत्मषोडशमः उत्पतति | सर्वविद्याधराणां आगम्य ब्रह्मायप्य मृतश्च देवेषूपपद्यते | दृष्ट्वा श्रुत्वा परसैन्यं स्तम्भयति | सर्वव्रीहिगन्धोदककलशं परिपूर्णं कलशं आम्रपल्लवमुखप्रच्छादितं कृत्वा अष्ट*****(?)भिमन्त्रितेन विनायकं स्नापय | क्षिप्रं मुञ्चति | *(?)विणी *****(?) | सुखेन प्रसूयति *******(?येत् | सर्वग्रहां **************(?)नाभिषेकेण या परियुक्तो भवति | साधनसमश्च भवति | महासामन्तवशीकरणे पटस्याग्रतः अर्कसमिधानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् सप्तरात्रं त्रिसन्ध्यम् | प्द्f १७५, प्. ७२०) सपरिवारो वशीभवति | राजकन्यायै प्रियङ्गुकुसुमानां अष्टसहस्रं जुहुयात् सप्ताहा यस्य दीयते | पिण्याकाष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम् | पुरस्थं वशमानयति | कृतपुरश्चरणः सधातुके चैत्ये लक्षं जपेत् भिक्षाहारः | ततः कृष्णचतुर्दश्यां एकरात्रोषितः पटस्य यथाविभवतः पूजां कृत्वा कृष्णतिलानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | ततः प्रभाते ग्रामं लभते | द्वादश | असिद्धेः कर्माणि सहस्रपिण्डं ग्रामं लभते | कृतपुरश्चरणः नदीतटे पश्चाभिमुखं पटं प्रतिष्ठाप्य उदकसक्तवाहारः यथाविभवतः पूजां कृत्वा घृतप्रदीपां एकविंशतिप्रदीपां प्रज्वाल्य बहिः सार्वभूतिकां बलिं निवेद्य पर्यङ्कोपविष्टः तावज्जपेद् यावदरुणो देवपुत्र आगच्छति | तं वरं ददाति | वटवृक्षस्याधस्ताद् भिक्षाहारो मासत्रयं जपेत् | ततः कृष्णचतुर्दश्यां गोचर्ममात्रं स्थण्डिलकमुपलिप्य सर्वरसिकं बलिं निवेद्यम् | बहिः सर्वभूतिकं बलिं दत्त्वा ततः कुशविण्डकोपविष्टः निर्धूमाङ्गारेषु गुग्गुलुगुलिकानां वदरास्थिप्रमाणानां अष्टसहस्रं जुहुयात् | ततः पटवासिनी यक्षिणी आगच्छति | तस्या गन्धोदकेनार्घो देयः | सा ब्रवीति किं करोमीति माता भगिनी सुखी एषामेकतमं ग्राह्यम् | रसरसायनं ददाति | तं भक्षयित्वा कल्पायुर्भवति | यक्षबलो भवति | कृतपुरश्चरणः सधातुके चैत्ये यथाविभवतः पूजां कृत्वा त्रिःकालस्नायी तृसन्ध्यं षण्मासां अपरिमितो जापः | भिक्षाहारः क्षीरयावकाहारो वा | ततः साधनं समारभे | कृष्णपक्षे पुष्यनक्षत्रे करवीरिकां मनःशिलां वीरक्रयक्रीतां गृह्य पञ्चगव्येन संशोध्य ब्राह्मणकन्यां वामोषधं दत्त्वा स्नानालङ्कृतां कृत्वा पूर्वाभिमुखे प्रविश्य तिथिकरणमुहूर्तेन पीषयेत् | अनामिकाङ्गुल्या विषमां वदरास्थिप्रमाणां गुलिकां कृत्वा अश्वत्थसमुद्गके प्रक्षिप्य पटस्याव्रतः सहस्रसम्पाताभिहुतं कृत्वा *(?)रात्रोषितं च अन्ते शुक्लपक्षे उदारां पूजां कृत्वा उदारतरीं बलिं निवेद्य गन्धपुष्पधूपार्चितं समुद्गकं कृत्वा चतुर्भिर****(?) स्थाप्य त्रिभिराच्छाद्य हस्तेनावष्टभ्य सर्वबुद्धबोधिसत्त्वानां नमस्कारं कृत्वा कुशविण्डकोपविष्टः तावज्जपेद् यावद् *****(?) ***(?)दीनि द्रव्याणि ददन्ति | पुनरपि निर्गच्छति | अर्धंरत्न********(?) कार्यम् | अथ तत्रैव तिष्ठति | न वैष्णव**(?)भयं भवति | प्द्f १७६, प्. ७२१) भगवन्तं मैत्रेयं पश्यति | प्रणिधिं कृत्वा प्रवेष्टव्यम् | सर्ववारणम् | शुचिस्थाने पांसुगृहं सर्षपस्योपरि क्षिपेत् | सर्ववारणं कृतं भवति | अतियातिमिच्छति | वक्तव्यं गच्छस्वेति | वस्त्रकर्णके मृण्मयीं मुद्रां कृत्वा अष्टसहस्राभिमन्त्र्य दष्टकोपरि स्थापयित्वा आकर्षयेत् | मृतकोऽप्युत्तिष्ठति | द्रव्याणां च मनःशिलादीनां खड्गचक्रमुसुण्ड्यादीनां पञ्चगव्येन शोधयित्वा सहस्रसम्पाताहुतिं कृत्वा अन्यतमं द्रव्यं गृह्य पूर्णमास्यां साधनमण्डलं लिख्य वस्त्रोपरि द्रव्यं स्थाप्य पर्यङ्कोपविष्टः तावज्जपेद् यावत् सिद्धिर्भवति | फलके यमिच्छति द्रव्यं तस्य तस्य नामं लिख्य अष्टसहस्राभिमन्त्रितं कृत्वा यत्र नागस्तिष्ठति तत्र ह्रदे क्षेप्तव्या | तस्य नागः सर्वं सम्पादयति | सप्ताहेन नियतं वस्तुं सम्पादयति | कूपे ह्रदे वाभिलपितव्यं नामं लिख्य द्रव्यादीनां फलके तथैव ह्रदे क्षेप्तव्यम् | ततः पुरुष उदके निमज्जयितव्यम् | स तस्मिं महान्तं शब्दं शृणोति | अमुकस्मिन् प्रदेशे द्रव्यादिकं तिष्ठति | ततो ग्रहेतव्यम् | नदीसन्तारकादौ दशषु च सभायां राजकुले वा विवादे वा स्मर्तव्यम् | सर्वत्रापराजितो भवति | यमिच्छति वशं कर्तुम् तस्य मुखे आर्यमञ्जुश्रियं ध्यात्वा किञ्चित् सम्भाषणं कुर्यात् | अचिराद् वशो भवति | उदकं भाजने कृत्वा आर्यमञ्जुश्रियं ध्यायीत | तेन पानीयेनाष्टसहस्राभिमन्त्रितेन दष्टं सञ्चिन्तयेत् | निर्विषो भवति | तत्रोक्तेन विधानेन मण्डलं प्रविष्ट सम्पूर्णस्य वृषस्य अपतितगोमयं गृह्य हविष्याहारः समौनी मण्डलं कृत्वा तावज्जपेत् पौर्णमास्यां आरभ्य यावत् तृतीयमपि लक्षं जपेत् | ब्रह्मचारी षण्मासां व्रतमेतच्चरेत् | मासेनात्र सिद्धिः | षड्भिर्मासैः कृष्णं जगत् प्रत्यक्षं भवति | शरीरेणापि परां सिद्धिमवाप्नोति | समासेन सर्वमन्त्रं साधयति || महाकल्पराजात् आर्यमञ्जुश्रीमूलकल्पात् (****(?)शत्तमो) हेमसाधनपटलः विसरः परिसरः परिसमाप्तः || परिसमाप्तं च यथाल***********(?)यस्य कल्पमिति || प्द्f १७७, प्. ७२२) स्वस्ति श्रीरा***(?)ङ्गलकावस्थितेन मार्गशीर्षशुक्ला * * * * * * * * (?) पदानक्षत्रे सिंहस्थेऽपि गुरौ मञ्जुश्रीकल्पं समाप्तमिति | श्रीमूलघोषविहाराधिपतिना श्रीवो* * * * * * * * * * * * * * * * * * * * (?) मध्यदेशाद् विनिर्गतेन पण्डितरविचन्द्रेण लिखितमिति | * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * (?) | शुभ भूयात् | ########### END OF FILE #######